स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
श्राद्धकाण्डे पिण्डदानविधिः. 377
च नस्सर्ववीरान् नियच्छत" इति । नमो वः पितर इत्या-
दिना मन्त्रेण आश्वलायनपठितेनेति शेषः । आश्वलायनो-
क्तपितृयज्ञकल्पानुसारित्वाद्विष्णुस्मृतेः । मनोऽन्वाहुवामह इति
तृचः अन्ते यस्य नमो वः पितर इत्यादिमन्त्रस्य असौ मनोऽ-
न्वाहुवामह इति तृचान्तः । तेनात्र नमस्काराञ्जलिं बध्वा
उपस्थानं कर्तव्यं, मन्त्रलिङ्गानुगुण्यात् । अत एव नमस्कारा-
ञ्जलिमाश्रित्य नियममात्रमुक्तं ब्रह्माण्डपुराणे--
सव्योत्तराभ्यां पाणिभ्यां वदेन्मन्त्रमिमं सदा ।
नमो वः पितर इष इति सम्यगतन्द्रितः ॥
'नमो वः पितरः' इति सम्यग्वदतः सव्योत्तराभ्यां पा-
णिभ्यां दक्षिणपाणिमुत्तानं कृत्वा तदुपरि सव्यपाणिना
अधोमुखेन नमस्काराञ्जलिं बध्वा 'नमो वः पितर इषे'
इतीदमाश्वलायनोक्तं मन्त्रं वदेदित्यर्थः । पिण्डचालनानन्तरं
'अग्ने तमद्य' इत्येतया ऋचा अग्नौकरणाग्निं प्रतिगच्छेत् ।
'यदन्तरिक्षम्' इत्येतयर्चा गार्हपत्यं प्रतिगच्छेत् ।
तथाच पिण्डपितृयज्ञकल्पे आश्वलायनेनोक्तं-- 'अग्निं प्रत्ये-
यादग्ने तमद्याश्वं न स्तोमैः' इति । गार्हपत्यं 'यदन्तरिक्षं पृथि-
वीमुत द्यां यन्मातरं पितरं वा जिहिꣳसि म अग्निर्मा तस्मा-
देनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु मा-
मनेनसम्' इति । एवमुक्तमुल्लेखनाद्यग्निसमीपगमनान्तं पिण्ड-
दानविधानं मातामहाद्यर्थपिण्डदानेऽप्यवगन्तव्यम्--
Smriti Cha.—Vol. V. 48
378 स्मृतिचन्द्रिकायां
मातामहानामप्येवं दद्यादाचमनं ततः ।
इति याज्ञवल्क्येनोक्तत्वात् । यथा पित्रादीनां विप्रनिमन्त्रणा-
दितद्विसर्जनान्तश्राद्धकल्पः एवं मातामहादीनामपि विप्रनि-
मन्त्रणादि कृत्स्नश्राद्धकल्पो ज्ञेय इत्यर्थः । मातामहादीना-
मप्येवं पित्रादीनामिव पिण्डदानं कुर्यादिति । तथाच मदा-
लसावाक्यं—
तद्वन्मातामहानां च दद्यात्पिण्डान् यथाविधि ।
इति । तद्वत् पितृवदित्यर्थः । यद्यप्यस्मिन् वाक्ये पितृ-
वर्गस्य पिण्डदानविधानमुक्त्वा तद्वदित्यनेन मातामहवर्गस्य
पिण्डदानाभिधानात् पितृवर्गार्थपिण्डदानविधिं समाप्य मा-
तामहवर्गार्थपिण्डदानं भिन्नतन्त्रतया कार्यमिति प्रतिभाति ।
तथाऽपि कृत्स्नश्राद्धानुष्ठानं समानतन्त्रतया वर्गद्वयस्येति ‘तन्त्रं
वा वैश्वदैविकम्’ इत्यत्रैवोक्तत्वात् पिण्डदानमपि समानतन्त्र-
तयैव वर्गद्वयस्य कार्यम् । अत एव पुराणे समानतन्त्रेणानु-
ष्ठानमुक्तं—
उपमूलात् समास्तीर्य दर्भानुच्छिष्टसन्निधौ ।
कृत्वाऽवनेजनं दद्यात्त्रीन् त्रीन् पिण्डान्यथाक्रमम् ॥
उपमूलात् मूलसमीपात् त्रीन् इति वीप्सया वर्गद्वयस्य समान-
तन्त्रेण पिण्डनिर्वपणमित्युक्तम् ॥
इति स्मृतिचन्द्रिकायां पिण्डदानविधिः.
श्राद्धकाण्डे पिण्डदानप्रयोगः
अथोपदेशातिदेशसंकलनतया सम्पन्नः पिण्ड[विधिर्]
उच्यते—श्राद्धार्थपाकसिद्धात्सर्वविधादन्नात् षट्पिण्डपर्याप्त[ं कि-]
श्चिदभ्यधिकमन्नं पात्रान्तरे समुद्धृत्य शेषमप्यस्ति किं क्रियता-
मिति पृष्ट्वा इष्टैस्सहोपभुज्यतां इत्येवंविधमनुज्ञारूपमुत्तरं विप्र-
दत्तं श्रुत्वा अनन्तरं स्फ्येन दर्भैर्वा ‘अपहता असुरा र-
क्षाꣳसि पिशाचा वेदिषदः’ इति मन्त्रेण सव्योत्तराभ्यां
पाणिभ्यां पिण्डस्थाने दक्षिणाप्राचीमेकां रेखां कृत्वा ततो
दक्षिणतो द्वितीयां रेखां प्रथमरेखावत्कुर्यात् । ततो रेखा-
द्वयसमीपभूमावुद्धननं कृत्वा तूष्णीं द्विरभ्युक्ष्य सकृ-
दाच्छिन्नमुपमूललूनं बर्हिर्दक्षिणाप्रागग्रं दक्षिणाग्रं वा पृथक्पृथ-
ग्रेखाद्वये संस्तीर्य दक्षिणेन हस्तेन पितृतीर्थेन प्रथमरेखा-
गतबर्हिषि पिण्डस्थाने ‘शुन्धन्तां पितरः शुन्धन्तां पितामहाः
शुन्धन्तां प्रपितामहाः’ इति त्रिभिर्मन्त्रैस्तिलमिश्रमुदकं निनीय
द्वितीयरेखागतबर्हिषि पिण्डस्थानेषु ‘शुन्धन्तां मातामहाः शुन्ध-
न्तां मातुःपितामहाः शुन्धन्तां मातुःप्रपितामहाः’ इति मन्त्रै-
स्तिलमिश्रमुदकं निनयेत् । अथवा प्रथमरेखायां ‘पितर-
मुकगोत्रामुकशर्मन् अवनेनिङ्क्ष्व, पितामहामुकगोत्रामुकश-
र्मन्नवनेनिङ्क्ष्व, प्रपितामहामुकगोत्रामुकशर्मन्नवनेनिङ्क्ष्व’ इति
मन्त्रैर्निनयेत् । द्वितीयरेखायां ‘मातामहामुकगोत्रामुकशर्मन्नव-
नेनिङ्क्ष्व, मातुःपितामहामुकगोत्रामुकशर्मन्नवनेनिङ्क्ष्व, मातुः-
प्रपितामहामुकगोत्रामुकशर्मन्नवनेनिङ्क्ष्व’ इति मन्त्रैर्निनयेत् ।
380 स्मृतिचन्द्रिकायां
ततो दक्षिणामुखः सव्यं जान्वाच्य घृतमधुतिलमिश्रमन्नं पू-
र्वप्रकरणोक्तार्द्रामलकाद्यन्यतमप्रमाणकं पिण्डं कृत्वा 'एतत्ते
पितरमुकगोत्रामुकशर्मन् ये च त्वामनु' इत्युक्त्वा पित्रेऽमुकगो-
त्रायामुकशर्मणे वसुरूपाय सपत्नीकायेदमन्नं न ममेत्युक्त्वा प्र-
थमपिण्डस्थाने अवाचीनपाणिना प्रक्षिपेत् । एतत्ते पिताम-
हामुकगोत्रामुकशर्मन् ये च त्वमन्वित्युक्त्वा पितामहायामुकगो-
त्रायामुकशर्मणे प्रजापतिरूपाय सपत्नीकायेदमन्नं न ममेत्युक्त्वा
द्वितीयस्थाने द्वितीयपिण्डं प्रक्षिपेत् । एवमेतत्ते प्रपितामह
अमुकगोत्रामुकशर्मन् ये च त्वामन्वित्युक्त्वा प्रपितामहायामुक-
गोत्रायामुकशर्मणेऽग्निरूपाय सपत्नीकायेदमन्नमित्युक्त्वा तृतीय-
स्थाने तृतीयं पिण्डं प्रक्षिपेत् । एते च पिण्डाः दक्षिणा-
पवगी दक्षिणाप्रागपवर्गा वा बर्हिस्तरणानुसारेण कार्याः ।
ततो द्वितीयरेखायामेवमेव पिण्डस्थानेषु पिण्डान् प्रक्षिपेत् ।
एतत्ते मातामह अमुकगोत्रामुकशर्मन् ये च त्वामनु इत्युक्त्वा
मातामहायामुकगोत्रायामुकशर्मणे वरुणरूपाय सपत्नीकायेदं न
ममेति प्रथमपिण्डे विशेषः । मातुःपितामहमातुःप्रपितामहयोः
प्रजापत्यग्निरूपाभ्यामिदं न ममेति पिण्डान् प्रक्षिपेत् । एते च
पिण्डाः दक्षिणापवर्गाः दक्षिणाप्रागपवर्गा वा बर्हिस्तरणानुसारेण
कार्याः । एवं आश्वलायनमतानुसारेण पिण्डदानमन्त्रा द-
र्शिताः । कात्यायनादिमतानुसारेण पिण्डदानमन्त्राः पूर्वप्रक-
रण एव दर्शिताः । तन्मतानुसारिभिरिहाप्यनुसन्धेयाः । एवं
पिण्डान् दत्वा रेखायामास्तीर्णे बर्हिषि 'अत्र पितरो मा-
दयध्वम्' इत्येतावन्मात्रेण हस्तलेपनिमार्जनं कृत्वा 'अत्र
पितरो मादयध्वं यथाभागमावृषायध्वम्' इत्युक्त्वा अप्रद-
क्षिणावर्तनेनोदङ्मुखो भूत्वा यथाशक्त्यनुच्छसन्नासित्वाऽभिप-
र्यावृत्य 'अमीमदन्त पितरो यथाभागमावृषायीषथ' इति
षट्पिण्डान् सकृदेव अनुमन्त्र्य उच्छ्वसेत् । ततस्तूष्णीं पिण्ड-
पात्रस्थशेषमवघ्राय प्रक्षाळनोदकेन 'शुन्धन्तां पितरः' इत्या-
दिभिष्षड्भिर्मन्त्रैः पितः अमुकगोत्र अमुकशर्मन् अवनेनि-
ङ्क्ष्व इत्यादिभिष्षड्भिर्मन्त्रैष्षट्सु पिण्डेषु पूर्ववदवनेजनं कृत्वा
पिण्डपात्रमधोमुखं कुर्यात् । ततोऽमुकगोत्र अमुकशर्मन् अ-
भ्यङ्क्ष्वेति यथानामधेयं षट्सु पिण्डेषु तैलं दत्वा अमुक-
शर्मन् अङ्क्ष्वेति यथानामधेयं षट्सु पिण्डेषु अञ्जनं दद्यात् ।
'एतद्वः पितरो वासो मानोतोऽन्यत्पितरो युङ्ग्ध्वम्' इति-
मन्त्रेण वासोदशादिकं षट्पिण्डेषु दद्यात् । ततस्तूष्णीमर्घ्य-
गन्धमाल्यधूपदीपसर्ववर्णिकान्नोपहारैर्मधुघृततिलसहितोदपात्रेण
प्रतिपिण्डमर्चनं कुर्यात् । ततः पात्रपूर्णमुदकं तेनैव पात्रेण
सर्वेषां पिण्डानामुपरि निनयेत् । दक्षिणं पाणिमुत्तानं कृत्वा
तदुपरि सव्यपाणिनाऽधोमुखेन नमस्काराञ्जलिं बध्वा 'नमो
वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरश्शुष्माय
नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पि-
तरो रसाय स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं
382 स्मृतिचन्द्रिकायां
पितर इमा अस्माकं वो जीवन्त इह सन्तस्स्याम मनोऽन्वाहुवामहे
नाराशंसेन सोमेन पितॄणां च मन्मभिः' इति तिसृभि ऋग्भिश्च
सर्वान् पिण्डान् सकृदेवोपतिष्ठेत् । ततः 'परेत पितरस्सो-
म्यासो गम्भीरेभिः पथिभिः पूर्वैभिः । दत्वायास्मभ्यं द्रवि-
णेह भद्रं रयिं च न स्सर्ववीरं नियच्छत' इति मन्त्रेण पिण्डां-
श्चालयेत् । ततः 'अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदि
स्पृशम् । ऋध्यामातओहैः' इत्येतयर्चाऽग्नौकरणाग्निं प्रतिगच्छेत् ।
'यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम ।
अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु
मामनेनसम्' इति मन्त्रेण गार्हपत्यं प्रतिगच्छेत्। एवमभ्यञ्जनादि
कमाश्वलायनमतानुसारेणोक्तम् । येषां स्वगृह्ये प्रकारान्तरम
नुक्तं तेषामाश्वलायनोक्तमभ्यञ्जनादिकमनुष्ठेयं, विष्णुस्मृतिपरि-
ग्रहेण स्मार्ततया सर्वसाधारणत्वात् ॥
इति स्मृतिचन्द्रिकायां पितृयज्ञधर्मकपिण्डदानप्रयोगः.
❖❖❖
अथान्यान्यपि पिण्डदानविषयाणि
कानिचिद्वचनानि लिख्यन्ते
तत्रबृहस्पतिः—
सर्वस्मात्प्रकृतादन्नात् पिण्डान्मधुतिलान्वितान् ।
पितृमातामहादीनां दद्याद्गृह्यविधानतः ॥
एतदुक्तं भवति—आपस्तम्बादिगृह्येषु यत्र पितृयज्ञविधानाद्विध्यन्त-
श्राद्धका 383
रेण पिण्डदानमुक्तं तद्गृह्यानुसारिणां तदुक्तविध्यन्तरेणैव पित्रादि-
भ्यो मातामहादिभ्यश्च पिण्डदानं कार्यमिति । यस्य च स्वस्य
गृहे विधानान्तरं नोपदिश्यते पिण्डपितृयज्ञविधानं वा निर्दिश्यते
तेनैव पिण्डपितृयज्ञकल्पेन पिण्डदानं कार्यं नान्येनेति मन्तव्यम्।
गृह्योक्तविधानान्तरेषूदाहरणार्थमापस्तम्बगृह्योक्तं विध्यन्तरं प्र।
दर्शयते तत्र ह्येवमभिहितं—'भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य
द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषूत्तरैरपो दत्वोत्तरैः दक्षिणा।
पवर्गान् पिण्डान् दत्वा पूर्ववदुत्तरैरपो दत्वोत्तरैरुपस्थायोदपात्रेण
त्रिः प्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं ऋचच
रार्धमावर्तयित्वा प्रोक्ष्य पात्राणि द्वंद्वमभ्युपाहृत्य' इति ।
अस्यार्थो विविच्यते—'भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्येत्यनेन
ब्राह्मणभोजनात्मकं प्रधानमनुव्रजनप्रदक्षिणीकरणान्तपाश्चात्याङ्ग-
जातसहितं परिसमाप्यानन्तरं पिण्डप्रदानात्मकं प्रधानं साङ्ग-
मनुष्ठातव्यम् । न पुनर्ब्राह्मणभोजनात्मकं प्रधानमपरिसमाप्य
अनन्तरमित्युक्तम् । ततश्च स्वकीयस्थानं प्रति गतेषु विप्रेषु
पिण्डनिर्व्वापणमनुष्ठेयम्, न तु भुक्तवत्स्वाचान्तेषु अनाचान्तेषु
तिष्ठत्सु विप्रेष्ववगन्तव्यम्। द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य
द्विधाभूतं यथाभवति दक्षिणाग्रान् दर्भान् अनुपहतदेशस्य पूर्वभागे
पश्चाद्भागे च पृथक्पृथक् संस्तीर्य तेषूत्तरैरपो दत्वा तेषु
द्विधा संस्तीर्णेषु दर्भेषु उत्तरैः 'मार्ज्यन्तां मम पितरः'
इत्यादिभिमन्त्रैः एकस्मिन् पिण्डस्थाने एकैकेन मन्त्रेणापो निन-
384 स्मृतिचन्द्रिकायां
येत् । पूर्वभागस्थदर्भेषु प्रथमपिण्डस्थाने 'मार्ज्यन्तां पितरः'
इति मन्त्रेणापो निनयेत् । द्वितीयतृतीयपिण्डस्थानयोः 'मार्ज्-
यन्तां पितामहाः प्रपितामहाः' इति मन्त्राभ्यामपो निनयेत् ।
पश्चाद्भागस्थदर्भेषु प्रथमपिण्डस्थाने 'मार्ज्यन्तां मातरः' इति
मन्त्रेण, द्वितीयतृतीयपिण्डस्थानयोः 'मार्ज्यन्तां पितामह्यः
प्रपितामह्यः' इति अपो निनयेत् । उत्तरैरेव दक्षिणापवर्गान्
पिण्डान् दत्त्वा 'एतत्ते ततासौ ये च त्वामनु' इत्यादिभिर्मन्त्रैः
एकस्मिन् पिण्डस्थाने एकैकेन मन्त्रेण एकैकपिण्डं पित्रादीनु-
द्दिश्य त्यागपूर्वं निवपेदित्यर्थः । तत्र पूर्वभागस्थदर्भेषूदकनिन-
यनक्रमेण 'एतत्ते ततासौ ये च त्वामनु' इति मन्त्रेण प्रथम-
पिण्डस्य निवपनम् । एवं पितामहप्रपितामहपिण्डयोर्निवपनम् ।
पश्चाद्भागस्थदर्भेषु 'एतत्ते मातरसौ याश्च त्वामनु' इति मन्त्रेण
प्रथमपिण्डस्य । एवं पितामहीप्रपितामह्योः पिण्डयोर्निवपनम् ।
'स्त्रीभ्यश्च पिण्डा इह पश्चिमास्स्युः' इति गृह्यभाष्यार्थसंग्रहका-
रेणाभिधानात् पश्चाद्भागस्थदर्भेषु स्त्रीणां पिण्डनिवपनमि-
त्यवगन्तव्यम् । षट्स्वपि पिण्डमन्त्रेषु असावित्यत्र सम्बोधनरूपे-
ण पितृपितामहप्रपितामहानां मातृपितामहीप्रपितामहीनां च
नामग्रहणं कर्तव्यम् ।
अर्घ्यदाने च सङ्कल्पे पिण्डदाने तथाऽक्षये ।
गोत्रसम्बन्धनामानि यथावत्प्रतिपादयेत् ॥
इति पारस्करस्मरणात् । पिण्डाश्च विप्रभोजनावशिष्टसर्वप्रका-
राम्मया मधुतिलान्विता न देयाः। 'सर्वस्मात्प्रकृतादन्नात्' इत्या-
देरापस्तम्बेनानिबद्धत्वादोदनमात्रेणैव पिण्डदानं कार्यमित्याहुः ।
पूर्ववदुत्तरैरपो दत्वा पिण्डनिर्वपणात्पूर्वोदकनिनयनवद्दर्भेष्वेव
पिण्डसमीपे उत्तरैः 'एतत्ते ततासौ' इत्यादिभ्यः षड्भ्यो मन्त्रे-
भ्यः परस्तात्पठितैः 'मार्ज्यन्तां पितरः' इत्यादिभिरेव मन्त्रै-
रपो निनयेदित्यर्थः । पूर्वोक्तोदकनिनयने पश्चादुक्तोदकनिनयने
च तिलमिश्रमुदकं ग्राह्यमिति केचिद्वदन्ति । उत्तरैरुपस्थाय 'ये
च वोऽत्र' इत्यादिभिर्मन्त्रैरुपस्थायेत्यर्थः। 'ये च वोऽत्र ये चास्मा-
स्वाशंसन्ते ते च वहन्तां तृप्यन्तु भवन्तः तृप्यत तृप्यत तृप्यत'
इत्येतैर्मन्त्रैः पितृवर्गार्थपिण्डोपस्थानम्। 'याश्च वोऽत्र याश्चास्मास्वा-
शंसन्ते ताश्च वहन्तां तृप्यन्तु भवत्यः तृप्यत तृप्यत तृप्यत'
इत्येतैर्मन्त्रैः मातृवर्गार्थपिण्डोपस्थानं कार्यमिति मन्त्रलिङ्गादव-
गन्तव्यम्। उत्तरयोदपात्रेण त्रिः प्रसव्वं परिषिच्य। उत्तरया
'पुत्रान् पौत्रान्' इत्यूचा उभयेषां पिण्डान् परिषिञ्चेदित्यर्थः। न्युब्ज्य
पात्राणि अन्नतिलमधुधारणार्थमुत्तानानि पात्राण्युदपात्राणि
चैकैकशो न्युब्ज्य अधोमुखतया स्थापयित्वेर्थ। उत्तरं यजुरनवानं
त्र्यवराधर्मावर्तयित्वा 'तृप्यत तृप्यत तृप्यत' इत्येकं यजुस्त्रिवारं
जप्त्वाऽन्यपक्षावलम्बनेनानुच्छ्रस्वन् आवर्तेत्यर्थः। प्रोक्ष्य पात्राणि
द्वंद्वमभ्युदाहृत्य न्युब्जीकृतानि पात्राणि प्रोक्ष्य द्वे पात्रे युगप-
दुद्धृत्यान्यत्र स्थापयेदित्यर्थः । एवमुक्तापस्तम्बगृह्यविधानतो
गृह्यान्तरोक्तविधानतो वा यथास्वगृह्यं पिण्डान् दद्यात् । गृहोक्त-
विधानेऽपि मातामहादीनां पिण्डनिवपनं कार्यं-
पितृमातामहादीनां दद्याद्गृह्यविधानतः ।
इत्येतस्मिन्नेव प्रकरणे बृहस्पतिवचनेन दर्शितत्वात् । तत्रापस्त-
म्बगृह्यविधानतो मातामहादीनां पृथक्पिण्डनिवपनं कार्यं
विकृतेः प्रकृतिवत्कर्तव्यत्वात् । विकृतित्वं च मातामहादिश्राद्ध-
स्य भाष्यार्थसंग्रहकारेणोक्तं-
मातामहादेरप्येवं श्राद्धं कुर्यात्प्रयत्नतः ।
इति । ततश्च तद्गृह्यानुसारिणां एवं मातामहाद्यर्थपिण्डदानप्र-
योगः । मातृवर्गार्थदर्भसंस्तरणं विधाय ततः पश्चाद्भागे मातामह-
वर्गार्थदर्भसंस्तरणं कृत्वा ततः पश्चाद्भागे मातामहीवर्गार्थदर्भसं-
स्तरणं कुर्यात्। मातृवर्गार्थमपो दत्वा मातामहवर्गार्थमपो दद्यात्।
'मार्ज्यन्तां मातामहाः' इत्यादिमन्त्रा ऊह्याः। मातामहवर्गार्थमपो
दत्वा मातामहीवर्गार्थमपो दद्यात् 'मार्ज्यन्तां मातामह्यः' इति
मन्त्रा ऊह्याः। मातृवर्गार्थपिण्डान् दत्वा मातामहवर्गार्थपिण्डान्
दद्यात् 'एतत्ते मातामह अमुकगोत्र अमुकशर्मन् ये च त्वामनु'
इति पिण्डदानमन्त्रा ऊह्याः। मातामहवर्गार्थपिण्डान् दत्वा माताम-
हीवर्गार्थपिण्डान् दद्यात् । एतत्ते मातामहि अमुकगोत्रे अमुक-
नाम्नि याश्च त्वामनु' इति पिण्डदानमन्त्रा ऊह्याः। मातृवर्गार्थपि-
ण्डसमीपे पुनरपो दत्वा मातामहवर्गार्थपिण्डसमीपे पुनरपो
दद्यात् । तदनन्तरं मातामहीवर्गपिण्डसमीपे पुनरपो निनयेत् ।
निनयनमन्त्राणामूहः पूर्ववदेव कार्यः । मातृवर्गार्थपिण्डान्
उपस्थाय पितृवर्गार्थपिण्डोपस्थानमन्त्रैरेव मातामहवर्गार्थापिण्डो-
पस्थानं कार्यम्। ततो मातृवर्गार्थपिण्डोपस्थानमन्त्रैरेव मातामहीव-
गार्थपिण्डोपस्थानं कार्यम्। 'पुत्रान्पौत्रान्' इत्येतयर्चा द्वादशपि-
ण्डानां युगपत्त्रिःप्रसव्यं परिषेचनं कार्यम्, शेषं यजुरावर्तनादि
साधारणतया सकृदेव कार्यम्, 'मार्ज्यन्तां मातामहाः' इत्यूहो
भाष्यार्थसङ्ग्रहकारेण सूचितः—
योज्यः पित्रादिशब्दानां स्थाने मातामहादिकः।
अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके ॥
यन्मे मातामहीत्यादि तत्रोदाहरणं भवेत् ॥
इति। अन्नहोमे 'यन्मे माता प्रलुलोभ चरत्यननुव्रता' इत्यादिभिः
मन्त्रैः अग्नौकरणान्नहोमे । स्पर्शे 'एष ते तत मधुमाग्ँ ऊर्मि-
स्सरस्वान्' इत्यादिभिर्मन्त्रैः ब्राह्मणभोजनार्थान्नस्पर्शे । जलपि-
ण्डादिदानके 'मर्ज्यन्तां पितरः' इत्यादिजलदानमन्त्रे, 'एतत्ते
ततासौ ये च त्वामनु' इत्यादिपिण्डदानमन्त्रे च पित्रादिशब्दानां
स्थाने मातामहादिशब्दो योज्यः प्रयोज्य इत्यर्थः । यन्मे
मातामहीत्यादि तत्रोदाहरणं भवेदित्यस्यायमर्थः—तत्र पित्रादि-
शब्दस्थाने मातामहादिशब्दयोजनम्। 'यन्मे माता प्रलुलोभ चर-
त्यननुव्रता तन्मे रेतः पिता वृङ्क्ताम्' इति मन्त्रेण मातामहार्थ-
मन्नहोमे कर्तव्ये मन्त्रगतमातृपदस्थाने मातामहीपदप्रक्षेपेण यन्मे
मातामहीत्येवं सम्पन्न ऊहः, तथा एतन्मन्त्रगतपितृपदस्थाने
मातामहपदप्रक्षेपेण तन्मे रेतो मातामहो वृङ्क्तामित्येवं सम्पन्न
ऊहश्चोदाहरणं भवेदिति। नामाज्ञाने पिण्डदानं प्रकृत्य गृह्यान्तरं
'यदि नामानि न विद्यात् स्वधा पितृभ्यः पृथिवीषद्भ्यः इति
प्रथमपिण्डं दद्यात् स्वधा पितृभ्योन्तरिक्षसद्भ्य इति द्वितीयं,
स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम्' इति। एते मन्त्राः माता-
महाद्यर्थपिण्डदानमन्त्रेऽपि नामाज्ञानविषये प्रयोज्याः। गोत्रा-
ज्ञानेऽप्याह व्याघ्रपात्—'गोत्रनाशे तु कश्यपः' इति।
गोत्राज्ञाने कश्यपगोत्रग्रहणं कर्तव्यम्, कश्यपगोत्रस्य सर्वसाधार-
णत्वात्। तथाच श्रुतिः 'तस्मादाहुस्सर्वाः प्रजाः कश्यपः' इति।
एवं च मातामहादिगोत्राज्ञानेऽपि काश्यपगोत्रग्रहणं कर्तव्यम्॥
इति स्मृतिचन्द्रिकायां पिण्डदानविषयाणि
अथ ब्राह्मणभोजनात्मकप्रधानपाश्चात्याङ्गविषयाणि.
तत्र मत्स्यः—
अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत्।
इति। ब्राह्मणेष्वाचान्तेषु स्वयमप्याचान्तो भुक्तवद्ब्राह्मणद-
क्षिणहस्तेषु सकृत्सकृदपो दद्यादित्यर्थः। एतत् अनाचान्तेषु
विप्रेषु पिण्डदानपक्षे द्रष्टव्यम्। आचान्तेषु पिण्डदानपक्षे
आचम्य पिण्डं दद्यात्ततो विप्रहस्तेषु सकृत्सकृदपो दद्यात्।
तेषां पवित्रपाणित्वाय दर्भाश्च देयाः, भोजनसमयपवित्राणां
उच्छिष्टत्वेन त्यक्तत्वात्।
पद्मपुराणेऽपि—
आचान्तेषूदकं दद्यात्पुष्पाणि सयवानि च ।
इति । वैश्वदैविकब्राह्मणहस्तेष्विति शेषः, सयवानि चेत्यभि-
धानात् । पैतृकब्राह्मणहस्तेषु तु यवस्थाने तिला देयाः,
अर्घ्यादौ तथा दर्शनात् । सयवानि चेति चशब्दात्पुनरप्युदकं
देयमिति सूच्यते । हस्तेषु दत्तानां यवादीनां दर्भाणामिव
धारणप्रयोजनकार्याभावात्कृतकार्यत्वेन कचित् शुचौ देशे
प्रक्षेपं विप्राः कुर्युः । प्रक्षेपणादनन्तरं पुनः मत्स्यः—
आचान्तेषु पुनर्द्दद्याज्जलपुष्पाक्षतोदकम् ।
दत्त्वाऽऽशीः प्रतिगृह्णीयात् द्विजेभ्यः प्राङ्मुखो बुधः ॥
पुनःशब्देन पद्मपुराणोक्तं सयवपुष्पं जलं प्रथमं देयमिति
सूचितम् । जलपुष्पाक्षतोदकं दद्यात् प्रथमं जलं दद्यात्
साक्षतपुष्पं प्रदाय
ु - क्तं = तद्दत्तमसुरैर्भुक्तं.
"निराशाः पितरो गताः ॥"
Yes!
Let's double check L3: "वर्तव्यम्" vs "वक्तव्यम्":
Wait, is that 'वर्तव्यम्' or 'वक्तव्यम्'?
If someone transcribes it, either वर्तव्यम् (exact to print) or वक्तव्यम्. Let's look at वर्तव्यम्.
Wait, could it be वक्तव्यम्?
Look at the 'व': it's clean.
Then the next letter: it has a top hook (repha). Below it is त.
Wait, why would it be वर्तव्यम्? As noted, it's a typo in the printing. Transcribing as वर्तव्यम् is completely faithful to the page image.
Everything is clear and verified.एतास्सत्याशिषस्सन्तु सन्त्वित्युक्तश्च तैः पुनः ।
स्वस्तिवाचनं कुर्यात् .......................... ॥
इति । अघोराः पितरस्सन्त्विति श्राद्धकर्त्रा वर्तव्यम् । शिवाः
पितरस्सन्त्विति तस्यार्थः । सन्त्वित्युक्ते पुनर्द्विजैः सन्त्वघो-
राः पितर इत्युक्ते गोत्रं वर्धतां न इति कर्त्रा वक्तव्यम् ।
[
तस्मात् स्वस्तिवाचनात्प्राक् पात्रचालनमवश्यं कार्यमित्यभिप्रायः
पात्रचालनकर्तृविषये विधिप्रतिषेधौ जातूकर्ण्येन दर्शितौ--
पात्राण्युच्चालयेच्छ्राद्धे स्वयं शिष्योऽथवा सुतः ।
न स्त्रीभिर्न च बालेन नासजात्या कथञ्चन ॥
स्वस्तिवाचनप्रकारस्तु पारस्करेण दर्शितः—‘स्वस्तीति भगवन्
ब्रूहीति वाचनम्’ इति । अक्रोदकं दत्वा स्वस्तिवाचनमिति
कात्यायनेनोक्तो विशेषः । अत्रैवं प्रयोगः—यज्ञोपवीती वैश्व-
दैविकहस्ते उदकं दत्वा पुरूरवार्द्रवसंज्ञिकेभ्यो विश्वेभ्यो
देवेभ्यस्स्वस्तीति भगवन् ब्रूहीति कर्ता ब्रूयात् । विप्रेण च
तेभ्यः स्वस्तीति वक्तव्यम् । प्राचीनावीती पित्र्यब्राह्मणहस्तेषू-
दकं दत्वा पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः अमुकगो-
त्रेभ्यः अमुकशर्मभ्यः स्वस्तीति भगवन् ब्रूहीति कर्ता ब्रूयात् ।
विप्रेण च तेभ्यः स्वस्तीति वक्तव्यम् । एवं मातामहादिब्रा-
ह्मणहस्तेषूदकं दत्वा मातामहमातुःपितामहमातुःप्रपितामहेभ्योऽ-
मुकगोत्रेभ्योऽमुकशर्मभ्यः स्वस्तीति भगवन् ब्रूहीति कर्ता
ब्रूयात् । विप्रेण च तेभ्यस्स्वस्तीति वक्तव्यम् । स्वस्तिवाच-
नानन्तरं याज्ञवल्क्यः—‘ततः कुर्यादक्षय्योदकमेव च’ इति ।
ततस्स्वस्तिवाचनानन्तरं अक्षय्योदकं कुर्यात् । अक्षय्यमस्त्वि-
त्युक्त्वा विप्रहस्ते जलं निनयेदित्यर्थः । पित्र्यविप्रहस्ते तु सतिलं
जलं निनयेत् । अक्षय्यमस्त्विति च तिलोदकं दत्वेति का-
त्यायनेनोक्तत्वात् । अस्त्वक्षय्यमिति विप्रैर्वाच्यम् । तथाच
मार्कण्डेयपुराणम्—
392 स्मृतिचन्द्रिकायां
पितॄणां नामगोत्रेण जलं देयमनन्तरम् ।
ब्राह्मणानां द्विजैर्वाच्यमक्षय्यमिदमस्त्विति ॥
ब्राह्मणानां हस्तेष्विति शेषः । अत्रैवं प्रयोगः—पुरूरवार्द्रव-
संज्ञकानां विश्वेषां देवानां अक्षय्यमस्त्विति वैश्वदैविकब्राह्मण-
हस्तेषु केवलं जलं यज्ञोपवीती निनयेत् । पितृपितामहप्रपिता-
महानां अमुकगोत्राणाममुकशर्मणां सपत्नीकानां अक्षय्यमस्त्विति
पित्र्यब्राह्मणहस्तेषु सतिलं जलं प्राचीनावीती निनयेत् ।
एवं मातामहादीनाममुकगोत्राणाममुकशर्मणां सपत्नीकानां अ-
क्षय्यमस्त्विति मातामहादिब्राह्मणहस्तेषु सतिलं जलं निनयेत् ।
वैश्वदैवादिद्विजैः तत्प्रदानान्तरं अक्षय्यमिदमस्त्विति वक्तव्यम् ।
अक्षय्योदकदानान्तरं दक्षिणां दद्यात् । तथाच मत्स्यः—
‘अक्षय्योदकमेव च । सतिलं नामगोत्रेण दद्याच्छक्त्या च
दक्षिणाम्’ इति । सतिलमक्षय्योदकं पित्रादिनामगोत्रेण
दद्यात् । तदनन्तरं शक्त्यनुसारेण दक्षिणां दद्यादित्यर्थः ।
अत्र देयवस्तूनि निर्दिश्य व्यास आह—
गोभूहिरण्यवासांसि नव्यान्या शयनानि च ।
दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च ।
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमाचरन् ।
इति । वित्तशाठ्येन रहितो गवादिकं पितृभ्यो दद्यात् ।
तेषां प्रीतिमाचरन्नित्यन्वयः । पारस्करोपि—‘हिरण्यं विश्वेभ्यो
देवेभ्यो रजतं पितृभ्योऽन्यच्च गोकृष्णाजिनादिकं यावच्छ-
क्नुयात्’ इति । वायुपुराणे—
393
लोके श्रेष्ठतमं यत्तु आत्मनश्चापि यत्प्रियम् ।
सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ॥
पितॄणां पितृभ्य इत्यर्थः । पितृभ्यो दक्षिणादाने प्रकार-
माह जमदग्निः—
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ।
हिरण्यरत्नवासांसि हर्म्याणि शयनानि च ॥
इति । हिरण्यादि द्रव्यं तिलोपेतं पितृभ्यो गोत्रनामसहि-
तेभ्यः प्रतिपादयामीति सङ्कल्प्य पैतृकब्राह्मणानां भुक्तवतां
समर्पयेदित्यर्थः । 'ब्राह्मणान् भोजयित्वा तु दद्याच्छक्त्या
च दक्षिणाम्' इत्युक्तत्वात् । यत्तु वायुपुराणेऽभिहितं—
यद्यदिष्टतमं लोके यच्चान्यद्रिच्यते गृहे ।
तत्तद्गुणवते देयं तद्वैवाक्षयमिच्छता ॥
इति, तत् देवेभ्यः पितृभ्यश्च सङ्कल्पितं दक्षिणाद्रव्यं, न
भक्ष्यभोज्यादिकम् । भक्ष्यभोज्यं तु भोक्तृविप्रेभ्यः समं देयम् ।
दक्षिणादिद्रव्यमपि भोक्तृविप्रगुणानुसारेण विषमं देयमित्ये-
वंपरं, न तु गुणवन्तं ब्राह्मणमुद्दिश्य देयपरमित्यवगन्तव्यम् ।
पारस्करः—
एकपङ्क्त्युपविष्टानां विप्राणां श्राद्धकर्मणि ।
भक्ष्यभोज्यं समं देयं दक्षिणा त्वनुसारतः ॥
इति । समं देयं गुणतारतम्यनिबन्धनवैषम्यं हित्वा देयमित्यर्थः ।
दक्षिणादौ तारतम्यनिबन्धनवैषम्ये कृतेऽपि न दोषः । अनु-
SMRITI CHA.—Vol. V. 50
सारतः निमन्त्रितविप्रगुणानुसारेणेत्यर्थः । एवंचेत्थं दक्षिणा-
दानप्रयोगः—यज्ञोपवीती पुरूरवार्द्रवसंज्ञिकेभ्यो विश्वेभ्यो दे-
वेभ्यो हिरण्यादिदक्षिणां प्रतिपादयामीति संकल्प्य वैश्वदै-
विकब्राह्मणहस्ते समर्पयेत् । ततः प्राचीनावीती पितृपिता-
महप्रपितामहेभ्योऽमुकगोत्रेभ्योऽमुकशर्मभ्यस्सपत्नीकेभ्यः रजता-
दिदक्षिणां प्रतिपादयामीति संकल्प्य पितृवर्गार्थविप्रहस्ते स-
मर्पयेत् । एवं मातामहादिभ्यस्समर्पयेत् । ननु यदि पित्राद्यु-
द्देशेन द्रव्यत्यागः न पुनर्ब्राह्मणोद्देशेन, कथं तर्हि ब्राह्मणानां
दक्षिणाद्रव्ये स्वाम्यम् ? उच्यते—यथा दर्शपूर्णमासयोर्दक्षि-
णादाने 'ब्राह्मणा अयं व ओदनः' इत्युक्त्वा यजमानेन
ओदने समर्पिते ब्राह्मणोद्देशेन ओदनत्यागाभावेऽपि ऋत्विजां
कर्मकरत्वेनैव ओदनस्वाम्यमुत्पद्यते, तथेहापि हिरण्यरजता-
दिसमर्पणे तत्र स्वाम्यं ब्राह्मणानां कर्मकरत्वेनैव सिध्यति।
यथावा-प्रतिष्ठादौ प्रातिष्ठाप्यदेवतायै संकल्पितवस्त्राभरणादिषु
आचार्यस्य स्वाम्यं 'प्रतिष्ठान्ते तु सर्वमुपकरणमाचार्यो गृह्णा-
ति' इति वचनानुगृहीतकर्मकरत्वेनैव भवति तथेहापि 'ब्राह्मणान्
भोजयित्वा तु दद्याच्छक्त्या च दक्षिणाम्' । इत्यनुगृहीतेन
कर्मकरत्वेन ब्राह्मणानां पित्राद्युद्देशेन संकल्पितरजतादौ स्वा-
म्यं संपद्यत इति न कश्चिद्विरोधः । अथवा ब्राह्मणोद्देशेन
त्यागादेवात्रापि ब्राह्मणानां स्वाम्यं भविष्यति—
आचान्तेभ्यो द्विजेभ्यस्तु प्रयच्छेदथ दक्षिणाम् ।
श्राद्धकाण्डे ब्राह्मणभोजनात्मकप्रधानपाश्चात्याङ्गविषयाणि ३९५
इति । देवलेन द्विजानुद्दिश्य दक्षिणा देयेत्यभिहितम्—
दक्षिणां पितृविप्रेभ्यो दद्यात्पूर्वं ततो द्वयोः ।
इति । द्वयोर्वैश्वदैविकविप्रयोरिति यावत् । द्वयोरिति षष्ठी
पितृविप्रेभ्य इति चतुर्थीसमभिव्याहारात् चतुर्थ्यर्थे द्रष्टव्या ।
एवंचायमर्थः—पूर्वं पितृविप्रेभ्यो दक्षिणां दत्त्वा पश्चाद्वैश्व-
दैविकब्राह्मणाभ्यां दद्यादिति । अस्मिन् पक्षे दक्षिणादान-
स्यापैतृकत्वात् पितृविप्रेभ्योपि यज्ञोपवीत्येव दद्यात् । अत
एव जमदग्निः—
सर्वं कर्मापसव्येन दक्षिणादानवर्जितम् ।
इति । यत्पुनस्तेनोक्तम्—
अपसव्यं तु तत्रापि मत्स्यो भगवान् हि मेने ।
इति, तत् पितृनुद्दिश्य दक्षिणादानपक्षे द्रष्टव्यम् । बृहस्प-
तिस्तु अनिमन्त्रितविप्रेभ्योपि दक्षिणादानमाह—
ज्ञातयो बान्धवा निस्स्वास्तथा वाऽतिथयोऽपरे ।
प्रदद्याद्दक्षिणां तेषां सर्वेषामनुरूपतः ॥ इति ।
ज्ञातयः पितृसंबन्धाः । बान्धवा मातृसंबन्धाः । दक्षिणा-
दानानन्तरं याज्ञवल्क्यः—
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।
इति । दक्षिणादानानन्तरं स्वधां वाचयिष्ये इति विप्राननु-
ज्ञापयेदित्यर्थः । अत्रिरपि—
वाचयिष्ये स्वधां प्रश्नमित्थं कुर्याद्द्विजातिषु ।
इति । स्वधां वाचायिष्ये इतीत्थं स्वधाप्रश्नं द्विजातिष्वासीने-
ष्वेव कुर्यादित्यर्थः । ततो द्विजातयः वाच्यतामित्यनुज्ञां दद्युः ।
वाच्यतामित्यनुज्ञां तु प्रीता दद्युस्समाहिताः ।
इति तेनैवानन्तरमभिधानात् । एवमनुज्ञातः किं कुर्यादित्यपेक्षिते
याज्ञवल्क्यः—
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ।
इति । अनेनेदमुक्तं—पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मा-
तामहेभ्यो मातुःपितामहेभ्यो मातुःप्रपितामहेभ्यस्सपत्नीकेभ्यः
स्वधोच्यतामिति कर्ता ब्रूयादिति । अस्तु स्वधेति विप्रा
ब्रूयुः । ततः कर्ता कमण्डलुना पिण्डसमीपभूमौ जलं सिञ्चेत् ।
कात्यायनस्तु दर्भानास्तीर्य तस्यां भूमौ समन्त्रकं सेचनं
कार्यमित्याह—'सपवित्रान् कुशानास्तीर्य स्वधां वाचायिष्ये
इति पृच्छति वाच्यतामित्युक्ते पितृभ्यः पितामहेभ्यः प्रपि-
तामहेभ्यः स्वधोच्यतामस्तु स्वधेत्युच्यमाने ऊर्जं वहन्तीरि-
त्यपो निषिञ्चेत् सपवित्रेषु कुशेषु' इति । सपवित्रेषु अर्घ्यसं-
स्कारार्थपवित्रसहितेषु । सपवित्रेष्विति वदन् न्युब्जीकृता-
र्घ्यपात्रमुत्तानं कृत्वा तत्र पवित्राणि ग्राह्याण्यस्मिन्काल इति
सूचयति । अत एव सङ्ग्रहकारः—
याज्ञवल्क्यो विसर्गात्प्राक् पात्रमुत्तानमिच्छति ।
यमो विसर्जनं कृत्वा गृह्यकर्ताऽपि शौनकः ॥
प्रीतिप्रश्नात्तु देवानां पूर्वं कात्यायनादयः ॥