स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 354, कुल 474 में से
संदर्भ में पढ़ें334 स्मृतिचन्द्रिकायां
चतुर्ष्वाद्येषु साग्नीनामग्नौ होमो विधीयते ।
पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपि ॥
इति, ‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः’ इति
विहितान्यष्टकाश्राद्धानि । तत्र अष्टकाश्राद्धदिनादुत्तरदिने नव-
म्यां क्रियमाणं श्राद्धमन्वष्टक्यं, पूर्वेऽह्नि सप्तम्यां क्रियमाणं
श्राद्धं पूर्वेद्युरिति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाण-
मापरपक्षिकं श्राद्धं मासिमासीत्यनेनोक्तम् । पार्वणं सर्वश्राद्ध-
प्रकृतिभूतं दर्शश्राद्धम् । काम्यं पुत्रादिकामनया क्रियमाणं
श्राद्धम् । आभ्युदयिकं श्राद्धमभ्युदयपदेनोक्तम् । अष्टकाख्यं
श्राद्धं अष्टम्यामिति पदेनोक्तम् । एकोद्दिष्टमिति पदेन सपि-
ण्डीकरणं लक्षणयोक्तं, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भा-
वात् । एषां मध्ये आद्येषु चतुर्षु साग्निकानामग्नावेवाग्नौकर-
णहोमः । उत्तरेषु तु साग्नीनां पित्र्यब्राह्मणहस्त एवेति
तस्यार्थः । तदेतत् येषां गृह्यपरिशिष्टं तेषामेव व्यवस्थापकं
न सर्वेषाम् । अतो न पूर्वोक्तव्यवस्थाविरोध इति सर्वमन-
वद्यम् । यदा तु पाणिहोमपक्षः तदैकस्यैव विप्रस्य पाणौ
होमो न सर्वविप्राणामित्याह कात्यायनः-
पित्र्ये यः पङ्क्तिमूर्धन्यः तस्य पाणावनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥
इति । पित्र्यप्रथमब्राह्मणपाणौ होमोऽयं न नित्यः,
दैवविप्रकरेऽनाग्निः कृत्वाऽग्नौकरणं द्विजः ।