स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 342, कुल 474 में से
संदर्भ में पढ़ें322
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ॥
इति । अयमर्थः—अग्नौकरणहोमप्रकृतिभूतपिण्डपितृयज्ञहोमवि-
धायकश्रुतौ ‘स उदास्याग्नौ द्वे आहुती जुहोति देवेभ्यः’
इति श्रुतेः तद्वलात्प्रकृतिदैविकधर्मवत् तद्विकृतिभूताग्नौकर-
णहोमोप्युपवीतित्वादिदैविकधर्मेण कर्तव्य इति । अत्र ‘द्वे
आहुती जुहोति’ इति विहितहोमद्वये ‘सोमाय पितृमते स्वाहाऽ-
ग्नये कव्यवाहनाय स्वाहा’ इति मन्त्रवर्णे देवतात्वेनावग-
तयोः सोमाग्न्योः चातुर्मास्यान्तर्गतपितृयज्ञवाक्यशेषादिषु क-
चित्पितृरूपेण कचिद्देवरूपेण व्यपदेशदर्शनादिह किं पितृ-
रूपयोर्देवतात्वमुत देवरूपयोरिति संदेहे देवेभ्ये इत्यनुवाद-
सरूपार्थवाददर्शनादिह देवरूपयोरेव देवतात्वमिति गम्यत
इत्यभिप्रायेण देवेभ्यो जुहोतीति श्रुतिश्रुतेरित्युक्तम् । न तु
साक्षाद्देवरूपयोरेव देवतात्वमिति श्रुतौ श्रूयत इत्याभिप्रा-
णेति मन्तव्यम् । अत एवानन्तरमपरितोषात्पक्षान्तरमुक्तं
तेनैव—
अपसव्येन वा कार्यो दक्षिणाभिमुखेन वा ।
निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते ॥
इति । अस्यार्थः—पिण्डपितृयज्ञे ‘पितृभ्यो जुष्टं निर्वपामि’
इति मन्त्रेण सकृदेव होमार्थं पितृदेवतार्थं च निर्वापः क्रियते ।
ततश्च निर्वापमन्त्रसामर्थ्यात् पितृरूपयोरेव सोमाग्न्योर्होमदे-
वतात्वमिति गम्यते । देवरूपयोस्तु देवतात्वे देवेभ्य इति