तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 507, कुल 914 में से
संदर्भ में पढ़ें५०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]
प्राप्तम् । तथा चरमानिर्दिष्टत्वेन विधेयतया पूर्ववर्णस्य दृष्टिपरत्वं प्राप्तम् । तथाऽपि
पृथिव्या उत्कृष्टत्वात्तद्दृष्टिरेव पूर्ववर्णे कर्तव्या । यथोत्कृष्टविष्णुशिवादिदृष्टिर्निकृष्टे
शालग्रामादौ क्रियते न तु विपर्ययस्तद्वत् । उत्कर्षन्यायश्चतुर्थाध्यायस्य प्रथमपादे +
चिन्तितः—
“ किमन्यधीर्ब्रह्मणि स्यादन्यस्मिन्ब्रह्मधीरुत ।
अन्यदृष्ट्योपासनीयं ब्रह्माऽत्र फलदत्वतः ॥
उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम् ।
अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत् ॥
“ मनो ब्रह्म ” इत्यात्राब्रह्मरूपमनोदृष्टिं ब्रह्मणि कृत्वा ब्रह्मोपासनीयम् । ब्रह्मणः
फलप्रदत्वेनोपास्यतार्हत्वादिति प्राप्ते ब्रूमः—ब्रह्मण उत्कृष्टत्वात्तद्दृष्टिर्निकृष्टे मनसि
कर्तव्या । लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति । नतु विपर्ययः ।
किंच “ मनो ब्रह्मेत्युपासीत ” इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दृष्टिलक्षको भवि-
ष्यति । मनःशब्दश्चानितिपरत्वान्मुख्यार्थवाची । यथा स्थाणुं चोर इति प्रत्येतीत्यत्र
स्थाणुशब्दो मुख्यार्थवाची चोरशब्दो दृष्टिलक्षकस्तद्वत् । न चाब्रह्मस्वरूपस्य मनस
उपास्यत्वे ब्रह्मणः फलप्रदत्वानुपपत्तिः । अब्रह्मरूपस्यातिथेरुपासने कर्माध्यक्षत्वेन यथा
फलं प्रयच्छति तद्वदत्रापि संभवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या ” ।
यद्यप्यधिलोकमितिशब्देन पृथिव्या अधिकरणत्वाभिधानात्प्रतीकत्वं प्रतिभाति
तथाऽपि पृथिवीदृष्टिरेवात्र पूर्ववर्णात्मके युक्ता । यथा लोकेषु पञ्चविधं सामोपासीतेत्यत्रा-
धिकरणत्ववाचिन्या सप्तम्या निर्दिष्ठानां लोकानां दृष्टिः कर्माङ्गे साम्नि प्रतीके संपादिता
तद्वत् । एतदपि यदि “ आदित्यादिमतयश्चाङ्ग उपपत्तेः ” [ ब्र० सू० अ० ४
पा० १ सू० ६ ] इति साम्न उपास्तिक्रियाकर्मत्वेनाभिधानाद्दृष्टिलक्षकत्वं लोकश-
ब्दस्य युक्तमित्यभिप्रेत्य लोकदृष्ट्या सामाख्यं प्रतीकमुपास्येत तर्ह्यत्रापि महासंहिता
व्याख्याता वेदेतिसंहिताशब्देन विदिक्रियाकर्मणो निर्देशात्पृथिव्यादिदृष्ट्या संहितोपास्य-
ताम् । पृथिव्याः प्रतीकत्वाभावेऽपि दृष्टिविषयत्वाभिप्रायेणाधिलोकमिति निर्देश उप-
पद्यते । तत्रेदपरं चिन्तनीयम् । उपासनं नाम किं सकृत्प्रत्यय आहोस्वित्प्रत्य-
यावृत्तिरिति । तत्र यथा “ अष्टवर्षं ब्राह्मणमुपनयीत ” इत्यत्र सकृदनुष्ठानाद्वि-
धिसिद्धिस्तद्वत्सकृत्प्रत्ययेनैव विधेश्चरितार्थत्वान्नाऽऽवृत्तिरिति चेन्न वेदाध्ययनवदा-
- ब्रह्मदृष्टिरुत्कर्षात् । अ० ४ पा० १ अ० ४ सू० ५ ।
१ ग. घ. ॰र्थः । ब्र° । २ क. ख. ग. घ. ॰द्व्यादि° ।