स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
श्राद्धकाण्डे अर्घ्याद्युपचारविधिः. 315
स्मरणात् शिरस्येव विप्रेण माला धार्या । तत्रापि शिखा-
यामेव—
न नियुक्तश्शिखावर्जं मालां शिरसि वेष्टयेत् ।
इति वृद्धमनुस्मरणात् । नियुक्तः श्राद्धे निमन्त्रितो विप्रः ।
माल्यं च विहितपुष्पमयं देयम् । कानि पुनर्विहितानि पुष्पा-
णीत्यपेक्षिते ब्रह्मपुराणे—
शुक्लास्सुमनसश्श्रेष्ठाः तथा पद्मोत्पलानि च ।
गन्धधूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥
इति । विष्णुस्तु पुष्पदाने मन्त्रमाह 'पुष्पावतीरिति पुष्पम्'
इति । दद्यादिति पूर्ववाक्यश्रुतमिहानुषज्यते ।
ओषधयः प्रतिमोदध्वं पुष्पावतीस्सुपिप्पलाः ।
अयं वो गर्भऋत्वियः प्रत्नं सधस्थमासदत् ॥
इति मन्त्रस्य मध्यमप्रतीकोपादानमेतत् पुष्पावतीरिति । म-
न्त्रान्ते नामगोत्रग्रहणपूर्वकामिदं वः पुष्पमिति पुष्पं देयम् ।
धूपद्रव्ये विशेषश्शङ्खेनोक्तः—
धूपार्थे गुग्गुलं दद्यात् घृतयुक्तं मधूत्कटम् ।
इति । व्यासस्तु धूपदाने मन्त्रमाह—'धूपं च धूरसीत्युक्त्वा'
इति । 'धूरसि धूर्व धूर्वन्तम्' इति यजुर्वेदमन्त्रमुक्त्वा धूपं दद्या-
दित्यर्थः । पुराणे तु मन्त्रान्तरमुक्तं—
वनस्पतिरसो दिव्यो गन्धाढ्यस्सुमनोहरः ।
आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
इति। धूरसीत्यनेन सहास्य विकल्पो वेदितव्यः। अत्रापि मन्त्रान्ते
नामगोत्रग्रहणपूर्वकमयं वो धूप इति धूपो देयः। हस्तवात-
प्रापितो धूपो न विप्रेण सेव्यः तस्य निषेधात्। शातातपः-
हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः।
वृथा भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ॥
दीपे तु विशेषमाह मरीचिः-
घृताद्वा तिलतैलाद्वा नान्यद्रव्यात्तु दीपकम्।
इति। आच्छादने मन्त्रमाच्छादनाभावे तत्प्रतिनिधिं चाह
शातातपः- 'युवा सुवासा इति वस्त्रं दद्यात्तदभावे यज्ञो-
पवीतम्' इति। अत्रापि मन्त्रान्ते नामगोत्रग्रहणपूर्वकं इदं
व आच्छादनमिदं वो यज्ञोपवीतमिति वा उक्त्वा आच्छादनं
यज्ञोपवीतं वा देयम्। अन्यान्यपि ग्राह्यवर्जनीयगन्धपुष्पधूप-
दीपाच्छादनविषयाणि स्मृत्यन्तरवचनानि सन्ति, तानि चा-
स्माभिः श्राद्धाङ्गद्रव्योपकल्पनप्रकरणे लिखितानीहाप्यनुसन्धे-
यानि। एवं मातामहादीनामपि गन्धपुष्पादिदानं नामगोत्र-
सहितं पदार्थानुसमयेन कार्यं, 'मातामहानामप्येवम्' इत्यतिदेश-
स्मरणात्। मातुःप्रपितामहाच्छादनानन्तरं अर्चनं पूर्णमस्त्विति
कर्ता ब्रूयात्। अस्त्विति विप्रा ब्रूयुः। संकल्पसिद्धिरस्त्विति
भवन्तो ब्रुवन्त्विति कर्ता वदेत्। अस्तु सङ्कल्पसिद्धिरिति
विप्रा वदेयुः॥
इति स्मृतिचन्द्रिकायां अर्घ्याद्युपचारविधिः.
श्राद्धकाण्डे अग्नौकरणविधिः. 317
अथाग्नौकरणविधिः.
तत्र कात्यायनः—
गन्धान् ब्राह्मणसात्कृत्वा पुष्पाण्यृतुभवानि च ।
धूपं चैवानुपूर्वेण अग्नौ कुर्यादतःपरम् ॥
ऋतुभवानि पुष्पाणि स्वोद्भवकालत्वेन प्रसिद्धवसन्तादि-
कालप्रभवानि । चशब्दोऽनुक्तसमुच्चयार्थः । एवञ्चायमर्थः—
गन्धपुष्पालङ्कारधूपाच्छादनानि ब्राह्मणार्थानि कृत्वाऽनन्तरम-
ग्नौकरणाख्यं कर्म कुर्यादिति । कथं कुर्यादित्यपेक्षिते हारीतः—
‘अथोद्धृतान्नः पङ्क्तिमूर्धनि सर्वान् पृच्छेदग्नौ करिष्ये’ इति ।
निगमोपि—‘अन्नमुद्धृत्याभिघार्याग्नौ करिष्य इति पृच्छति’ ।
इति । विष्णुपुराणेऽपि—
अग्नौ करिष्य इत्युक्त्वा तैरुक्तः क्रियतामिति ।
गृह्योक्तेनैव विधिना हुत्वा पात्रेषु दापयेत् ॥
हुत्वा हुतशेषं पितृब्राह्मणभाजनेषु दद्यादित्यर्थः । गृह्योक्तेनै-
वेत्येवकारो न धर्मशास्त्राद्युक्तविधिनिवृत्त्यर्थः, धर्मशास्त्रोक्तविधेर्गृ-
ह्योक्तविधेश्च परस्परापेक्षत्वात् । तेनात्रैवकारः पुराणोक्तविधि-
निवृत्त्यर्थः । अत एव गृह्योक्तविधानेनाग्नौकरणं कार्यमित्यभि-
धाय तस्मिन्नेव पुराणे गृह्येष्वनुक्तो विधिर्दर्शितः—
जुहुयाद्व्यञ्जनक्षारवर्जमन्नं ततो नरः ।
अनुज्ञातो द्विजैस्तैस्तु त्रिःकृत्वो भरतर्षभ ॥
318 स्मृतिचन्द्रिकायाम्।
इति । व्यञ्जनक्षारवर्जमन्नं हविष्यमन्नमित्यर्थः । यत्तु पुरा-
णान्तरे—
पुष्पाणां च फलानां च भक्ष्याणां च प्रयत्नतः ।
अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥
इति पित्रर्थपाकसिद्धलवणादिसंसृष्टाहविष्यहोमस्मरणं तद्येषां
गृह्येऽग्नौकरणहोमानन्तरं अहविष्यहोमान्तरममन्त्रकं कार्यमिति
विधीयते तद्विषयम् । अतो न पूर्वोक्तविरोधः । जातवेदसि
उष्णभस्मगताग्नावित्यर्थः । तथाचापस्तम्बेनाग्नौकरणाङ्गतयोक्तं
‘न क्षारलवणहोमो विद्यते तथाऽवरान्नसंस्पृष्टस्याहविष्यस्य
होमः। उदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयात्तद्धुतमहुतं चाग्नौ-
भवति’ इति । पारस्करोप्यग्नौकरणमाह—
दत्वा गन्धादि धूपांश्च सर्पिष्मद्धविरुद्धरेत् ।
पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥
इति । पैतृकैर्ब्राह्मणैरिति शेषः—
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैस्सह ।
इति मनुस्मरणात् । ब्राह्मणैः पैतृकैस्सर्वैस्सह युगपदनुज्ञात
इत्यर्थः । पितृयज्ञवज्जुहोतीत्यस्यार्थो हारीतेन प्रपञ्चितः—‘कुरु-
ष्वेत्यनुज्ञातः पूर्वोद्धृतेऽग्नौ सकृदाच्छिन्नैरुपमूललूनैः परिस्तीर्णे
समित्तन्त्रेण प्राङ्मुखो मेक्षणेनाहुतिद्वयं हुत्वा मेक्षणमग्नावेव
कुर्यात्’ इति । पूर्वोद्धृतेऽग्नौ परिस्तरणात्पूर्वमेवोद्बोधितेऽग्नौ
मूलसमीपप्रदेशे सकृदेकयत्नेन छिन्नैर्दर्भैः परिस्तीर्णे समित्तन्त्रेण
प्राङ्मुखो मेक्षणेन आहुतिद्वयार्थमेकामेव समिधमादाय मेक्ष-
णेन यज्ञियकाष्ठकृतेन आहुतिद्वयं हुत्वा अग्नावेव मेक्षणं
प्रक्षिपेदित्यर्थः । समित्तन्त्रेणेत्यनेन न पितृयज्ञधर्म उक्तः,
पितृयज्ञे समिदाधानस्याभावात् । किंत्विह धर्मान्तरमुपदिष्टम् ।
तेन सुयज्ञोप्युपदिष्टधर्माभ्यां सहातिदिष्टधर्मानाह—'परिसमूह्य
पर्युक्ष्य परिस्तीर्य दक्षिणं जान्वाच्य यज्ञोपवीती प्राङासीनो
मेक्षणेन जुहोति' इति । अत्र परिसमूहनपर्युक्षणे उपदिष्टे ।
'जुहुयात्पितृयज्ञवत्' इत्यतिदेशतः प्राप्तौ होममन्त्रौ मदाल-
सया दर्शितौ—
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ।
सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेत् ॥
वैशब्दः पादपूरणार्थत्वात्स प्रयोगकाले न प्रयोज्यः । गोवि-
लेन तु विपरीतक्रमेण पुरस्तात्स्वाहाकारौ होममन्त्रौ अग्नौक-
रणमधिकृत्योक्तौ—'मेक्षणेनोपघातं जुहुयात्स्वाहा सोमाय पितृ
मते इति प्रथमां, स्वाहाऽग्नये कव्यवाहनायेति द्वितीयां,
अत ऊर्ध्वं प्राचीनावीती' इति । होमानन्तरं प्राचीनावी-
तीत्यभिधानादर्थाद्धोमे यज्ञोपवीतीत्येवेति गम्यते । मेक्षणेनो-
पघातं मेक्षणेनावदाय जुहोतीत्यर्थः । पुराणे त्वाहुतित्रयपक्षः
स्वधानमोन्तैर्मन्त्रैरुक्तः—
अन्तर्निधाय समिधं जुहुयाज्जातवेदसि ।
अग्नये कव्यवाहनाय स्वधा नम इति ब्रुवन् ॥
320 स्मृतिचन्द्रिकायाम्
सोमाय च पितृमते स्वधा नम इति ब्रुवन् ।
यमायाङ्गिरसां पत्ये स्वधा नम इति ब्रुवन् ॥
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ।
उत्तरतोऽग्नये नित्यं सोमायेति च दक्षिणे ।
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वतः ॥
इति । अत्र निधेयायास्समिधो ग्राह्याग्राह्यत्वनिरूपणार्थमुक्तं
तत्रैव—
पलाशफल्गुन्यग्रोधप्लक्षश्वत्थविकङ्कताः ।
उदुम्बरशमीबिल्वचन्दना यज्ञियाश्च ये ॥
पनसो देवदारुश्च सालश्चखदिरस्तथा ।
समिदर्थे प्रशस्तास्स्युरेते वृक्षा विशेषतः ॥
ग्राह्याः कण्टकिनश्चैव यज्ञिया ये च केचन ।
श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ॥
नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः ।
चिरिबिल्वस्तथा टङ्कस्तिन्दुकाम्रातकौ तथा ॥
तिलवकः कोविदारश्च एते श्राद्धविगर्हिताः ।
फल्गुः काकोदुम्बरिका । एवमुक्ताहुतिसंख्याविकल्पो व्यपदे-
शादेव सिद्धः । प्रकृतौ पिण्डपितृयज्ञे पक्षद्वयमप्युक्तम् ।
तथाऽऽपस्तम्बः पिण्डपितृयज्ञमधिकृत्याह— 'अध्वर्युरुपवीती
दक्षिणं जान्वाच्य मेक्षणे उपस्तीर्य तेनावदायाभिघार्य
सोमाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ जुहोति ।
श्राद्धकाण्डे अग्नौकरणविधिः. 321
यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयां, अग्नये
कव्यवाहनाय स्वधा नम इति तृतीयां, ये मेक्षणे तण्डुला-
स्तान् हुत्वा तूष्णीं मेक्षणमादधाति न यमाय जुहोती त्येके'
इति । स्वधानमोऽन्तमन्त्राणां स्वाहाकारान्तमन्त्रैस्सह विक-
ल्पोऽपि पूर्ववदतिदेशत एव सिद्धः, प्रकृतौ द्विविधमन्त्राणाम-
विधानात् । तत्र स्वधानमोन्ता मन्त्रा आपस्तम्बेनोक्ता दर्शिताः।
स्वाहान्तमन्त्रास्तु पिण्डपितृयज्ञे साङ्ख्यायनेनोक्ताः- 'दक्षिणं
जान्वाच्य यज्ञोपवीती प्राङासीनो मेक्षणेन जुहोत्यग्नये कव्य-
वाहनाय स्वाहा सोमाय यमायाङ्गिरस्वते पितृमते स्वाहा' इति ।
सोमायेत्यत्र पितृमते स्वाहेत्यनुषज्यते । अतोऽग्नये स्वाहा सो-
माय स्वाहेति विशेषविहिताव
322
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ॥
इति । अयमर्थः—अग्नौकरणहोमप्रकृतिभूतपिण्डपितृयज्ञहोमवि-
धायकश्रुतौ ‘स उदास्याग्नौ द्वे आहुती जुहोति देवेभ्यः’
इति श्रुतेः तद्वलात्प्रकृतिदैविकधर्मवत् तद्विकृतिभूताग्नौकर-
णहोमोप्युपवीतित्वादिदैविकधर्मेण कर्तव्य इति । अत्र ‘द्वे
आहुती जुहोति’ इति विहितहोमद्वये ‘सोमाय पितृमते स्वाहाऽ-
ग्नये कव्यवाहनाय स्वाहा’ इति मन्त्रवर्णे देवतात्वेनावग-
तयोः सोमाग्न्योः चातुर्मास्यान्तर्गतपितृयज्ञवाक्यशेषादिषु क-
चित्पितृरूपेण कचिद्देवरूपेण व्यपदेशदर्शनादिह किं पितृ-
रूपयोर्देवतात्वमुत देवरूपयोरिति संदेहे देवेभ्ये इत्यनुवाद-
सरूपार्थवाददर्शनादिह देवरूपयोरेव देवतात्वमिति गम्यत
इत्यभिप्रायेण देवेभ्यो जुहोतीति श्रुतिश्रुतेरित्युक्तम् । न तु
साक्षाद्देवरूपयोरेव देवतात्वमिति श्रुतौ श्रूयत इत्याभिप्रा-
णेति मन्तव्यम् । अत एवानन्तरमपरितोषात्पक्षान्तरमुक्तं
तेनैव—
अपसव्येन वा कार्यो दक्षिणाभिमुखेन वा ।
निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते ॥
इति । अस्यार्थः—पिण्डपितृयज्ञे ‘पितृभ्यो जुष्टं निर्वपामि’
इति मन्त्रेण सकृदेव होमार्थं पितृदेवतार्थं च निर्वापः क्रियते ।
ततश्च निर्वापमन्त्रसामर्थ्यात् पितृरूपयोरेव सोमाग्न्योर्होमदे-
वतात्वमिति गम्यते । देवरूपयोस्तु देवतात्वे देवेभ्य इति
वाक्यशेषबलादाश्रियमाणे अन्यस्मै निरुप्तमन्यस्मै हूयत
इत्युक्तं स्यात् । तस्मात्पितृरूपयोरेव देवतात्वं तेन प्रकृति-
भूतो होमः प्राचीनावीतिना दक्षिणाभिमुखेन च क्रियते इति
विकृतिभूताग्नौकरणहोमोपि प्राचीनावीतिना दक्षिणामुखेन च
कार्य इति । अयमेव पक्षश्श्रेयानिति मन्यमान आश्वलायनः
स्वमतत्वेन पिण्डपितृयज्ञहोमं पैतृकधर्मकं परमतत्वेन दैविक-
धर्मकमाह— ‘प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनावदायाव-
दानसंपदा जुहुयात्सोमाय पितृमते स्वधा नमोऽग्नये कव्यवा-
हनाय स्वधा नम इति स्वाहाकारेण वाऽग्निपूर्वं यज्ञोपवीती’
इति । एवं प्रकृतिभूतपिण्डपितृयज्ञस्योभयविधत्वेन विकल्पित-
धर्मकत्वात्तद्विकृतिभूताग्नौकरणहोमोप्यतिदेशत एव विकल्पित-
धर्मक इति यज्ञोपवीतिना प्राचीनावीतिना वा कार्यः । तत्रा-
श्वलायनगृह्यानुसारिणां पैतृकधर्मकः कार्यः । तथाच तेनैव
स्वकृतगृह्येऽभिहितम्—‘उद्धृत्यघृताक्तमन्नमनुज्ञापयत्यग्नौ करि-
ष्ये करवै करवाणीति वा । प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व
कुर्विति वा । अथाग्नौ जुहोति यथोक्तं पुरस्तात्’ इति ।
कात्यायनगृह्ये तु—‘उद्धृत्य घृताक्तमन्नं पृच्छत्याग्नौ करिष्य
इति कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञवद्धुत्वा’ इत्युक्तं, तत्र यद्यपि
पिण्डपितृयज्ञशब्देन पिण्डैस्साध्यः पितृयज्ञः पिण्डपितृयज्ञ
इति व्युत्पत्त्या पिण्डदानात्मकापितृयज्ञस्यैव नामधेयं, न तु
होमात्मकपिण्डपितृयज्ञस्येति प्रतिभाति, तथाऽपि पिण्डदाना-
त्मकपितृयज्ञस्य होमात्मकपितृयज्ञस्य च दण्डिन इतिवल्लक्षणया
नामधेयं, चातुर्मास्येषु प्रथमपर्वणि क्रियमाणानामाग्नेयादि-
सप्तयागानां वैश्वदेवयागस्य च वैश्वदेवनामधेयवत् । एवञ्च
पिण्डदानं होमश्चात्र प्रधानं, न तु पिण्डदानमेव प्रधानं हो-
मोऽङ्गम् । यत एवं होमोऽपि प्रधानं, अत एवोक्तमापस्तम्बेन-
‘यदि जीवपिता दद्यादाहोमात्कृत्वा विरमेत्’ इति । यदि
तु होमोऽङ्गं, तदा पिण्डदानाख्यप्रधाननिवृत्तौ प्रयोजकप्रधा-
नस्याभावादङ्गभूतहोमस्यापि निवृत्तेः ‘आहोमात्कृत्वा विर-
मेत्’ इति सूत्रमत्यन्तानुपपन्नं स्यात् । ततो ज्ञायते होमा-
त्मकोऽपि पितृयज्ञः प्रधानभूत इति । एवञ्च पितृयज्ञवद्धुत्वा,
इत्यस्यायमर्थः—होमात्मकपिण्डपितृयज्ञवदग्नौकरणं कुर्यादिति।
एवं वदतस्तस्य स्वकीयस्मृतौ—
प्राङ्मुखेनैव देवेभ्यो जुहोतीतिश्रुतिश्रुतेः ।
निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते ॥
इत्येताभ्यामुक्तदैविकपैतृकधर्मकपिण्डपितृयज्ञवदित्यभिप्रायः प्रत्ये-
तव्यः, पिण्डपितृयज्ञविधायकसूत्रविशेषानुक्तेः । बैजवापगृह्ये---
‘यज्ञोपवीत्यग्नौ करवाणीत्यामन्त्रयग्नौकरणम्’ इत्यभिधानात्
स्वसूत्रोक्तपिण्डपितृयज्ञवदग्नौकरणहोमो दैविकधर्मवानिति स्फु-
टम् । यत्तु याज्ञवल्केन पिण्डपितृयज्ञमनुक्तैवोक्तं—
ओं कुरुष्वेत्यनुज्ञातो हुत्वाऽग्नौ पितृयज्ञवत् ।
[Header] श्राद्धकाण्डे अग्नौकरणविधिः. 325
इति, यच्च पारस्करेण-
पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥
इति, । अत्र सर्वत्र दैविकधर्मकपितृयज्ञवादित्यर्थो ग्राह्यः 'दै-
विकधर्मकपितृयज्ञवत्' इति बहुभिस्सूत्रकारैरुक्तत्वात् । न च
बहुभिरुक्तत्वमप्रयोजकमिति वाच्यं 'भूयसां स्यात्सधर्मत्वम्'
इति जैमिनिना प्रयोजकत्वस्याभिधानात् । ननु भूयसामपि
मतं 'निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते' इति
न्यायविरुद्धत्वादप्रयोजकम् । मैवं-ते खल्वापस्तम्बादयोप्येवं
मन्यन्ते यथा दर्शयोगेनैकदेवतासम्बन्धित्वेन निरुप्तेषु शूर्प-
रूपैकस्थानगतेषु प्रोक्षितव्येषु 'अग्नये वो जुष्टं प्रोक्षामि'
इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न
सर्वेषु वर्तते । यथाच तेष्वेव व्रीहिषु 'इन्द्राग्निभ्यां वो
जुष्टं प्रोक्षामि' इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषु-
चित्पर्यवस्यति न सर्वेषु वर्तते । तथा स्थालीरूपैकस्थान-
गतेषु व्रीहिषु 'पितृभ्यो वो जुष्टं निर्वपामि' इति निर्वा-
पमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न सर्वेषु
व्रीहिषु वर्तते इति न स्थालस्थं सर्वं पितृभ्यो निरुप्तं किन्तु
तदर्धम्, तेन पितृभ्यो. निरुप्तं पितृमदन्तसोमादिभ्यो हूयते
अतो न भूयसां मतं न्यायविरुद्धमिति सर्वमनवद्यम् । तू-
ष्णीमेव सर्वनिर्वापपक्षे तु न्यायाविरोधस्सुतराम् । सोपि
पक्ष आपस्तम्बेनोक्तः -'मृण्मये निर्वपति पितृभ्यो वो जुष्टं
निर्वपामीति तूष्णीं वा' इति । भेदेन निर्वापपक्षे दूरोत्सा-
रितो न्यायविरोधः । अयं तु पक्षो वत्सेनोक्तः*— 'पवि-
त्रान्तर्हिते चरुं निर्वपति त्रिर्यज्ञोपवीती दक्षिणेन हस्तेन त्रिः
प्राचीनावीती सव्येन हस्तेन यज्ञोपवीती मेक्षणेन जुहुयात्सोमाय
पितृमते स्वधा नमो यमायाङ्गिरस्वते पितृमते स्वधा नमोऽग्नये
कव्यवाहनाय स्वधा नमः' इति । तस्मात्स्मृतिषु पितृयज्ञ-
शब्देन दैविकधर्मपितृयज्ञाभिधानं युक्तम् । यत्तु मनुनोक्तं—
अपसव्यमग्नौ कृत्वा सर्वमावृतपरिक्रमम् ।
इति । तदाश्वलायनशाखीयविषयम्—
स्वाहा स्वधा नमः सव्यमपसव्यं तथैव च ।
आहुतीनां तु या सङ्ख्या साऽवगम्या स्वसूत्रतः ॥
इति कात्यायनस्मरणात् । एवं च याऽऽपस्तम्बेनोक्ताऽऽहुतीनां
त्रयोदशसङ्ख्या साऽऽपस्तम्बसूत्रिणामित्यवगन्तव्यम् । आप-
स्तम्बेन धर्मशास्त्रसूत्रे— 'उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते ।
काममुद्ध्रियतां काममग्नौ च क्रियतामित्यतिसृष्टमुद्धरेज्जुहुयाच्च '
इत्यग्नौकरणविधानादाहुतिसङ्ख्या यद्यपि वक्तव्या । तथाऽपि
स्वकृतगृह्यसूत्रे अनूदितमन्त्रविधानमुखेनार्थादाहुतीनां त्रयोदश-
सङ्ख्या दर्शितेति तत्र सङ्ख्या नोक्तेति मन्तव्यम् । अति-
सृष्टोऽभ्यनुज्ञातः । एवंचोद्धरणप्रश्नादिकं कृत्वाऽन्नमुद्धृत्याग्नेरुप-
समाधानाद्याज्यभागान्तं कुर्यात् , आपस्तम्बीयगृह्योक्तक्रमेण
- चरकाध्वर्युसूत्रकृत् वत्स इति हेमाद्रिः,
वक्ष्यमाणतत्तत्प्रधानहोमसाधारणतया प्राच्याङ्गकलापस्य वि-
हितत्वात् । आज्यभागान्ते—' यन्मे माता' इत्यादिमन्त्रैर्जुहु-
यात् । तथा चापस्तम्बीयगृह्यसूत्रं—' अन्नस्योत्तराभिर्जुहोत्याज्या-
हुतीरुत्तराः' इति । उद्धृतस्यान्नस्य किञ्चित्काञ्चिदवदानध-
र्मेणावदाय दर्व्यां निधाय 'यन्मे माता प्रलुलोभ चरति, यास्ति-
ष्ठन्ति' इति द्वाभ्यां ऋग्भ्यां अमुष्मै स्वाहेत्यन्ताभ्यां अमुष्मा
इत्यत्र चतुर्थ्यन्ततया पितुर्नाम गृहीत्वा द्वे आहुती जुहोति ।
एवमेव 'यन्मे पितामही प्रलुलोभ चरति, अन्तर्दधे पर्वतैः' इति
द्वाभ्यामृग्भ्याममुष्मै स्वाहेत्यन्ताभ्यां अमुष्मा इत्यत्र चतुर्थ्यन्ततया
पितामहस्य नाम गृहीत्वा द्वे आहुती जुहोति । एवमेव 'यन्मे
प्रपितामही प्रलुलोभ चरति, अन्तर्दधे ऋतुभिः' इति द्वाभ्यां
अमुष्मै स्वाहेत्यन्ताभ्यां अमुष्मा इत्यत्र चतुर्थ्यन्ततया प्रपिता-
महस्य नाम गृहीत्वा द्वे आहुती जुहोति । 'यन्मे मातामही
प्रलुलोभ चरति, यास्तिष्ठन्ति' इति द्वाभ्यां मातामहाय द्वे
आहुती जुहोति । 'यन्मेमातुः पितामही प्रलुलोभ चरति, अन्तर्दधे
पर्वतैः' इति द्वाभ्यां मातुःपितामहाय द्वे आहुती जुहोति । 'यन्मे
मातुःप्रपितामही प्रलुलोभ चरति, अन्तर्दधे ऋतुभिः' इति
द्वाभ्यां मातुः प्रपितामहाय द्वे आहुती जुहोतिं । अत्र प्रथ-
ममन्त्रे यन्मे मातामही प्रलुलोभ चरति............तन्मे
रेतो मातामहो वृङ्क्तामित्यूहः कार्यः । द्वितीये मन्त्रे अन्तरन्यं
मातामहाद्दध इत्यूहः । मन्त्रद्वयेऽप्यमुष्मा इत्यत्र मातामहस्य
328 स्मृतिचन्द्रिकायां
चतुर्थ्यन्ततया नामग्रहणं कार्यम् । तृतीये मन्त्रे यन्मे मातुः
पितामही प्रलुलोभ चरति ........तन्मे मातुः पितामहो वृङ्क्तामि-
त्यूहः । चतुर्थे मन्त्रे मातुः पितामहाध्व इत्यूहः । मन्त्रद्वयेऽ-
प्यमुष्मा इत्यत्र मातुः पितामहनामग्रहणं कार्यम् । पञ्चमे मन्त्रे
यन्मे मातुः प्रपितामही प्रलुलोभ चरति........तन्मे मातुः प्रपिता-
महो वृङ्क्तामित्यूहः । षष्ठे मन्त्रे अन्तरन्यंमातुः प्रपितामहाध्व
इत्यूहः । मन्त्रद्वयेऽप्यमुष्मा इत्यत्र मातुः प्रपितामहनामग्रहणं
कार्यम् ,
योज्याः पित्रादिशब्दानां स्थाने मातामहादिकाः ।
अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके ॥
यन्मे मातामहीत्यादि तत्रोदाहरणं भवेत् ।
इति गृह्यभाष्यार्थसङ्ग्रहकारेणोक्तत्वात् । स्पर्शे ‘ एष ते तत
मधुमानूर्मिस्सरस्वान्’ इत्यादिमन्त्रत्रयेण ब्राह्मणभोजनार्थान्न-
स्पर्शे । ततः पूर्ववदवदाय ‘ये चेह पितरः’ इत्यृचा एकामा-
हुतिं जुहोति एवमन्नाहुतीर्हुत्वा षडाज्याहुतीर्जुहोति — तत्र
‘स्वाहा पित्रे’ इति पुरस्तात्स्वाहाहुतिं जुहोति । उपरिष्टात्स्वा-
हाकारेण द्वितीयाम् । एताभ्यामेव मन्त्राभ्यां तृतीयां चतु
र्थीमाहुतिं हुत्वा स्वधा स्वाहेति पञ्चमीं जुहोत्यग्नये कव्यवा-
हनाय स्वाहेति . षष्ठीं ततस्स्विष्टकृतं हुत्वा भक्ष्यभोज्यंसर्व-
विधाहविष्यान्नात्किंचिदादायोदीचीनं भस्मापोह्य तस्मिन्नुष्णे
भस्मनि तूष्णीं जुहोति । ततो लेपयोः प्रस्तरवत्तूष्णीं बर्हि-
श्राद्धकाण्डे अग्नौकरणविधिः. 329
रक्ताऽग्नौ प्रहरतीत्यादि परिषेचनान्तं पाश्चात्याङ्गकलापमाग्नेय-
स्थालीपाकोक्तं कृत्वा हुतशेषं ब्राह्मणभोजनपात्रेषु निदध्यात् ।
एतत्सर्वं तद्भाष्यार्थसङ्ग्रहकारेणोक्तं—
अग्नीन्धनादि प्रतिपद्य कर्म कृत्वाऽऽज्यभागान्तमथावदाय ।
यन्मेति मन्त्रैः प्रतिमन्त्रमग्नौ कुर्युस्तथा सप्तभिरन्नहोमान् ॥
स्वाहादिमन्त्रैरपि सर्पिषा स्युर्होमास्ततास्स्विष्टकृतं च हुत्वा ।
भस्माप्यपोह्याहविरन्नहोमो लेपेषु दर्व्योश्च समञ्जनादि ॥
शेषं च कृत्वा परिषेचनान्तं पात्रेषु दद्याद्धुतशेषमन्नम् ॥
इति । सप्तभिरन्नहोमा इत्यनूहितमन्त्राभिप्रायोक्तं, ऊहितमन्त्र-
साहित्ये त्रयोदशसङ्ख्यासम्पत्तेस्सप्तभिरित्ययोगात् । एवमेत
दग्नौकरणं प्राचीनावीतिना कार्यं, पैतृकत्वात् । तथाचा-
पस्तम्बेन स्वकृतगृह्यशास्त्रादावुक्तं—' अपरपक्षे पित्र्याणि प्राची-
नावीतिना प्रसव्यं दक्षिणतोपवर्गः ' इति । तत्रापि यदपैतृक-
माघारसमिन्धनादिकं तत् यज्ञोपवीतिना कार्यं, अत एव
भाष्यार्थसङ्ग्रहकारेणोक्तं—
आघारदार्वग्निमुखाज्यभागप्रदक्षिणानुव्रजनेषु तद्वत् ।
आघारयोस्स्विष्टकृति प्रदिष्टं यज्ञोपवीतं हि कपर्दिनास्यात्॥
इति स्मृतिचन्द्रिकाया अग्नौकरणविधिः.
SMRITI CHA.—VOL. V. 42
अथोभयविधाग्नौकरणार्थाग्निर्निर्णयः.
तत्र याज्ञवल्क्यः—
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वाऽपि श्रौतं वैतानिकाग्निषु ॥
स्मार्तं कर्म औपासनहोमवैश्वदेवकरणाग्नौकरणादिकम् । विवा-
हाग्नौ विवाहकालोत्पन्नौपासनाग्नौ । दायकालाहृते दायकाले
वैश्यादिकुलादाहृत्योत्पादिते औपासनाग्नौ कुर्वीतेत्यर्थः । स-
र्वाधाने औपासनासम्भवे त्वापस्तम्बोक्ताग्नौकरणहोमस्य लोपः,
न तु वैतानिकाग्नावनुष्ठानं, 'श्रौतं वैतानिकाग्निषु' इत्यभि-
धानात् । न तु लौकिके, देवतादेरिवाग्नेरपि प्रतिनिध्यभा-
वात् । अत एव सर्वाधानेनौपासनासम्भवे धूर्तस्वामिनोक्तं—
'श्राद्धमूर्ध्वं होमात्कर्तव्यं ब्राह्मणस्त्वाहवनीयार्थे इति तस्यापि
प्रधान
331
दक्षिणाग्निप्राप्तिरिति सर्वाधाने धूर्तस्वाम्युक्ताग्नौकरणाभाव एव
युक्तः। पूर्वोक्ताभिप्रायेण वायुपुराणेऽप्युक्तं—
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः।
अग्न्यर्थं लौकिकं वाऽपि जुहुयात्कर्मसिद्धये ॥
इति। अस्यार्थः—अग्नौकरणहोमार्थं गृह्याग्न्यभावे दक्षिणाग्निं
लौकिकं वाऽप्याहृत्य स्वीकृत्य होमकर्मसिद्धये जुहुयादिति।
अग्न्यर्थमित्यनेन गृह्याग्निभावे तु नाग्न्यन्तरस्वीकार इत्यर्थादुक्तम्।
तत्र दक्षिणाग्निपक्षस्य प्रवासादिना असम्भवे लौकिकाग्नि-
पक्षः, तस्योपदेशातिदेशरूपप्रमाणद्वयावगतस्य दक्षिणाग्नि-
बाधकत्वेनागत्याऽऽश्रयणीयत्वात्। अत एव प्रयत्नतो दक्षिणा-
ग्निमाहृत्येत्युक्तम्। यत्तु स्मृत्यन्तरं—
साग्निरग्नावनाग्निस्तु द्विजपाणावथाप्सु वा।
कुर्यादग्नौ क्रियां नित्यं लौकिके नेति निश्चितम् ॥
इति। तस्यायमर्थः—अग्निमान्पुरुषः औपासनाग्नौ दक्षिणाग्नौ
वा पूर्वोक्तव्यवस्थयाऽग्नौकरणं कुर्यात्। दायात्प्रागस्वीकृतौ-
पासनतया छिन्नाग्नितया वा भार्याविधुरतया वा योऽग्निरहितः
स द्विजपाणावप्सु वाऽग्नौकरणं कुर्यात्, न जातु लौकिकाग्नौ
कुर्यादिति। ततश्च न वायुपुराणवचनविरोधः। श्रौताग्निना
साग्निकस्याप्यनग्निकवत्क्वचिद्विषये द्विजपाणावग्नौकरणं कार्यम्।
तथाच स्मृत्यन्तरं—
हस्तेऽग्नौकरणं कुर्यादग्नौ वा साग्निको द्विजः।
332 स्मृतिचन्द्रिकायां
इति । अत्राग्निशब्देन न गृह्याग्निरुच्यते । तस्मिन् विद्यमाने
हस्तपक्षानवकाशात् । तेन श्रौताग्निरुच्यते लौकिको वा ।
साग्निकशब्देन सर्वाधान्येवोच्यते । ततश्चायमर्थः—सर्वाधानेनौ
पासनाग्न्यभावे पितृयज्ञधर्मकाग्नौकरणं दक्षिणाग्नौ, तदसं
निधाने लौकिकाग्नौ द्विजपाणौ वा कुर्यादिति । अत्रापि
प्रवासादिना दक्षिणाग्न्यभावे लौकिकाग्निहस्तपक्षौ पूर्वोक्त-
न्यायवदवगन्तव्यौ । लौकिकाग्नेस्तादृशविशेषानवगमात्पाणिना
सह समाविकल्प एव । यद्यपि न्यायतोऽग्नेः प्रतिनिध्यभावः;
तथाऽपि न प्रतिनिधिन्यायेनात्र दक्षिणाग्न्यादेरुपादानम् ।
किंतु गृह्याग्न्यभावेन तत्साध्यकर्मणोऽननुष्ठाने प्राप्ते वचनेना-
गृह्याग्न्यादावपि गृह्याग्निसাধ্যं कर्म विधीयत इति न कश्चिद्दोषः ।
एवंचानाहिताग्नेरौपासनवदाहिताग्नेरप्यर्धाधानिनः उभयविधा-
ग्नौकरणहोमः औपासन एव । सर्वाधानेनौपासनरहितस्याहिता-
ग्नेरापस्तम्बोक्ताग्नौकरणाभाव एव । पिण्डपितृयज्ञधर्मकाग्नौ
करणस्य तु दक्षिणाग्नौ, तदसंनिधौ लौकिकाग्नौ द्विजपाणौ
वाऽनुष्ठानम् । अनाग्निकस्य द्विजपाणावप्सु वा उभयविधमग्नौ-
करणमिति सिद्धम् । अनाहिताग्नेरौपासनवदाहिताग्नेरर्धाधाने-
नौपासनवतः प्रवासादिना कथंचिदौपासनासंनिधाने द्वि-
जपाणावप्सु वाऽग्नौकरणं कर्तव्यम् । तथाच विष्णुधर्मोत्तरे
मार्कण्डेयः—
अनाहिताग्निश्चौपसदेऽग्न्यभावे द्विजेऽप्सु वा ।
इति । औपसदो गृह्याग्निः । अनाहिताग्निश्चेति चशब्द आ-
हिताग्नेस्समुच्चयार्थः । ततश्चायमर्थः— अनाहिताग्निराहिताग्नि-
श्चार्धाधानेनौपासनवान् गृह्याग्निसंनिधौ तत्रैवाग्नौकरणं कुर्यात् ।
अग्न्यभावे गृह्याग्नेरसन्निधानेऽप्सु द्विजपाणौ वाऽग्नौकरणं कु-
र्यादिति। अत्राप्स्विति पक्षस्य विषयविशेषः कात्यायनेन दर्शितः—
अग्नौकरणहोमं तु कुर्यादप्स्विति यन्मतम् ।
स यदाऽपां समीपे स्यात् श्राद्धं ज्ञेयो विधिस्तदा ॥
एवंचापां समीपादन्यत्र यदा श्राद्धं तदैव द्विजपाणाविति
पक्षो ग्राह्यः । अयं च विषयविभागः ‘अनग्निस्तु द्विजपा-
णावथाप्सु वा’ इत्यत्रापि द्रष्टव्यः, विष्णुधर्मोत्तरे मार्कण्डेय
इत्युक्तस्मृत्यन्तरविवक्षायां कारणाभावात् । यत्तु मनुनोक्तं—
अग्न्यभावे तु विप्रस्य पाणावेवोपसादयेत् ।
इति, तत् भार्यापरिग्रहात् पूर्वमनुष्ठेयनित्यनैमित्तिकश्राद्धविष-
यम् । अयमेव विषयो जातूकर्णेन स्पष्टीकृतः—
अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे ।
अग्न्यभावः स्मृतस्तावद्यावद्भार्यां न विन्दति ॥
इति । दक्षिणे पाणौ दद्यात् उभयविधाग्नौकरणाहुत्यर्थमन्नमिति
शेषः । यत्तु गृह्यपरिशिष्टकारेणोक्तं—
अन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम् ।
काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥
334 स्मृतिचन्द्रिकायां
चतुर्ष्वाद्येषु साग्नीनामग्नौ होमो विधीयते ।
पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपि ॥
इति, ‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः’ इति
विहितान्यष्टकाश्राद्धानि । तत्र अष्टकाश्राद्धदिनादुत्तरदिने नव-
म्यां क्रियमाणं श्राद्धमन्वष्टक्यं, पूर्वेऽह्नि सप्तम्यां क्रियमाणं
श्राद्धं पूर्वेद्युरिति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाण-
मापरपक्षिकं श्राद्धं मासिमासीत्यनेनोक्तम् । पार्वणं सर्वश्राद्ध-
प्रकृतिभूतं दर्शश्राद्धम् । काम्यं पुत्रादिकामनया क्रियमाणं
श्राद्धम् । आभ्युदयिकं श्राद्धमभ्युदयपदेनोक्तम् । अष्टकाख्यं
श्राद्धं अष्टम्यामिति पदेनोक्तम् । एकोद्दिष्टमिति पदेन सपि-
ण्डीकरणं लक्षणयोक्तं, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भा-
वात् । एषां मध्ये आद्येषु चतुर्षु साग्निकानामग्नावेवाग्नौकर-
णहोमः । उत्तरेषु तु साग्नीनां पित्र्यब्राह्मणहस्त एवेति
तस्यार्थः । तदेतत् येषां गृह्यपरिशिष्टं तेषामेव व्यवस्थापकं
न सर्वेषाम् । अतो न पूर्वोक्तव्यवस्थाविरोध इति सर्वमन-
वद्यम् । यदा तु पाणिहोमपक्षः तदैकस्यैव विप्रस्य पाणौ
होमो न सर्वविप्राणामित्याह कात्यायनः-
पित्र्ये यः पङ्क्तिमूर्धन्यः तस्य पाणावनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥
इति । पित्र्यप्रथमब्राह्मणपाणौ होमोऽयं न नित्यः,
दैवविप्रकरेऽनाग्निः कृत्वाऽग्नौकरणं द्विजः ।