स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 391, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे पिण्डदानविधिः 371
मधुसर्पिस्तिलयुतान् त्रीन् पिण्डान्निर्वपेद्बुधः ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥
सव्यं जानु भूमौ कृत्वा सव्यं जान्वाच्येत्यर्थः । एतत् पितृ-
यज्ञवदित्यनेनैव सिद्धम् । त्रीन् पिण्डानिति वदन् मात्रादीनां
पृथक्पिण्डनिर्वपणाभावं दर्शयति । तेन सपत्नीकस्य पित्रा-
देरेकैकः पिण्डो निर्वपणीयः । पिण्डप्रमाणमाह व्यासः—
द्विहायनस्य वत्सस्य विशशस्ये यथासुखम् ।
तथा कुर्यात्प्रमाणं तु पिण्डानां व्यासभाषितम् ॥
द्विहायनो द्विवर्षो वत्सः । प्रमाणान्तराण्याहाङ्गिराः —
कपित्थबिल्वमात्रान् वा पिण्डान् दद्याद्विधानतः ।
कुक्कुटाण्डप्रमाणान्वा यदि वाऽऽमलकैस्समान् ॥
बदरेण समान्वाऽपि दद्याच्छ्रद्धासमन्वितः ।
इति । आमलके तु विशेषमाह मरीचिः—
आर्द्रामलकमात्रांस्तु पिण्डान् कुर्वीत पार्वणे ।
अमावास्याख्ये पार्वणे । पिण्डपितृयज्ञानन्तरं—
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
इति वचनेन यद्विहितं तदिदममावास्यारूपपर्वसम्बन्धलक्षणप्रवृ-
त्तिनिमित्तेन योगेन रूढ्या वा पार्वणशब्देनोच्यते । तथाच
शातातपः—