सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 512, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 512

[१०७अनु०५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५०७
ब्रह्म॒चारिणः॑ । धा॒तराय॑न्तु॒ सर्व॑तः॒ स्वाहा॑, इति ।
आपो लोके प्रवता प्रवणवता निम्नदेशगतेन मार्गेण यथा त्वरया समागच्छन्ति ।
यथा च मासाश्चैत्रवैशाखादयः सर्वेऽप्यहर्जरं संवत्सरमायन्ति । अहानि षष्ट्युत्तर-
त्रिशतसंख्याकानि जीर्णान्यन्तर्भवन्ति यस्मिन्संवत्सरे सोऽयमहर्जरः । न खलु कश्चि-
दपि मासः संवत्सरमतिक्रामति । हे धातः सर्वस्य जगतो विधातः सर्वेऽपि ब्रह्मचा-
रिणो मासन्यायेन मामनतिक्रामन्तो जलन्यायेन त्वरोपेताः सर्वस्मादपि देशान्मामा-
च्छन्तु ।
होममन्त्रानभिधायोपस्थानमन्त्रमाह—
प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ( ३ ), इति ।
वितन्वाना शमा॑यन्तु ब्रह्म॒चारिणः स्वाहा