स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 394, कुल 474 में से
संदर्भ में पढ़ेंपिण्डोपरि प्रतिपिण्डं दद्यात् असावित्यत्र संबोधनरूपेण
पित्रादीनां नामग्रहणं, असावङ्क्ष्वेति मन्त्रेण पिण्डोपरि प्रतिपिण्ड-
मञ्जनं दद्यादेतद्व इति मन्त्रेण प्रतिपिण्डं यथालाभं दशादिकं
दद्यात् । यत्तु शङ्खेनोक्तं—
क्षुमासूत्रं प्रदातव्यं कार्पासमथवा नवम् ।
दशां विवर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजाम्॥
इति । क्षुमा अतसी । अत्र यद्यपि नित्यवद्दशाप्रतिषेधः
प्रतिभाति, तथाऽपि पूर्वोक्तस्मृतौ दशाया विधानात् षोडशिग्रह-
णाग्रहणवद्विकल्पोऽनुसन्धेयः । वस्त्राभावे पुराणेऽप्युक्तं—
सूत्राण्यूर्णा दशा वाऽपि पतिर्लोम प्रदापयेत् ॥
इति । पतिः यजमानः । लोमप्रदानपक्षः पूर्ववयसि न भवति
यदाह कात्यायनः—'एतद्वः पितरः, इति सूत्राणि प्रतिपिण्डं
वयस्युत्तरे यजमानस्य लोमानि वा' इति। उत्तरे वयसि पञ्चा-
शद्वर्षादूर्ध्वमित्यर्थः। वाशब्दादुत्तरे वयसि लोमपक्षः पक्षान्तरा-
ण्यपि । एतत्सर्वं 'पितृयज्ञवत्' इत्यनेन प्राप्तम् । अवनेजने
तु पितृयज्ञाद्विशेषमाह व्याघ्रः—
अद्भिः प्रक्षाळ्य तत्पात्रं प्रतिपिण्डं तु पूर्ववत् ।
कृत्वाऽवनेजनं कुर्यात्पिण्डपात्रमधोबिलम् ॥
इति। पूर्ववत् पिण्डप्रदानात्पूर्व विहितावनेजनवत् । एवञ्च द्विती-
यावनेजनमपि पिण्डपात्रप्रक्षाळनोदकेन कार्यं, न तु पितृयज्ञवदुद-
कान्तरेण । अत एव—