सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 338, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 338

318 स्मृतिचन्द्रिकायाम्।
इति । व्यञ्जनक्षारवर्जमन्नं हविष्यमन्नमित्यर्थः । यत्तु पुरा-
णान्तरे—
पुष्पाणां च फलानां च भक्ष्याणां च प्रयत्नतः ।
अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥
इति पित्रर्थपाकसिद्धलवणादिसंसृष्टाहविष्यहोमस्मरणं तद्येषां
गृह्येऽग्नौकरणहोमानन्तरं अहविष्यहोमान्तरममन्त्रकं कार्यमिति
विधीयते तद्विषयम् । अतो न पूर्वोक्तविरोधः । जातवेदसि
उष्णभस्मगताग्नावित्यर्थः । तथाचापस्तम्बेनाग्नौकरणाङ्गतयोक्तं
‘न क्षारलवणहोमो विद्यते तथाऽवरान्नसंस्पृष्टस्याहविष्यस्य
होमः। उदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयात्तद्धुतमहुतं चाग्नौ-
भवति’ इति । पारस्करोप्यग्नौकरणमाह—
दत्वा गन्धादि धूपांश्च सर्पिष्मद्धविरुद्धरेत् ।
पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥
इति । पैतृकैर्ब्राह्मणैरिति शेषः—
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैस्सह ।
इति मनुस्मरणात् । ब्राह्मणैः पैतृकैस्सर्वैस्सह युगपदनुज्ञात
इत्यर्थः । पितृयज्ञवज्जुहोतीत्यस्यार्थो हारीतेन प्रपञ्चितः—‘कुरु-
ष्वेत्यनुज्ञातः पूर्वोद्धृतेऽग्नौ सकृदाच्छिन्नैरुपमूललूनैः परिस्तीर्णे
समित्तन्त्रेण प्राङ्मुखो मेक्षणेनाहुतिद्वयं हुत्वा मेक्षणमग्नावेव
कुर्यात्’ इति । पूर्वोद्धृतेऽग्नौ परिस्तरणात्पूर्वमेवोद्बोधितेऽग्नौ
मूलसमीपप्रदेशे सकृदेकयत्नेन छिन्नैर्दर्भैः परिस्तीर्णे समित्तन्त्रेण