तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 513, कुल 914 में से
संदर्भ में पढ़ें५०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०५]
अग्निहोत्रहविष उपसादने दर्शपूर्णमासचातुर्मास्यहविषामासादने च प्रयोग एवमाम्नायते-
“ अग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेत् ” इति । “ दर्शपूर्णमासौ चातुर्मास्यान्याल-
भमान एताभिर्व्याहृतीभिर्हवीꣳष्यासादयेत् ” इति च ।
एवमाधानादावुदाहृत्य कर्मकाण्डप्रसिद्धं व्याहृतित्रयं दर्शयित्वा तथैव प्रतीकत्वेन
व्याहृत्यन्तरं दर्शयति —
तासा॑मु ह॒ स्मैतां चतु॒र्थीम् । माहा॑च-
मस्यः॒ प्रवे॑दयते । मह॒ इति॑ इति, ।
महान्सोमपानार्थश्चमसः पात्रविशेषो यस्य मुनेः स मुनिर्माहाचमसः । बहुषु सोमया-
गेषु वर्तमानत्वाच्चमसस्य महत्त्वम् । तस्यापत्यं माहाचमस्यनामक ऋषिः । स तासां
भूरादीनां तिसॄणां व्याहृतीनां चतुर्थीं चतुः