सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 339, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 339

प्राङ्मुखो मेक्षणेन आहुतिद्वयार्थमेकामेव समिधमादाय मेक्ष-
णेन यज्ञियकाष्ठकृतेन आहुतिद्वयं हुत्वा अग्नावेव मेक्षणं
प्रक्षिपेदित्यर्थः । समित्तन्त्रेणेत्यनेन न पितृयज्ञधर्म उक्तः,
पितृयज्ञे समिदाधानस्याभावात् । किंत्विह धर्मान्तरमुपदिष्टम् ।
तेन सुयज्ञोप्युपदिष्टधर्माभ्यां सहातिदिष्टधर्मानाह—'परिसमूह्य
पर्युक्ष्य परिस्तीर्य दक्षिणं जान्वाच्य यज्ञोपवीती प्राङासीनो
मेक्षणेन जुहोति' इति । अत्र परिसमूहनपर्युक्षणे उपदिष्टे ।
'जुहुयात्पितृयज्ञवत्' इत्यतिदेशतः प्राप्तौ होममन्त्रौ मदाल-
सया दर्शितौ—
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ।
सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेत् ॥
वैशब्दः पादपूरणार्थत्वात्स प्रयोगकाले न प्रयोज्यः । गोवि-
लेन तु विपरीतक्रमेण पुरस्तात्स्वाहाकारौ होममन्त्रौ अग्नौक-
रणमधिकृत्योक्तौ—'मेक्षणेनोपघातं जुहुयात्स्वाहा सोमाय पितृ
मते इति प्रथमां, स्वाहाऽग्नये कव्यवाहनायेति द्वितीयां,
अत ऊर्ध्वं प्राचीनावीती' इति । होमानन्तरं प्राचीनावी-
तीत्यभिधानादर्थाद्धोमे यज्ञोपवीतीत्येवेति गम्यते । मेक्षणेनो-
पघातं मेक्षणेनावदाय जुहोतीत्यर्थः । पुराणे त्वाहुतित्रयपक्षः
स्वधानमोन्तैर्मन्त्रैरुक्तः—
अन्तर्निधाय समिधं जुहुयाज्जातवेदसि ।
अग्नये कव्यवाहनाय स्वधा नम इति ब्रुवन् ॥