सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 504, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 504

[प्रपा०७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९९
यथा पृथिवी पूर्वरूपमित्यादिकं वेद्य॑स्वरूपमप्युभयत्रैकविधम् । संधीयते प्रजया पशुभि-
रित्यादिकं फलमप्येकरूपम् । तस्मादुपासनैक्यं युक्तम् ।
गुणोपसंहारन्यायश्च तत्रै×वाभिहितः—
“एकोपास्तावनाहार्या आहार्या वा गुणाः श्रुतौ ।
अनुक्तत्वादनाहार्या उपकारः श्रुतैर्गुणैः ॥
श्रुतत्वादन्यशाखायामाहार्या अग्निहोत्रवत् ।
विशिष्टविद्योपकारः स्वशाखोक्तगुणैः समः ॥
वाजसनेयके प्राणविद्यायामधिको गुणो रेतआख्यः श्रुतः—“रेतो होच्चक्राम ”
इति । नासौ छान्दोग्ये प्राणविद्यायामुपसंहर्तव्यः । अत्रानुक्तत्वात् । विद्योपकारस्तत्र
श्रुतैरेव प्राणवागादिभिर्गुणैर्भविष्यतीति प्राप्ते ब्रूमः—एतच्छाखायामश्रवणेऽपि शाखान्तरे
श्रुतत्वादुपसंहार्य एव । अग्निहोत्राद्यनु