स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 345, कुल 474 में से
संदर्भ में पढ़ें[Header] श्राद्धकाण्डे अग्नौकरणविधिः. 325
इति, यच्च पारस्करेण-
पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥
इति, । अत्र सर्वत्र दैविकधर्मकपितृयज्ञवादित्यर्थो ग्राह्यः 'दै-
विकधर्मकपितृयज्ञवत्' इति बहुभिस्सूत्रकारैरुक्तत्वात् । न च
बहुभिरुक्तत्वमप्रयोजकमिति वाच्यं 'भूयसां स्यात्सधर्मत्वम्'
इति जैमिनिना प्रयोजकत्वस्याभिधानात् । ननु भूयसामपि
मतं 'निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते' इति
न्यायविरुद्धत्वादप्रयोजकम् । मैवं-ते खल्वापस्तम्बादयोप्येवं
मन्यन्ते यथा दर्शयोगेनैकदेवतासम्बन्धित्वेन निरुप्तेषु शूर्प-
रूपैकस्थानगतेषु प्रोक्षितव्येषु 'अग्नये वो जुष्टं प्रोक्षामि'
इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न
सर्वेषु वर्तते । यथाच तेष्वेव व्रीहिषु 'इन्द्राग्निभ्यां वो
जुष्टं प्रोक्षामि' इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषु-
चित्पर्यवस्यति न सर्वेषु वर्तते । तथा स्थालीरूपैकस्थान-
गतेषु व्रीहिषु 'पितृभ्यो वो जुष्टं निर्वपामि' इति निर्वा-
पमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न सर्वेषु
व्रीहिषु वर्तते इति न स्थालस्थं सर्वं पितृभ्यो निरुप्तं किन्तु
तदर्धम्, तेन पितृभ्यो. निरुप्तं पितृमदन्तसोमादिभ्यो हूयते
अतो न भूयसां मतं न्यायविरुद्धमिति सर्वमनवद्यम् । तू-
ष्णीमेव सर्वनिर्वापपक्षे तु न्यायाविरोधस्सुतराम् । सोपि
पक्ष आपस्तम्बेनोक्तः -'मृण्मये निर्वपति पितृभ्यो वो जुष्टं