तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 496, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९१
इत्थमवयवेष्ववयविनि चाभिमानिनो देवा विघ्नपरिहारेण सुखहेतुतया प्रार्थिताः ।
अथ तेषां देवानामन्तर्यामित्वेन प्रेरकं यत्परं ब्रह्म तदेतन्नमस्क्रियते --
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒
ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दि-
ष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑-
मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार॑म्, ॥ इति ।
यच्च ब्रह्म ज्ञानक्रियाशक्त्युपेतसूत्रात्मना वायुमूर्तिधारिणां सर्वेषां प्राणिनां विधा-
रकं भवति । “ वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः
सर्वाणि च भूतानि संदृब्धानि भवन्ति ” इति श्रुतेः । अतो वायुरपि नमस्क्रियते ।
तत्रान्तर्यामिणः शास्त्रानुमानाभ्यामेवावगम्यत्वेन परोक्षत्वान्नास्ति संबोधनम् । सूत्रा-
त्मना वायुरूपेण स्पर्शनिन्द्रियगम्यत्वात्संबोध्यते । अयमेवाभिप्रायस्त्वमेव प्रत्यक्ष-
मिति वाक्येन स्पष्टी क्रियते । यतो वायुपाधिकं ब्रह्म प्रत्यक्षयोग्यं ततो हे वायो
- त्वामेव व्याकरिष्यमाणेषूपासनावाक्येषु साक्षात्कारयोग्यं ब्रह्म वदिष्यामि । सोपा-
धिकं ब्रह्म तु येन येन प्रकारेणोपास्यते तेन तेन प्रकारेण चिराभ्यासे सति साक्षात्कर्तुं
शक्यते । अत एव च्छान्दोगाः शाण्डिल्यविद्यायामामनन्ति -- “एतमितः प्रेत्याभि-
संभविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्ति ” इति । अद्धा साक्षादित्यर्थः ।
वाजसनेयिनोऽप्यामनन्ति -- “देवो भूत्वा देवानप्येति ” इति । इहैव जन्मनि
साक्षात्कारो देवभावः । मरणादूर्ध्वं देवत्वापत्तिर्देवाप्ययः । अतो वक्ष्यमाणवाक्येषु
नानृतं वदिष्यामि किंतु विद्यमानमेवार्थं प्रत्यक्षं ब्रह्मेत्येतादृशं वदिष्यामि । विवक्षितस्य
विद्यमानार्थस्याऽऽदौ मनसा पर्यालोचनमृतवदनं पश्चाद्वचसोच्चारणं सत्यवदनमिति
तयोर्विवेकः । यदुत्तरत्र वक्ष्यमाणं प्रत्यक्षं ब्रह्म तन्मां विद्यार्थिनं शिष्यं वक्तारमाचार्यं
च विद्याग्रहणोपदेशसामर्थ्यप्रदानेनाप्युभौ पालयतु । अनयैव विवक्षया पुनरपि ‘ अवतु
माम् । अवतु वक्तारम् ’ इत्याभिधीयते--
इत्थं वायुरूपं प्रत्यक्षं ब्रह्म संप्राथ्र्यान्तर्यामिरूपं परोक्षं ब्रह्म तद्वाचकेन प्रणवेनानु-
स्मृत्य विघ्नशान्तिरस्त्विति प्रार्थ्यते--
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ( १ ), ॥ इति ।
- यद्यपि शान्तिवाक्ये त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामीत्येव वैदिकपाठ उपल-
भ्यते तथाऽप्युपसंहारशान्तौ त्वामेव प्रत्यक्षं ब्रह्मावादिषमित्येव वैदिकपाठात्तदनुरोधा-
च्छांकरभाष्येऽत्र चेतिकाराध्याहारेण लापनमकृत्वा त्वामेवेत्युद्दिश्यैवार्थकरणाच्च पुरात-
नपाठस्त्वामेवेत्येवानुमीयते ।
१ ख. वक्ष्यामि । २ ङ. ॰मिव ।