स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 336, कुल 474 में से
संदर्भ में पढ़ेंइति। धूरसीत्यनेन सहास्य विकल्पो वेदितव्यः। अत्रापि मन्त्रान्ते
नामगोत्रग्रहणपूर्वकमयं वो धूप इति धूपो देयः। हस्तवात-
प्रापितो धूपो न विप्रेण सेव्यः तस्य निषेधात्। शातातपः-
हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः।
वृथा भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ॥
दीपे तु विशेषमाह मरीचिः-
घृताद्वा तिलतैलाद्वा नान्यद्रव्यात्तु दीपकम्।
इति। आच्छादने मन्त्रमाच्छादनाभावे तत्प्रतिनिधिं चाह
शातातपः- 'युवा सुवासा इति वस्त्रं दद्यात्तदभावे यज्ञो-
पवीतम्' इति। अत्रापि मन्त्रान्ते नामगोत्रग्रहणपूर्वकं इदं
व आच्छादनमिदं वो यज्ञोपवीतमिति वा उक्त्वा आच्छादनं
यज्ञोपवीतं वा देयम्। अन्यान्यपि ग्राह्यवर्जनीयगन्धपुष्पधूप-
दीपाच्छादनविषयाणि स्मृत्यन्तरवचनानि सन्ति, तानि चा-
स्माभिः श्राद्धाङ्गद्रव्योपकल्पनप्रकरणे लिखितानीहाप्यनुसन्धे-
यानि। एवं मातामहादीनामपि गन्धपुष्पादिदानं नामगोत्र-
सहितं पदार्थानुसमयेन कार्यं, 'मातामहानामप्येवम्' इत्यतिदेश-
स्मरणात्। मातुःप्रपितामहाच्छादनानन्तरं अर्चनं पूर्णमस्त्विति
कर्ता ब्रूयात्। अस्त्विति विप्रा ब्रूयुः। संकल्पसिद्धिरस्त्विति
भवन्तो ब्रुवन्त्विति कर्ता वदेत्। अस्तु सङ्कल्पसिद्धिरिति
विप्रा वदेयुः॥
इति स्मृतिचन्द्रिकायां अर्घ्याद्युपचारविधिः.