तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 500, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ७ अनु० ३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९५
तत्र येयमुपासनीया संहिता सा पञ्चविधेष्वाश्रयेषु व्याख्यास्यते । आश्रयभेदेनोपासनाया
भेदशङ्का मा भूदित्येतदर्थमेकैवोपासना पञ्चस्वाश्रयेषु प्रतिज्ञायते । लोकज्योतिर्विद्याप्र-
जात्मानः पञ्चाऽऽश्रयाः । पृथिव्यादींल्लोकानधिकृत्य वर्तत इत्यधिलोकम् । एवमुत्तर-
त्रापि द्रष्टव्यम् । या एता लोकादिपञ्चविधाश्रयभेदभिन्नाः संहिताः सन्ति ताः सर्वा
महासंहिता इत्येवमभिज्ञा उपासका आचक्षते । लोकादिविषयोत्कृष्टदृष्ट्योपासितत्वा-
त्संहितानां महत्त्वम् ।
प्रतिज्ञातायामुपासनायामुपास्यं प्रथमावयवमाह—
अथा॑धिलो॒कम् । पृ॑थि॒वी पू॑र्वरू॒पम् । द्यौरु॑-
त्तररू॒पम् । आ॒का॒शः सं॑धिः (१) ।
वा॒युः संधा॑नम् । इत्य॑