स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
357
आसने पादमारोप्य यो भुङ्क्ते द्विजसत्तमः ।
हन्ति दैवं च पित्र्यं च तदन्नं च प्रजाः पशून् ॥
निषेधान्तरमाह प्रचेताः—
न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नं कदाचन ।
न पादौ न शिरो बस्तिं न पदा भाजनं स्पृशेत् ॥
निगमोऽपि—
मांसापूपफलेक्ष्वादि दन्तच्छेदं न भक्षयेत् ।
ग्रासशेषं न पात्रेऽस्येत्पीतशेषं च नो पिबेत् ॥
दन्तच्छेदं न भक्षयेत् हस्तेन मांसादि धृत्वा स्वल्पं स्वल्पं दन्तै-
श्छित्त्वा न भक्षयेत् ग्रासशेषं आस्यार्पितग्रासशेषं पुनर्भाजने
नास्येत् न क्षिपेत् । उशनाऽपि—
भाजनं तु न निःशेषं कुर्यात्प्राज्ञः कथञ्चन ।
अन्यत्र दध्नः क्षीराद्वा क्षौद्रात्सक्तुभ्य एव च ॥
इति, यत्तु जमदग्निरोक्तं 'न निन्देयुर्नावशेषयेयुः' इति, तत्
अधिकावशेषविषयम् । यतोऽनन्तरमाह स एव—
'अल्पं पुनरुत्सृष्टव्यं तस्यासंस्कृतप्रमीतानां भागधेय-
त्वात्' इति । प्रचेता अपि वर्जनियमाह—
दन्तच्छेदं हस्तपानं वर्जयेच्चातिभोजनम् ।
इति । हस्तपानं हस्तेन पेयादिपानं वर्जयेत् । अपितु लघुपात्रेण
कुर्यात् । अतिभोजनं तृप्तौ सत्यामपि भोजनम् ॥
इति स्मृतिचन्द्रिकायां निमन्त्रितभोक्तृविषयाणि ॥
358 स्मृतिचन्द्रिकायां.
अथान्नविकिरणादिविधिः ।
तृप्तिं बुद्ध्वान्नमादाय सतिलं पूर्ववज्जपेत् ।
तृप्तिं पृच्छेत्.................................... ॥
इति। पूर्ववज्जपेदित्यादेरर्थः कात्यायनेन प्रपञ्चितः 'गायत्रीं
मधु मध्विति च जपित्वा तृप्तास्थ इति पृच्छति' इति ।
एवं पृष्टाः ते विप्राः तृप्ताः स्मः, इति ब्रूयुः
तृप्ताः स्थ इति पृष्टास्ते ब्रूयुस्तृप्तास्स्म इत्यपि ।
इति व्यासस्मरणात् । तृप्ताः स्मः इत्युक्ते अनन्तरं
ब्रह्माण्डपुराणं—
प्रोक्ष्य भूमिमथाद्भिस्तुभूमौ पितृपरायणः ।
ततो विकिरणं कुर्याद्विधिदृष्टेन कर्मणा ॥
किं पुनर्विधिदृष्टं कर्मेत्यपेक्षिते मनुः—
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरं भुवि ॥
सर्वे विप्रभुक्तान्नव्यञ्जनवर्णाः प्रकारा यस्मिन्नन्नाद्ये तत्सार्ववर्णिकं
अन्नाद्यं संनीय यद्यदन्नं विप्रैरुपभुक्तं ततस्तत एकदेशमव-
दायावदाय क्वचित्पात्रे एकीकृत्येत्यर्थः ।
मत्स्यपुराणे—
भुक्तवत्सु ततस्तेषु भाजेनवाऽन्तिके नृप * ।
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ॥
- स्वतः
समुत्सृजेद्भुक्तवतामग्रतो विकिरेद्भुवि ।
आप्लाव्य अवोक्ष्येत्यर्थः । समुत्सृजेत् विनिक्षिपेत् । 'ये अग्नी-
ति भुवि क्षिपेत्' इति प्रचेतसोऽभिधानात् । ये अग्नीति मन्त्रः
कात्यायनेन दर्शितः—
ये अग्निदग्धा ये अनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥
इति। यद्यपि भूमौ दत्तेनेति मन्त्रवर्णात् विधायकसर्ववचनेषु
भुवीत्यभिधानाच्च न दर्भास्तरणमत्रास्तीति प्रतिभाति । तथाऽपि
'दर्भेषु विकिरश्च यः' इति मनुवचने दर्भसत्त्वानुवाददर्शनाद्-
र्भानास्तीर्य तत्र विकिरो देय इति विधिः कल्प्यते । तेन
दर्भास्तृतभूमौ विकिरो देयः न केवलायामिति मन्तव्यम् ।
सार्ववर्णिकान्नोद्धरणादि सर्वं प्राचीनावीतिना कार्यम् । सूक्ता-
दिजपव्यतिरिक्ते श्राद्धकर्मणि प्राचीनावीतित्वाभिधानात् ।
विकिरनिक्षेपस्थाने विक्षेपात्पूर्वं पिण्डदानोक्तप्रकारेण तूष्णीं
सतिलं वारि क्षिप्त्वा विकिरस्योपरि पुनः सतिलं वारि
निक्षेप्तव्यम् ॥
उदङ्मुखानां विप्राणां पुरतस्सोदकं ततः ।
अन्नं तु किरेत् भक्त्या................... ॥
इति मार्कण्डेयेनोक्तत्वात् । अन्नं विकीर्यानन्तरं उपवीती
भूत्वाऽऽचामेत् । अनाचमने दोषस्मरणात् । तथाच मरीचिः—
360 तच्चन्द्रिकाया.
श्राद्धेषु विकिरं दत्वा यो नाचामेन्मतिभ्रमात् ।
पितरस्तस्य षण्मासं भवन्त्युच्छिष्टभोजिनः ॥
तदनन्तरं ब्राह्मणांश्चाचमयेत् । तथाच मदालसावाक्यम् ॥
.... ............................. प्रकीर्य भुवि सर्वतः ।
तदन्वाचमनार्थाय दद्यादापस्सकृत्सकृत् ॥
तदनु अन्नविकिरणात्पश्चादाचमनार्थाय नित्यभोजननियमेषु उक्तं
'अमृतापिधानमसि' इति मन्त्रपूर्वकं यद्गण्डूषं तदर्थं वैश्वदैविक-
विप्रपूर्वकं प्रतिविप्रं सकृत्सकृदपो निनयेदित्यर्थः । गण्डूषकरणं
च विप्रैर्हस्तलेपप्रक्षालनमकृत्वैव कार्यमिति सूचयितुं सकृत्सकृद्द-
द्यादित्युक्तम् । एवं च यथा हस्तप्रक्षालनं कृत्वा गण्डूषकरणे
नित्यभोजने पुरुषार्थविध्यतिक्रमात्पुरुषदोषः, तथाऽत्र श्राद्धार्थ-
विध्यतिक्रमाच्छ्राद्धस्य वैगुण्यं भवति । तथाऽऽह मरीचिः—
हस्तौ प्रक्षाल्य गण्डूषं यः पिबेदविचक्षणः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
इति। गण्डूषं यः पिबेत् भोजने विरते ' अमृतापिधानमसि '
इति मन्त्रेणापो यः पिबेदित्यर्थः। गण्डूषार्थोदकदानान्तरं विष्णुः—
'उदङ्मुखेष्वाचमनमादौ दद्यात् प्राङ्मुखेषु ततः प्रोक्षणं इति
श्राद्धशेषं प्रोक्ष्य दर्भपाणिस्सर्वं कुर्यात्' इति । पैतृकब्राह्मणेषु
प्रथमं हस्तप्रक्षालनपूर्वकाचमनार्थमपो दत्वा पश्चाद्वैश्वदैविक-
ब्राह्मणेषु दत्वा 'सुप्रोक्षितम्' इति मन्त्रेण श्राद्धदेशं प्रोक्ष्य
दर्भपाणिस्सर्वमुपरितनं कर्म कुर्यादित्यर्थः । एवम्भूतहस्तप्रक्षाळ-
नपूर्वकाचमनक्रमविधिं हेतुवन्निगदार्थवादसहितमाह शातातपः-
विश्वेदेवनिविष्टानां चरमं हस्तधावनम् ।
विसर्जनं च निर्दिष्टं तेषु रक्षा यतास्थिरा ॥ इति ॥
इति स्मृतिचन्द्रिकायां अन्नावकिरणादिविधिः.
अथ पिण्डदानविधिः.
तत्र मनुः-
पिण्डनिर्वपणं केचित् पुरस्तादेव कुर्वते ।
इति । ब्राह्मणभोजनात्पुरस्तात् तेषामर्चनानन्तरं अग्नौकरणा-
नन्तरं वा पिण्डनिर्वपणं केचित्कुर्वत इत्यर्थः । एवमेव स्मृ-
त्यन्तरेषु भोजनात्पुरस्तात्पिण्डनिर्वपणस्य कालद्वयदर्शनात् ।
केचिदितिवचनादपरे ब्राह्मणभोजनात्परस्तादाचमनात्प्रागूर्ध्वं वा
(ब्राह्मणविसर्जनादूर्ध्वं वा) पिण्डनिर्वपणं कुर्वत इत्यवग-
म्यते । स्मृत्यन्तरेषु ब्राह्मणभोजनादूर्ध्वमेव कालद्वयदर्शनात् ।
अत्र यथास्वशाखं व्यवस्था । तथाच स्मृत्यन्तरम्--
मुनिभिर्भिन्नकालेषु पिण्डदानं तु यत्स्मृतम् ।
तत्स्वशाखामतं यत्र तत्र कुर्याद्विचक्षणः ॥
तत् भिन्नकालेषु स्मृतं पिण्डदानं यस्मिन् काले कृतं स्व-
शाखायामनुमतं अनुगृहीतं भवति तस्मिन् काले कुर्यादित्यर्थः ।
SMRITI CHA.—Vol. V. 46
362 स्मृतिचन्द्रिकायां
ब्राह्मणभोजनात्पुरस्तात्परस्ताद्वेति पक्षद्वये व्यवस्थामाह लो-
काक्षिः--
अप्रशस्तेषु यागेषु पूर्वं पिण्डावनेजनम् ।
भोजनस्य प्रशस्तं तु पश्चादेवोपकल्पयेत् ॥
अप्रशस्तेषु यागेषु सपिण्डीकरणाख्यश्राद्धात् पूर्वं विहितश्रा-
द्धेषु । अवनेजनं अवाचीनपाणिना निर्वपणम् । भोजनस्य
निमन्त्रितब्राह्मणभोजनस्य । प्रशस्तं सपिण्डीकरणादिश्राद्धेषु
क्रियमाणं भोजनात्पश्चादेव यथाकालमुपकल्पयेत् । एवञ्च
पार्वणश्राद्धे भोजनात्पश्चादेव स्वशाखानुमते काले पिण्डं
दद्यात् । तत्राश्वलायनशाखिनां ब्राह्मणभोजनादूर्ध्वं तेष्वाचा-
न्तेषु पिण्डदानकालः । तथाऽऽश्वलायनः-- 'भुक्तवत्स्वाचा-
न्तेषु पिण्डं निदध्यादनाचान्तेष्वेके' इति । तत्र अनाचान्तेष्वेके
इति पक्षश्च सौकर्यात्स्वगृह्यानुक्तकालविशेषैरप्ययमेव पक्षो
ग्राह्यः । याज्ञवल्क्यस्तु पिण्डदानप्रकारमाह--
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसन्निधौ पिण्डान् दद्यात्तु पितृयज्ञवत् ॥
श्राद्धार्थपाकसिद्धं सर्वप्रकारमन्नं स्तोकंस्तोकमुद्धृत्य क्वचित्पात्रे
समवदाय तदन्नमयान् पिण्डान् स्वशाखाविहितपिण्डपितृयज्ञ-
विधानेन स्मृतिकारोपदिष्टेन सतिलत्वदक्षिणामुखत्वादिविशे-
षसहितेनोच्छिष्टसंनिधौ दद्यादित्यर्थः । ननूच्छिष्टसन्निधिरशु-
चिर्देशो भवतीति तत्र कथं पिण्डदानं विधीयत इत्याशङ्कयाहात्रिः-
श्र . . ... 363
पितॄणामासनस्थानादग्रतस्त्रिष्वरत्निषु ॥
उच्छिष्टसन्निधानं तन्नोच्छिष्टासनसन्निधौ ॥
उच्छिष्टसम्पर्करहितासन्नदेशोपलक्षणार्थं त्रिष्वरत्निष्वित्युक्तम् ।
तेन नात्र त्र्यरत्निनियमः । अत एव जातूकर्ण्यः—
व्याममात्रं समुत्सृज्य पिण्डांस्तत्र प्रदापयेत् ।
इति । पारस्करोपि—
पात्राणां बाहुमात्रेण पिण्डदानं विधीयते । इति ॥
पात्राणा मुच्छिष्टाशनवदन्नानां आधारस्थानात् । बाहुमात्रेण
बाहुमात्रमुत्सृजेदित्यर्थः । व्यासोपि—
अरत्निमात्रमुत्सृज्य पिण्डांस्तत्र प्रदापयेत् ।
यत्रोपस्पृशतां वाऽपि प्राप्नुवन्ति न बिन्दवः ॥
इति । कार्ष्णाजिनिरपि पिण्डपितृयज्ञविधानेन क्रियमाणे पिण्ड-
दाने विशेषमाह—
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ।
शेषान्नप्रश्नपूर्वं तु दद्यात्पिण्डान् क्रमेण तु ।
इति। शेषमन्नं पिण्डार्थमुद्धृताच्छेषं सर्वं प्रकृतमन्नम्। तस्य एवं-
विधशेषान्नस्य प्रश्नः तत्पूर्वकं पिण्डान् दद्यात् । शेषमप्यस्ति
किं क्रियतामित्येवंविधं प्रश्नं कृत्वा तदनुगुणं विप्राणामुत्तरं
च श्रुत्वा पश्चात्पिण्डदानविधिं कुर्यादिति यावत्। किंपुनस्तदनु-
गुणमुत्तरं विप्रैर्वक्तव्यमित्यपेक्षिते तत्सूचनार्थमुशनसोक्तं—
‘तैरनुज्ञातः शेषमिष्टेभ्यो दद्यात्स्वयं वा भुञ्जीत’ इति । इष्टेभ्यो
३६४ स्मृतिचन्द्रिकायां
दद्यात् इष्टान् भोजयेत् स्वयं वा भुञ्जीतेत्यर्थः । वाशब्दोत्र
चशब्दार्थे द्रष्टव्यः, ‘भुञ्जीत पितृसेवितम्। इति याज्ञवल्क्येन
नित्यवद्भोजनविधानात् । यत एव पितृसेवितावशिष्टभोजनं
नित्यं अत एवैकादश्यामुपवाससिद्धये पितृसेवितशेषभोजनस्थाने
प्रत्याम्नायः स्मर्यते—
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥
इति। यत्पुनरौशनसवचनगतवाशब्दस्य प्रसिद्धार्थत्वमभिसन्धा-
याभिहितं देवस्वामिना ‘भुञ्जीत पितृसेवितमित्येतन्न नैयमि-
कम्’ इति । एवञ्च स्वयं वा भुञ्जीतेत्यौशनसवचस्थवाशब्देन
पितृसेवितशेषभोजनस्य पाक्षिकत्वावगतेर्भुञ्जीत पितृसेवितमि-
त्येतद्याज्ञवल्कीयं विधानं न नैयमिकं न नित्यं इति तदीयग्रन्थ-
स्यार्थः। तदेतच्चिन्त्यम्—याज्ञवल्कीयं च वचनं नित्यं, प्रत्याम्नाय-
वचनस्य दर्शितत्वात् ।
श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते तु कदाचन ।
देवा हविर्न गृह्णन्ति कव्यानि पितरस्तथा ॥
इति देवलेन पितृसेवितशेषभोजनाकरणे दोषस्मरणाच्च । एव-
ञ्चेष्टैस्सह भुज्यतामित्यभ्यनुज्ञारूपमुत्तरं विप्रैर्देयमित्युशनसा सूचि-
तमिति मन्तव्यम् । देवलोपि पितृयज्ञविधानेन पिण्डदाने विशे-
षमाह—
ततस्सर्वाशनं पात्रे गृहीत्वा विधिवत्स्वयम् ।
श्राद्धकाण्डे पिण्डदानविधिः. 365
तेषामुच्छेषणस्थाने तेन पात्रेण निक्षिपेत् ॥
तेषां भुक्तवतां ब्राह्मणानां उच्छेषणस्थाने उच्छिष्टसन्निधा-
वित्यर्थः । पात्रेण निक्षेपो नैयमिको न भवति । यदाह
मरीचिः—
पात्राणां खङ्गपात्रेण पिण्डदानं विधीयते ।
राजतौदुम्बराभ्यां वा हस्तेनैवाथवा पुनः ॥
हस्तेनेति पक्षः श्रेयानित्यर्थ एवकारः कृतः, न पुनरवधार-
णार्थः । तथात्वे पूर्वापरविरोधो देवलवचनविरोधश्च स्यात् ।
पिण्डनिर्वपणस्थाने प्रथमं यत्कर्तव्यं तद्ब्रह्माण्डपुराणे दर्शितं—
सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः ।
प्रघर्षणं ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥
खण्डनं पेषणं चैव तथैवोल्लेखनक्रिया ।
सकृद्देवपितॄणां स्याद्देवानां तु त्रिरुच्यते ॥
खण्डनं बर्हिरादेश्छेदनम् । पेषणं भूमिघर्षणादिकम् । उल्लेखन-
क्रिया पिण्डनिर्वपणलेखाकरणम् । केनोल्लेखनं कार्यमित्य-
पेक्षायामुक्तं तत्रैव—
वज्रेण वा कुशैर्वाऽपि उल्लिखेत्तु महीं द्विजः ।
इति । वज्रेण स्फ्येनेत्यर्थः । ‘वज्रो वै स्फ्यः’ इति श्रुतेः ।
पारस्करेण तु स्फ्यशब्देनैवोक्तं—
कराभ्यामुल्लिखेत् स्फ्येन कुशैर्वाऽपि महीं द्विजः ।
[366] स्मृतिचन्द्रिकायां
इति । कराभ्यां गृहीतेन स्फ्येन गृहीतैः कुशैर्वा महीं लि-
खेदित्यर्थः । अत्र मन्त्रमाह कात्यायनः— 'उल्लिख्यापहताः'
इति । 'अपहता असुरा रक्षांसि पिशाचा वेदिषदः' इति
मन्त्रेणोल्लिखेदित्यन्वयः । अनेन मन्त्रेण स्फ्येनोल्लेखनं पितृ-
यज्ञवदित्यनेन प्राप्तम् । उल्लेखनानन्तरं उल्लिखितदेशमवोक्षेत्
'स्फ्येन तेषामुल्लिखेदपहता असुरा रक्षांसि पिशाचा वे-
दिषद इति तामवोक्ष्य' इत्याश्वलायनेन पिण्डपितृयज्ञधर्मक-
थनेऽभिधानात् । रेखां दक्षिणाप्राचीमुल्लिखेत्, 'सर्वकर्मणि
तां दिशम्' इति परिभाषायां तेनैवोक्तत्वात् । अवोक्षि-
तदेशे कुशानास्तृणुयात्, 'क्षिपेत् कुशांस्तत्र च दक्षिणाग्रान्'
इति पुराणेऽभिधानात् । इदमपि पिण्डपितृयज्ञवदित्यनेनैव
प्राप्तं, सकृदाच्छिन्नैरवस्तीर्योति पिण्डपितृयज्ञे विहितत्वात् ।
एवञ्च दक्षिणाग्रत्वमात्रमेव पौराणिको विशेषः । कुशालाभे
विष्णुधर्मोत्तरेऽभिहितं—
पिण्डनिर्वपणं कार्यं कुशालाभे विचक्षणैः ।
काशेषु राजदूर्वासु पवित्रे परमे स्मृते ॥
राजदूर्वासु अतिदीर्घदूर्वासु । कुशास्तरणे विशेषो वायुपुराणे
दर्शितः ।
सकृदेवास्तरेद्दर्भान् पिण्डार्थं दक्षिणामुखः ।
प्राग्दक्षिणाग्रान्नियतः ॥
श्राद्धकाण्डे [पिण्डदानविधिः. 367
इति। एवञ्च दक्षिणाग्रतया सह दक्षिणाप्रागग्रताया विक-
ल्पो वेदितव्यः। दर्भास्तरणानन्तरं सुमन्तुः—
असाववनेनिक्ष्वेति पुरुषं पुरुषं प्रति।
त्रिस्त्रिरेकेन हस्तेन विदधीतावनेजनम् ॥
असावित्यत्र पित्रादीनां गोत्रसहितनामग्रहणं सम्बोधनरूपेण
कृत्वा अवनेनिक्ष्वेति वक्तव्यं,
पिण्डोदकप्रदानं तु नित्यनैमित्तकेष्वपि।
आलभ्य नाम गोत्रेण कर्तव्यं सर्वदैव हि ॥
इति व्यासस्मरणात्। आलभ्य पित्रादीन् सम्बोध्येत्यर्थः।
एकेन हस्तेनेत्यञ्जलिनिवृत्त्यर्थमुक्तम्। तथाच सुमन्तुः—
श्राद्धे सेचनकाले तु पाणिनैकेन दीयते।
तर्पणे तूभयं कुर्यादेष एव विधिस्सदा ॥
इति। एकेन पाणिना सव्येतरेण।
अपसव्येन हस्तेन निर्वपेदुदकं भुवि।
इति मनुस्मरणात्। अपसव्यहस्ते प्रदेशविशेषो मदालस-
योक्तः—
पितृतीर्थेन तोयं च दद्यात्तेभ्यस्समाहितः।
इति। तेभ्यः पितृभ्यः। चशब्दात्सतिलं तोयं प्रसेतव्यम्।
तथाचौशनसोक्तं— 'तिलामिश्रितोदकेनासिच्य दर्भास्तीर्णायां
भूमौ पिण्डान् दद्यात्' इति। कात्यायनस्त्ववनेजनमुदपात्रेण
कर्तव्यमित्याह— 'उदपात्रेणावनेजयत्यसाववनेनिक्ष्वेति यजमा-
[Page 368]
स्मृतिचन्द्रिकायां
नस्य पितृप्रभृतींस्त्रीन्' इति। आश्वलायनस्त्ववनेजने मन्त्रान्तर-
माह—'प्राचीनावीती रेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः
शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः' इति। कात्यायनस्त्व-
वनेजनानन्तरं बर्हिरास्तरणं कार्यमित्याह—'उपमूलं च
सकृदाच्छिन्नं रेखायां कृत्वा यथाऽवनिक्तं पिण्डान् ददाति' इति।
अवनेजनबर्हिरास्तरणयोः पौर्वापर्यविकल्पे यथास्वशाखं व्यव-
स्था। एवमेवावनेनिङ्क्ष्व शुन्धन्तां पितर इत्यादिमन्त्राणामपि
यथास्वशाखं व्यवस्था। एवमेवावनेजनकरणभूतहस्तोदपात्रयो-
रपि। यथाऽवनिक्तं पिण्डदाने मन्त्रानाह कात्यायनः 'असावेतत्ते
इति, ये च त्वमन्विति चैके' इति । असावित्यत्र पित्रादीनां
सम्बोधनरूपेण गोत्रसहितनामग्रहणं कृत्वा एतत्ते इति वक्त-
व्यम् ।
पिण्डोदकप्रदानं तु नित्यनैमित्तिकेष्वपि ।
आलभ्य नाम गोत्रेण कर्तव्यं सर्वदैव हि ॥
इति व्यासस्मरणात् । एवं च अमुकगोत्रामुकशर्मन्नेतत्ते इति
पिण्डदानमन्त्र ऊह्यः । 'ये च त्वामनु इति चैके' इति
पक्षे मन्त्रत्रयेऽप्येतत्ते इत्यस्मादनन्तरं 'ये च त्वामनु' इति मन्त्र-
शेषो द्रष्टव्यः । आश्वलायनस्त्वन्यथा पिण्डदानमन्त्रानाह—'ए-
तत्तेऽसौ, ये च त्वामनु' इति। अत्रापि असावित्यत्र संबोधनरू-
पेण पित्रादीनां गोत्रसहितनामग्रहणं कर्तव्यम् । नन्वेतत्ते
इत्यत्रैतदिति कथं नपुंसकलिङ्गनिर्देशः, पिण्डस्यैतच्छब्दा-
श्राद्धकाण्डे पिण्डदानाविधिः. 369
भिधेयत्वात्तस्य च पुल्लिङ्गत्वात् । अत एव गोभिलेन—' असा-
वेष ते पिण्डो ये च त्वामनु ' इत्युक्तम् । अत्र केचित् एतत्ते
पिण्डरूपमन्नामित्यध्याहारः कार्य इत्याहुः, तदयुक्तम् । अग-
त्याऽध्याहार आश्रयणीयः । अस्ति चात्र गतिः 'कुद्बस्य
पिण्डं पतति' इति वृद्धप्रयोगदर्शनात् । नपुंसकलिङ्गोपि
भूरिप्रयोगसिद्धः पिण्डशब्दोस्ति । तेन पिण्डदानमन्त्रेऽपि ए-
तत्पिण्डं तवेत्यध्याहारं विनैवार्थोऽवगन्तव्यः । अवनेजनादिकं
च सर्वं पितृयज्ञवदित्यनेनैव प्राप्तम् । सतिलत्वमात्रं तु विशेषः ।
पिण्डेऽपि सतिलत्वरूपो विशेषो मदालसयोक्तः—
सतिलेन ततोऽन्नेन पिण्डांस्त्रीनेव पुत्रकः ।
पितॄनुद्दिश्य दर्भेषु दद्यादुच्छिष्टसंनिधौ ॥
पितॄन् यजमानस्य जनकादीनित्यर्थः । तथाच कार्ष्णाजिनिः—
तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः ।
अपसव्येन दर्भेषु पिण्डा देयास्त्रयस्तु वै ॥
तेषां पितृपितामहप्रपितामहानाम् । अपसव्येन दक्षिणहस्तेन ।
लोकान्तरस्थानामित्यत्र मृतानामिति ज्ञापयितुमाह स एव—
नाना तु जातय इह तिर्यग्योनिषु जातिषु ।
पिण्डभाजो भवन्त्येते तासुतासु च योनिषु ॥
इह इहलोक इत्यर्थः । अनेन पिण्डदानरूपश्राद्धेऽपि यजमा-
नस्य पूर्वपुरुषा एव देवताः न वस्वादय इति गम्यते ।
एवञ्च यदुक्तं स्मृत्यन्तरे—
SMRITI CHA.—Vol. V. 47
370 स्मृतिचन्द्रिकायां.
प्रथमो वरुणो देवः प्रजापतिस्तथाऽपरः ।
तृतीयोऽग्निस्स्मृतः पिण्ड एष पिण्डविधिस्स्मृतः ॥
इति, तत् न वरुणादीनां देवतात्वप्रतिपादनपरं, किंतु यथा
वसुरुद्रादित्यस्वरूपाः पितरः श्राद्धदेवता इति याज्ञवल्क्येना
न्नत्यागादौ वस्वादिरूपेण पित्रादयो ध्यातव्याः इत्येवंपरत-
योक्तं, तथा पिण्डदाने वरुणादिरूपेण पित्रादयो ध्यातव्याः
इत्येवंपरतयोक्तमिति मन्तव्यम् । तेन यथाऽन्नत्यागे वस्वादि-
रूपान् सपत्नीकान् पित्रादीन् चतुर्थ्यन्तेन पित्रादिपदेन
गोत्रनामसहितेनोद्दिश्यान्नत्यागः क्रियते तथैतत्ते इति मन्त्रा-
च्चारणानन्तरं वरुणादिरूपान् सपत्नीकान् पित्रादीनुद्दिश्य
पिण्डत्यागः कर्तव्यः । अथवा आवाहनादौ अन्नत्यागपर्यन्ते
पिण्डनिर्वापणादौ च सर्वत्रात्मानमनिरुद्धत्वेन प्रद्युम्नसंकर्षणवा-
सुदेवरूपेण पितृपितामहप्रपितामहांश्च यथाक्रमेण ध्यात्वा आ-
वाहनादिकं कुर्यात् । तथाच भविष्यत्पुराणे—
अनिरुद्धस्स्वयं देवः प्रद्युम्नस्तु पिता स्मृतः ।
सङ्कर्षणस्तज्जनको वासुदेवस्तु तत्पिता ॥
स्वयं श्राद्धकर्ता अनिरुद्धो देवः । श्राद्धकर्तुः पिता प्रद्युम्न
स्मृतः । तज्जनकः श्राद्धकर्तृपितृजनकः सङ्कर्षणस्स्मृतः ।
तत्पिता श्राद्धकर्तृपितृजनकपिता वासुदेवस्स्मृत इत्यर्थः । पिण्ड-
दाता पिण्डदानसमये सव्यं जान्वाच्य पिण्डदानं कुर्यादिति
वायुपुराणेऽभिहितं—
श्राद्धकाण्डे पिण्डदानविधिः 371
मधुसर्पिस्तिलयुतान् त्रीन् पिण्डान्निर्वपेद्बुधः ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥
सव्यं जानु भूमौ कृत्वा सव्यं जान्वाच्येत्यर्थः । एतत् पितृ-
यज्ञवदित्यनेनैव सिद्धम् । त्रीन् पिण्डानिति वदन् मात्रादीनां
पृथक्पिण्डनिर्वपणाभावं दर्शयति । तेन सपत्नीकस्य पित्रा-
देरेकैकः पिण्डो निर्वपणीयः । पिण्डप्रमाणमाह व्यासः—
द्विहायनस्य वत्सस्य विशशस्ये यथासुखम् ।
तथा कुर्यात्प्रमाणं तु पिण्डानां व्यासभाषितम् ॥
द्विहायनो द्विवर्षो वत्सः । प्रमाणान्तराण्याहाङ्गिराः —
कपित्थबिल्वमात्रान् वा पिण्डान् दद्याद्विधानतः ।
कुक्कुटाण्डप्रमाणान्वा यदि वाऽऽमलकैस्समान् ॥
बदरेण समान्वाऽपि दद्याच्छ्रद्धासमन्वितः ।
इति । आमलके तु विशेषमाह मरीचिः—
आर्द्रामलकमात्रांस्तु पिण्डान् कुर्वीत पार्वणे ।
अमावास्याख्ये पार्वणे । पिण्डपितृयज्ञानन्तरं—
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
इति वचनेन यद्विहितं तदिदममावास्यारूपपर्वसम्बन्धलक्षणप्रवृ-
त्तिनिमित्तेन योगेन रूढ्या वा पार्वणशब्देनोच्यते । तथाच
शातातपः—
372 स्मृतिचन्द्रिकायां
दर्शश्राद्धं च यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् ।
इति । तत्र ब्राह्मणनिमन्त्रणादिसर्वधर्माणाम्नानात् श्राद्धा-
न्तराणां सर्वेषां प्रकृतिभूतं तदित्यवगन्तव्यं, तद्विकृतिभूत-
मितरदेकोद्दिष्टादिश्राद्धम् । एवञ्च पार्वणग्रहणमन्तरेण आर्द्राम-
लकप्रमाणस्य प्रकरणादेव पार्वणार्थत्वे लब्धे पार्वणग्रहणं
विस्पष्टार्थम् । एतेषु प्रमाणेषु शक्त्यनुसारेण व्यवस्था कल्प्या ।
प्रमाणान्तरमपि ब्रह्माण्डपुराणे वचोभङ्ग्या दर्शितं—
त्रीन् पिण्डानानुपूर्व्येण साङ्गुष्ठमुष्टिबन्धनात् ।
इति । साङ्गुष्ठमुष्टिग्राह्यप्रमाणात् किञ्चिदभ्यधिकानीत्यर्थः ।
आनुपूर्व्येण दक्षिणापवर्गत्त्वदक्षिणाप्रागपवर्गत्वादिविरुद्धानुपूर्व्ये-
ण । पितृयज्ञवदित्यतिदेशेन पिण्डानां दक्षिणापवर्गत्त्वस्य दक्षि-
णाप्रागपवर्गत्त्वस्य वा प्राप्तत्वात् । पिण्डनिर्वपणानन्तरं मनुः—
न्युप्य पिण्डान् पितृभ्यस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम् ॥
प्रपितामहपितृपितामहप्रपितामहाः लेपभागिनः । ‘लेपभाजश्च-
तुर्थाद्याः’ इति मत्स्येनाभिधानात् । लेपनिमार्जनमन्त्रमाह
विष्णुः—‘अत्र पितरो मादयध्वं इति दर्भमूलेषु करावघ-
र्षणम्’ इति । करावघर्षणं हस्तलेपनिमार्जनम् । करावघर्ष-
णानन्तरं कात्यायनः—‘अत्र पितर इत्युक्त्वा उदङ्ङास्ते
आतमनादात्मानमावृत्यामीमदन्त इति जपति’ इति । दक्षिणमा-
त्मानमावृत्य आतमनात् प्राणायामेन वायुपीडावधि उदङ्मुख
आसीत । ततः यथाशक्यमनुच्छसन्नेवाभिपर्यावृत्य 'अमी मदन्त'
इति जपित्वा प्राणान्मोचयेत् इति। कर्मप्रदीपे विशेष उक्तः—
वामेनावर्तनं केचिदुदगन्तं प्रचक्षते ।
आवृत्य प्राणानायम्य पितॄन् ध्यायन् यथार्हतः ॥
जपंस्तेनैव चावृत्य ततः प्राणान् प्रमोचयेत् ।
वामेनावर्तनं सव्येनावर्तनम् । उदगन्तं यावदावर्तनेनोदङ्मुखो
भवति तावदावर्तनं कार्यं नाधिकावर्तनमिति गौतमादिव्यति-
रिक्ता मुनयः प्रचक्षते ।
सर्वं गौतमशाण्डित्यौशाण्डिल्यायन एव च ॥
इति तत्रैवाभिधानात् । जपन् अमी मदन्तेति तेनैवावृत्य वामेनैव
दक्षिणामुखान्तमावृत्य प्राणान्मोचयेदुच्छ्वसेदित्यर्थः । विष्णुस्तु
न्युप्तांश्चपिण्डानुमन्त्रणादिवासोदशादानान्तमाश्वलायनोक्तपितृयज्ञा-
नुसारेणाह—'दत्त्वा च पिण्डान्निवृत्ताननुमन्त्रयीतात्र पितरो
मादयध्वं यथाभागमावृषायध्वम्' इति । ततस्सव्यावृदुदङ्मुखः
परावृत्य यथाशक्ति प्राणानां निरोधान्तं कृत्वा पर्यावृत्यामी
मदन्तेत्यनुमन्त्र्य शेषावघ्राणं कृत्वा शुन्धन्तां पितर इति
पूर्ववदुदकं निनीय पिण्डोपरि ततोसावभ्यङ्क्ष्वेत्यभ्यञ्जनं दत्त्वा-
दङ्क्ष्वेत्यञ्जनमथ वस्त्रमभावे दशामूर्णां वा 'एतद्वः पितरो वासो
मानोतोऽन्यात्पितरो युङ्ग्ध्वम्' इति । पिण्डानुप्त्वा शेषावघ्राणं
पात्रस्थशेषाभिघ्राणं पूर्ववदुदकनिनयनं तिलमिश्रोदकावनेजनं
ततोऽवनेजनानन्तरं असावभ्यङ्क्ष्व इति मन्त्रेणाभ्यञ्जनं
पिण्डोपरि प्रतिपिण्डं दद्यात् असावित्यत्र संबोधनरूपेण
पित्रादीनां नामग्रहणं, असावङ्क्ष्वेति मन्त्रेण पिण्डोपरि प्रतिपिण्ड-
मञ्जनं दद्यादेतद्व इति मन्त्रेण प्रतिपिण्डं यथालाभं दशादिकं
दद्यात् । यत्तु शङ्खेनोक्तं—
क्षुमासूत्रं प्रदातव्यं कार्पासमथवा नवम् ।
दशां विवर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजाम्॥
इति । क्षुमा अतसी । अत्र यद्यपि नित्यवद्दशाप्रतिषेधः
प्रतिभाति, तथाऽपि पूर्वोक्तस्मृतौ दशाया विधानात् षोडशिग्रह-
णाग्रहणवद्विकल्पोऽनुसन्धेयः । वस्त्राभावे पुराणेऽप्युक्तं—
सूत्राण्यूर्णा दशा वाऽपि पतिर्लोम प्रदापयेत् ॥
इति । पतिः यजमानः । लोमप्रदानपक्षः पूर्ववयसि न भवति
यदाह कात्यायनः—'एतद्वः पितरः, इति सूत्राणि प्रतिपिण्डं
वयस्युत्तरे यजमानस्य लोमानि वा' इति। उत्तरे वयसि पञ्चा-
शद्वर्षादूर्ध्वमित्यर्थः। वाशब्दादुत्तरे वयसि लोमपक्षः पक्षान्तरा-
ण्यपि । एतत्सर्वं 'पितृयज्ञवत्' इत्यनेन प्राप्तम् । अवनेजने
तु पितृयज्ञाद्विशेषमाह व्याघ्रः—
अद्भिः प्रक्षाळ्य तत्पात्रं प्रतिपिण्डं तु पूर्ववत् ।
कृत्वाऽवनेजनं कुर्यात्पिण्डपात्रमधोबिलम् ॥
इति। पूर्ववत् पिण्डप्रदानात्पूर्व विहितावनेजनवत् । एवञ्च द्विती-
यावनेजनमपि पिण्डपात्रप्रक्षाळनोदकेन कार्यं, न तु पितृयज्ञवदुद-
कान्तरेण । अत एव—
श्राद्धकाण्डे पिण्डदानविधिः. 375
पात्रानिर्णजनेनैव पुनः प्रत्यवनेजयेत् ।
इति पुराणे एवकारःकृतः । एतद्व इति मन्त्रेण दशादा-
नानन्तरं पितृयज्ञाद्विशेषमाह व्याघ्रः-
गन्धपुष्पाणि धूपं च दीपं चैव निवेदयेत् ।
एतद्वः पितरो वासोदशां दत्वा पृथक् पृथक् ॥
एतद्व इति मन्त्रेण प्रतिपिण्डं वाससो दशां दत्वा गन्धादिकमपि
प्रतिपिण्डं दद्यादित्यर्थः। यत्तु विष्णुरोक्तं- ‘पिण्डनिर्वपणं कृत्वाऽ-
र्घ्यपुष्पधूपानुलेपनान्नाद्यभक्ष्यभोज्यानि निवेदयेत् । उदपात्रं
मधुघृततिलैस्संयुक्तं चेति' इति तत् पिण्डनिर्वपणानन्तरमर्घ्यादि-
विशेषप्राप्त्यर्थम् । अन्यथा-
न्युप्य पिण्डान् पितृभ्यस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम् ॥
इति मनूपादिष्टयुक्ततरक्रमविरोधापत्तेः । तेनार्घ्यादिप्रदर्शनमा-
त्रार्थं विष्णुवचनं, नतु पिण्डनिर्वपणानन्तर्यप्रतिपादनार्थमपीति
न व्याघ्रोक्तानन्तर्यपारिपन्थीति मन्तव्यम् । यत्तु मत्स्यपु-
राणेऽभिहितं-
गन्धधूपादिकं दद्यात्कृत्वा प्रत्यवनेजनम् ।
इति, तत् प्रत्यवनेजनात्पूर्वं न गन्धादिदानमित्येवंपरम् ।
न तु प्रत्यवनेजनानन्तरमेव गन्धादिदानं कर्तव्यमित्येवंपरम् । ‘प्र-
कृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यात्' इति न्यायेनावनेजनीनन्तरमभ्य-
ञ्जनादिदानं तदनन्तरं गन्धादिदानामिति न्यायमूलकक्रमाभि-
[376 स्मृतिचन्द्रिकायां]
धायकप्रागुक्तव्याघ्रवचनविरोधापत्तेः । अतः एतदपि न व्याघ्रो-
क्तानन्तर्यपरिपन्थि । यतएव प्रत्यवनेजनगन्धादिदानयोः
परस्परक्रमपरं न मत्स्यपुराणवचनम् । अत एव विष्णुना
प्रकृतिभूतपिण्डपितृयज्ञक्रम एवात्रोक्तः— 'शुन्धन्तां पितर इति
पूर्ववदुदकानिनयनं पिण्डोपरि ततोसावभ्यङ्क्ष्वेत्यभ्यञ्जनं दद्यात्'
इति । तस्माद्व्याघ्रवचनावगतक्रमेण दशां दत्वाऽनन्तरं गन्धा-
दिना पिण्डार्चनं कार्यमिति सिद्धम् । पिण्डार्चनं प्रकृत्य
पुराणे—
यत्किञ्चित्पच्यते गेहे भक्ष्यं भोज्यमगर्हितम् ।
आनिवेद्य न भोक्तव्यं पिण्डमूले कथञ्चन ॥
तेन सर्वस्मादादाय पिण्डार्चने उपहारो देय इत्यभिप्रायः।
पिण्डार्चनानन्तरं कर्तव्यमाह बृहस्पतिः—
धूपदीपैर्माल्यगन्धैः तदा वस्त्राञ्जनादिना ।
समभ्यर्च्योदपात्रं तु तेषामुपरि निक्षिपेत् ॥
धूपदीप इत्यादिपाठक्रमो नात्र विवक्षितः श्लोकसिद्धिपरत्वात् ।
ततश्चायमर्थः—अभ्यञ्जनाञ्जनवस्त्रगन्धमाल्यधूपदीपसार्ववर्णिका-
न्नोपहारैः पिण्डान् समभ्यर्च्य तेषां पिण्डानामुपरि पात्रपूर्णमुदकं
तेनैव पात्रेण निनयेदिति । उदपात्रनिनयनानन्तरं विष्णुः—“अथै-
नानुपतिष्ठते 'नमो वः पितरः' इत्यादिना 'मनोन्वाहुवामहे'
इत्यृगन्तेन । अथैतान् पिण्डांश्चालयेत् 'परेत नः पितरस्सौम्या ग
म्भीरेभिः पथिभिः पूर्वैभिः दत्वाऽथास्मभ्यं द्रविणेह भद्रं रयिं