सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 502, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 502

[प्रपा०७अनु०३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९७
सनक्रियां विविधासु नोपलक्ष्य पञ्चमलकारेण विधत्ते । एवं च सत्युपासनप्रकरणमनुगृह्यते ।
इति प्राचीनयोग्योपास्स्वेत्यभिधानात्तत्प्रकरणत्वमवगम्यते । अत्र स्वर्गाख्यस्य फलस्योऽऽ-
मुष्मिकत्वमेव । पश्वादिफलस्य तु चित्रान्यायेनाऽऽमुष्मिकत्वं पाक्षिकम् । “चित्रया यजेत
पशुकामः” इत्यत्रासति प्रतिबन्धे पशुप्राप्तिरैहिकी, अन्यथा त्वामुष्मिकीति चित्रान्यायः ।
ऐहिकफलसिद्धयर्थं पुरुषतन्त्रोपासनक्रियाऽत्र वेदेत्यनेन विधीयते ।
अत्र मीमांसा । चतुर्थाध्यायस्य प्रथमपादे * चिन्तितम्—
“ नास्त्यासनस्य नियम उपास्तावुत विद्यते ।
न देहस्थितिसापेक्षं मनोऽतो नियमो नहि ॥
शयनोत्थानगमनैर्विक्षेपस्यानिवारणात् ।
धीसमाधानहेतुत्वात्परिशिष्यत आसन