स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 390, कुल 474 में से
संदर्भ में पढ़ें370 स्मृतिचन्द्रिकायां.
प्रथमो वरुणो देवः प्रजापतिस्तथाऽपरः ।
तृतीयोऽग्निस्स्मृतः पिण्ड एष पिण्डविधिस्स्मृतः ॥
इति, तत् न वरुणादीनां देवतात्वप्रतिपादनपरं, किंतु यथा
वसुरुद्रादित्यस्वरूपाः पितरः श्राद्धदेवता इति याज्ञवल्क्येना
न्नत्यागादौ वस्वादिरूपेण पित्रादयो ध्यातव्याः इत्येवंपरत-
योक्तं, तथा पिण्डदाने वरुणादिरूपेण पित्रादयो ध्यातव्याः
इत्येवंपरतयोक्तमिति मन्तव्यम् । तेन यथाऽन्नत्यागे वस्वादि-
रूपान् सपत्नीकान् पित्रादीन् चतुर्थ्यन्तेन पित्रादिपदेन
गोत्रनामसहितेनोद्दिश्यान्नत्यागः क्रियते तथैतत्ते इति मन्त्रा-
च्चारणानन्तरं वरुणादिरूपान् सपत्नीकान् पित्रादीनुद्दिश्य
पिण्डत्यागः कर्तव्यः । अथवा आवाहनादौ अन्नत्यागपर्यन्ते
पिण्डनिर्वापणादौ च सर्वत्रात्मानमनिरुद्धत्वेन प्रद्युम्नसंकर्षणवा-
सुदेवरूपेण पितृपितामहप्रपितामहांश्च यथाक्रमेण ध्यात्वा आ-
वाहनादिकं कुर्यात् । तथाच भविष्यत्पुराणे—
अनिरुद्धस्स्वयं देवः प्रद्युम्नस्तु पिता स्मृतः ।
सङ्कर्षणस्तज्जनको वासुदेवस्तु तत्पिता ॥
स्वयं श्राद्धकर्ता अनिरुद्धो देवः । श्राद्धकर्तुः पिता प्रद्युम्न
स्मृतः । तज्जनकः श्राद्धकर्तृपितृजनकः सङ्कर्षणस्स्मृतः ।
तत्पिता श्राद्धकर्तृपितृजनकपिता वासुदेवस्स्मृत इत्यर्थः । पिण्ड-
दाता पिण्डदानसमये सव्यं जान्वाच्य पिण्डदानं कुर्यादिति
वायुपुराणेऽभिहितं—