स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 395, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे पिण्डदानविधिः. 375
पात्रानिर्णजनेनैव पुनः प्रत्यवनेजयेत् ।
इति पुराणे एवकारःकृतः । एतद्व इति मन्त्रेण दशादा-
नानन्तरं पितृयज्ञाद्विशेषमाह व्याघ्रः-
गन्धपुष्पाणि धूपं च दीपं चैव निवेदयेत् ।
एतद्वः पितरो वासोदशां दत्वा पृथक् पृथक् ॥
एतद्व इति मन्त्रेण प्रतिपिण्डं वाससो दशां दत्वा गन्धादिकमपि
प्रतिपिण्डं दद्यादित्यर्थः। यत्तु विष्णुरोक्तं- ‘पिण्डनिर्वपणं कृत्वाऽ-
र्घ्यपुष्पधूपानुलेपनान्नाद्यभक्ष्यभोज्यानि निवेदयेत् । उदपात्रं
मधुघृततिलैस्संयुक्तं चेति' इति तत् पिण्डनिर्वपणानन्तरमर्घ्यादि-
विशेषप्राप्त्यर्थम् । अन्यथा-
न्युप्य पिण्डान् पितृभ्यस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम् ॥
इति मनूपादिष्टयुक्ततरक्रमविरोधापत्तेः । तेनार्घ्यादिप्रदर्शनमा-
त्रार्थं विष्णुवचनं, नतु पिण्डनिर्वपणानन्तर्यप्रतिपादनार्थमपीति
न व्याघ्रोक्तानन्तर्यपारिपन्थीति मन्तव्यम् । यत्तु मत्स्यपु-
राणेऽभिहितं-
गन्धधूपादिकं दद्यात्कृत्वा प्रत्यवनेजनम् ।
इति, तत् प्रत्यवनेजनात्पूर्वं न गन्धादिदानमित्येवंपरम् ।
न तु प्रत्यवनेजनानन्तरमेव गन्धादिदानं कर्तव्यमित्येवंपरम् । ‘प्र-
कृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यात्' इति न्यायेनावनेजनीनन्तरमभ्य-
ञ्जनादिदानं तदनन्तरं गन्धादिदानामिति न्यायमूलकक्रमाभि-