स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 392, कुल 474 में से
संदर्भ में पढ़ें372 स्मृतिचन्द्रिकायां
दर्शश्राद्धं च यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् ।
इति । तत्र ब्राह्मणनिमन्त्रणादिसर्वधर्माणाम्नानात् श्राद्धा-
न्तराणां सर्वेषां प्रकृतिभूतं तदित्यवगन्तव्यं, तद्विकृतिभूत-
मितरदेकोद्दिष्टादिश्राद्धम् । एवञ्च पार्वणग्रहणमन्तरेण आर्द्राम-
लकप्रमाणस्य प्रकरणादेव पार्वणार्थत्वे लब्धे पार्वणग्रहणं
विस्पष्टार्थम् । एतेषु प्रमाणेषु शक्त्यनुसारेण व्यवस्था कल्प्या ।
प्रमाणान्तरमपि ब्रह्माण्डपुराणे वचोभङ्ग्या दर्शितं—
त्रीन् पिण्डानानुपूर्व्येण साङ्गुष्ठमुष्टिबन्धनात् ।
इति । साङ्गुष्ठमुष्टिग्राह्यप्रमाणात् किञ्चिदभ्यधिकानीत्यर्थः ।
आनुपूर्व्येण दक्षिणापवर्गत्त्वदक्षिणाप्रागपवर्गत्वादिविरुद्धानुपूर्व्ये-
ण । पितृयज्ञवदित्यतिदेशेन पिण्डानां दक्षिणापवर्गत्त्वस्य दक्षि-
णाप्रागपवर्गत्त्वस्य वा प्राप्तत्वात् । पिण्डनिर्वपणानन्तरं मनुः—
न्युप्य पिण्डान् पितृभ्यस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम् ॥
प्रपितामहपितृपितामहप्रपितामहाः लेपभागिनः । ‘लेपभाजश्च-
तुर्थाद्याः’ इति मत्स्येनाभिधानात् । लेपनिमार्जनमन्त्रमाह
विष्णुः—‘अत्र पितरो मादयध्वं इति दर्भमूलेषु करावघ-
र्षणम्’ इति । करावघर्षणं हस्तलेपनिमार्जनम् । करावघर्ष-
णानन्तरं कात्यायनः—‘अत्र पितर इत्युक्त्वा उदङ्ङास्ते
आतमनादात्मानमावृत्यामीमदन्त इति जपति’ इति । दक्षिणमा-
त्मानमावृत्य आतमनात् प्राणायामेन वायुपीडावधि उदङ्मुख