स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 352, कुल 474 में से
संदर्भ में पढ़ें332 स्मृतिचन्द्रिकायां
इति । अत्राग्निशब्देन न गृह्याग्निरुच्यते । तस्मिन् विद्यमाने
हस्तपक्षानवकाशात् । तेन श्रौताग्निरुच्यते लौकिको वा ।
साग्निकशब्देन सर्वाधान्येवोच्यते । ततश्चायमर्थः—सर्वाधानेनौ
पासनाग्न्यभावे पितृयज्ञधर्मकाग्नौकरणं दक्षिणाग्नौ, तदसं
निधाने लौकिकाग्नौ द्विजपाणौ वा कुर्यादिति । अत्रापि
प्रवासादिना दक्षिणाग्न्यभावे लौकिकाग्निहस्तपक्षौ पूर्वोक्त-
न्यायवदवगन्तव्यौ । लौकिकाग्नेस्तादृशविशेषानवगमात्पाणिना
सह समाविकल्प एव । यद्यपि न्यायतोऽग्नेः प्रतिनिध्यभावः;
तथाऽपि न प्रतिनिधिन्यायेनात्र दक्षिणाग्न्यादेरुपादानम् ।
किंतु गृह्याग्न्यभावेन तत्साध्यकर्मणोऽननुष्ठाने प्राप्ते वचनेना-
गृह्याग्न्यादावपि गृह्याग्निसাধ্যं कर्म विधीयत इति न कश्चिद्दोषः ।
एवंचानाहिताग्नेरौपासनवदाहिताग्नेरप्यर्धाधानिनः उभयविधा-
ग्नौकरणहोमः औपासन एव । सर्वाधानेनौपासनरहितस्याहिता-
ग्नेरापस्तम्बोक्ताग्नौकरणाभाव एव । पिण्डपितृयज्ञधर्मकाग्नौ
करणस्य तु दक्षिणाग्नौ, तदसंनिधौ लौकिकाग्नौ द्विजपाणौ
वाऽनुष्ठानम् । अनाग्निकस्य द्विजपाणावप्सु वा उभयविधमग्नौ-
करणमिति सिद्धम् । अनाहिताग्नेरौपासनवदाहिताग्नेरर्धाधाने-
नौपासनवतः प्रवासादिना कथंचिदौपासनासंनिधाने द्वि-
जपाणावप्सु वाऽग्नौकरणं कर्तव्यम् । तथाच विष्णुधर्मोत्तरे
मार्कण्डेयः—
अनाहिताग्निश्चौपसदेऽग्न्यभावे द्विजेऽप्सु वा ।