स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 389, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे पिण्डदानाविधिः. 369
भिधेयत्वात्तस्य च पुल्लिङ्गत्वात् । अत एव गोभिलेन—' असा-
वेष ते पिण्डो ये च त्वामनु ' इत्युक्तम् । अत्र केचित् एतत्ते
पिण्डरूपमन्नामित्यध्याहारः कार्य इत्याहुः, तदयुक्तम् । अग-
त्याऽध्याहार आश्रयणीयः । अस्ति चात्र गतिः 'कुद्बस्य
पिण्डं पतति' इति वृद्धप्रयोगदर्शनात् । नपुंसकलिङ्गोपि
भूरिप्रयोगसिद्धः पिण्डशब्दोस्ति । तेन पिण्डदानमन्त्रेऽपि ए-
तत्पिण्डं तवेत्यध्याहारं विनैवार्थोऽवगन्तव्यः । अवनेजनादिकं
च सर्वं पितृयज्ञवदित्यनेनैव प्राप्तम् । सतिलत्वमात्रं तु विशेषः ।
पिण्डेऽपि सतिलत्वरूपो विशेषो मदालसयोक्तः—
सतिलेन ततोऽन्नेन पिण्डांस्त्रीनेव पुत्रकः ।
पितॄनुद्दिश्य दर्भेषु दद्यादुच्छिष्टसंनिधौ ॥
पितॄन् यजमानस्य जनकादीनित्यर्थः । तथाच कार्ष्णाजिनिः—
तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः ।
अपसव्येन दर्भेषु पिण्डा देयास्त्रयस्तु वै ॥
तेषां पितृपितामहप्रपितामहानाम् । अपसव्येन दक्षिणहस्तेन ।
लोकान्तरस्थानामित्यत्र मृतानामिति ज्ञापयितुमाह स एव—
नाना तु जातय इह तिर्यग्योनिषु जातिषु ।
पिण्डभाजो भवन्त्येते तासुतासु च योनिषु ॥
इह इहलोक इत्यर्थः । अनेन पिण्डदानरूपश्राद्धेऽपि यजमा-
नस्य पूर्वपुरुषा एव देवताः न वस्वादय इति गम्यते ।
एवञ्च यदुक्तं स्मृत्यन्तरे—
SMRITI CHA.—Vol. V. 47