तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 499, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 499४९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७ अनु० १]
द्वितीयेऽनुवाके दृष्टादृष्टोपकारी ग्रन्थपाठनियमो विहितः । तृतीये त्वैहिकामुष्मिकफल-
४९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७ अनु० १]
अथ सप्तमे तृतीयोऽनुवाकः ।
द्वितीयेऽनुवाके दृष्टादृष्टोपकारी ग्रन्थपाठनियमो विहितः । तृतीये त्वैहिकामुष्मिकफल-
सिद्धये काचिदुपासना विधीयते । तत्राऽऽदौ तावन्मङ्गलाचरणार्थोऽयं मन्त्र आम्नायते ।
पूर्वोक्तशान्तिमन्त्रेण विघ्नोपशमः प्रार्थितः । अनेन तु मन्त्रेण विद्यातत्फलयोरुत्कर्षः
प्रार्थ्यते । तमिमं मन्त्रमाह—
सह नौ॒ यशः॑ । * सह नौ ब्रह्मवर्च॒सम्, ॥ इति ।
विद्यानिमित्तं यद्यशस्तन्नावावयोः शिष्याचार्ययोः सहास्तु । सम्यगनेनोपासनमनुष्ठीयत
इति शिष्यस्य यशः । सम्यगुपदिष्टमित्याचार्यस्य यशः । अनेन विद्यायामवैकल्यलक्षण
उत्कर्षोऽभिहितो भवति । ब्राह्मणस्योचितं श्रुताध्ययनलक्षणं तेजो ब्रह्मवर्चसम् । एतच्च
श्रूयमाणस्य फलस्य सर्वस्याप्युपलक्षणम् । “ संधीयते प्रजया पशुभिर्ब्रह्मवर्चसेनान्ना-
द्येन सुवर्गेण लोकेन ” इति हि श्रूयते । एतच्च ब्रह्मवर्चसादिफलमावयोः शिष्याचार्ययो
स्सहास्तु । यद्यप्युपासितुः शिष्यस्यैव तत्फलं तथाऽपि तदीयफलसंपत्तेराचार्यपरितोषहे-
तुत्वादाचार्यस्यापि फलत्वेनोपचर्यते । सोऽयं प्रार्थनारूपो मङ्गलाचरणार्थो मन्त्र
शिष्येण जप्य आचार्यस्य तु कृतार्थत्वान्नानेन कृत्यमस्ति ।
यदर्थमिदं मङ्गलाचरणं तामेतां विद्यां प्रतिजानीते—
अथातः॑ सꣳहि॒ताया उ॑प॒निषदं॑ व्याँख्यास्या॒मः । पञ्च॑-
स्वधि॒करणे॑षु । अधि॒लोकमधि॒+ज्यौतिषमधिवि॒द्यमधिप्र॒ज-
मध्या॒त्मम् । ता महा॑सꣳहि॒ता इत्या॑चक्षते, इति ।
अथशब्दः पूर्वानुवाकविहितवर्णस्वराद्युच्चारणाभ्यासानन्तर्यमाचष्टे । अतःशब्दस्
तूच्चारणवासनया युक्तत्वं हेतू करोति । यस्मादुपासनायां प्रवर्तमानः पुरुषश्चिराभ्यस्त
वेदपाठेन वासितः सन्व्देदपाठसंबन्धराहितेषूपासनेषु चित्तं सहसा प्रवेशयितुं न शक्नोति
तस्मात्तत्संबन्धिनीं संहिताया उपनिषदं विस्पष्टमा समन्तात्कथयिष्यामः । वर्णा
परस्परमत्यन्तसामीप्यं संहिता । “ परः संनिकर्षः संहिता ” इति पाणि॒निना सूत्रि-
त्वात् । उप सामीप्ये निषण्णं प्रजापशुब्रह्मवर्चसादिफलमस्यामित्युपनिषदुपासना ताम
- अत्र सकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः । + अत्र सर्वत्र
पुस्तकेष्वधिज्योतिषमिति पाठः ।
१ ख. °केऽदृष्टो° ।