तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 510, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ७ अनु० ४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५०५
भूरि॒ विश्रु॑वम् । ब्रह्म॑णः कोशो॑ऽसि मेध-
याऽपि॑हितः । श्रुतं॑ मे गोपाय, इति ।
मम विद्याधिकारिणः शरीरं विचर्षणं विचक्षणं रोगादिरहित्येन विद्याभ्यासयोग्य-
मस्तु । मदीया जिह्वाऽप्यतिशयेन माधुर्योपेता ग्रन्थाभ्यासपटीयसी भवतु । कर्णाभ्यां
च विद्योत्पादकं बहुविधग्रन्थजातं श्रूयासं कदाचिदपि बाधिर्यदोषो मा भूत् । हे प्रणव
त्वं ब्रह्मणो जगत्कारणस्य परतस्तुनो ध्यानाय कोश आलम्बनभूतोऽसि । यथा चर्म-
मयः कोशः खड्गरक्षणार्थायाऽऽलम्बनभूतस्तद्वद्ब्रह्मध्यानरक्षणाय प्रणव आलम्बनभूतः ।
अत एव कठवल्लीष्वोंकारं प्रकृत्याऽऽम्नायते--“एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ”
इति । तादृशः प्रणवो मेधया धारणशक्त्याऽपिहितो व्याप्तः । तथाविधप्रणवप्रतिपाद्य
हे परमेश्वर मदीयं श्रुतं कर्णाभ्यामवगतं वेदार्थरहस्यं विस्मृत्यादिदोषनिवारणेन पालय ।
आरोग्यादिसिद्धये जप्यो मन्त्रोऽभिहितः । अथान्नपानवस्त्रादिसिद्धये होमार्था मन्त्रा
उच्यन्ते । तत्र प्रथमं मन्त्रमाह—
आवह॑न्ती वितन्वा॒ना (१) । कु॒र्वाणा चीर॑मा॒त्मनः॑ ।
वासांसि॒ मम॒ गाव॑श्च । अन्न॑पाने च॑ सर्व॒दा । ततो॑ मे
श्रिय॒माव॑ह । लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा॑, इति ।
हे प्रणवाभिधेय परमेश्वर या श्रीरुक्तविधा तां श्रियं मदर्थमावह सर्वतः संपादय ।
किंविधेति तदुच्यते । यानि वासांसि याश्च गावो ये चान्नपाने तत्सर्वं सर्वदा मम
भोगार्थमावहन्ती सर्वतः संपादयन्ती तथा संपादितं सर्वं वितन्वाना विस्तारयन्ती वर्ध-
यन्ती वर्धितं तत्सर्वमात्मनो विद्यार्थिनो मम चिरं दीर्घकालं कुर्वाणा यथा विनष्टं न
भवति तथा स्थापयन्ती । यस्मादेवंविधा श्रीस्ततस्तामावह । पुनरपि कीदृशीम्—पशुभिः
सह लोमशामजावयोऽश्वाश्चेत्येवमादयो ये पशवस्तैः सह वर्तमानत्वेन बहुविधरोमयु-
क्ताम् । तथाविधश्रीप्रदाय देवायेदमाज्यादिहोमद्रव्यं स्वाहा हुतमस्तु ।
अथ वस्त्रान्नपानादिसमृद्धया श्रिया युक्तस्य विद्यासंप्रदायप्रवृत्त्यर्थं शिष्यसंपादकहो-
मार्थांन्पञ्च मन्त्रानाह—
आ मां यन्तु ब्रह्मचारिणः॒ स्वाहा॑ । वि मांऽऽयन्तु
ब्रह्मचारिणः॒ स्वाहा॑ । प्र मांऽऽयन्तु ब्रह्मचारिणः॒
१ क. ख. ङ स्वाहु॑ ।
६४