सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 495, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 495

४९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]
अत एव भगवतोक्तम्—
“ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ” ॥ इति ।
तस्य पापक्षयस्य विषयवैराग्यं लिङ्गम् । एतच्च नैष्कर्म्यसिद्धावुक्तम्—
“ शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ” ॥ इति ।
श्रेयोमार्गेऽप्यभिहितम्—
“ ब्रह्मादिस्तम्बान्ते संसारेऽस्मिन्नसारताबुद्धिः ।
अन्तर्यामिणि देवे समर्पितस्वक्रियाविषिक्तिरियम् ” ॥ इति ।
विरक्तस्य विद्यायामरुचिकरे विघ्ने परिहृतेऽपि चित्तैकाग्र्यहेतोरुपासनस्य योगशब्दा-
भिधेयस्यान्तरायाः संभवन्ति । ते च पतञ्जलिना योगशास्त्रे सूत्रिताः— “ व्याधिस्त्या-
नसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपा योगा-
न्तरायाः ” इति । व्याधिः प्रसिद्धः । स्त्यानमकर्मण्यता चित्तस्य । चित्तं हि कदाचि-
त्तमोगुणबाहुल्येन व्यापारायोग्यं सन्मूढं भवति । उपास्यनिश्चयदार्ढ्यराहित्यं संशयः । उपा-
सनस्य कदाचिद्विस्मृतिः प्रमादः । पश्चात्करिष्यामीत्युपेक्षाऽऽलस्यम् । वैराग्यराहित्यम-
विरतिः । उपास्यवस्तुन्यन्यथा निश्चयो भ्रान्तिदर्शनम् । चित्तैकाग्र्यस्योत्तरोत्तराभिवृद्धि-
राहित्यमलब्धभूमिकत्वम् । कदाचिदुपासने प्रवृत्तिः कदाचित्यागदानादौ कदाचित्कृषिवा-
णिज्यादावित्येतादृगनवस्थितत्वम् ।
एतेषां योगान्तरायाणामुपशमनाय जप्यं मन्त्रमाह —
हरिः ॐ ।
शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒
इन्द्रो॒ बृह॒स्पति॑ः । शं नो॒ विष्णु॑रुरुक्र॒मः , इति ।
अह्नः प्राणवृत्तेश्चाभिमानी देवो मित्रो ३ नोऽस्माकं शं सुखहेतुर्भवतु । एवमुत्तरत्रापि
योज्यम् । रात्रेर्पानवृत्तेश्चाभिमानी वरुणः । चक्षुष आदित्यमण्डलस्य चाभिमान्यर्यमा ।
बाह्वोर्बलस्या(स्य चा)भिमानीन्द्रः । वाचि बुद्धौ चाभिमानी बृहस्पतिः । पादयोरभिमानी
विष्णुः स चोरुक्रमः । त्रिविक्रमावतारे विस्तीर्णपादोपेतत्वात् । अथवा प्राणादिष्ववय-
वेष्वभिमानिनां मित्रादीनामुक्तत्वादवयविनि कृत्स्नदेहेऽभिमानी विराट्पुरुषः परिशिष्यते ।
स चोरुक्रमशब्देनाभिधीयते । ब्रह्माण्डदेहोपेतत्वेन सर्वव्यापित्वमुरुक्रमत्वम् ।

१ क. घ. ङ. 'सू-शुद्धं' । २ क. ख. ग. ङ. 'भिक्तिम् । ३ ग. घ. मित्रः ।
तै. उ. शां० ।