सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

तृतीयः खण्डः
अथेदानीमौदुम्बरी सविशेषा निरूप्यते । तत्र औदुम्बर्या उच्छ्रयणं
विधातुं प्रशंसति—
प्रजापतिर्देवेभ्य औदुम्बरीमुच्छ्रयति । असुषिरमूला-
मग्रन्थि पृथुबुध्नामेकजाम् ॥ १ ॥
पुरा प्रजापतिर्देवेभ्यः स्वीये यागे असुषिरमूलाम् अच्छिद्रमूलाम्
अग्रन्थिं ग्रन्थिरहितां पृथुबुध्नां स्थूलमूलाम् एकजाम् अनेकशाखारहिताम्
औदुम्बरीमुच्छ्रयति । अत एतादृगौदुम्बर्या उच्छ्रयणं प्रशस्तमित्यर्थः ॥ १ ॥
कियत्परिमाणमौदुम्बर्या इत्यत्राह —
यजमानमात्र्यौदुम्बरी भवति ॥ २ ॥
औदुम्बरी यजमानसंमिता भवतीत्यर्थः । तथा च श्रुत्यन्तरम्—
यजमानेन संमितौदुम्बरी भवति (तै. सं ६. २. १०. ३) इति ॥ २ ॥
यदि कुब्जादयो यजमानास्तदा कथमित्याशङ्क्याह—
अथ कुब्जवामना यजमाना ह्रस्वाश्चोर्ध्वबाहवः
प्रच्छेदं कुर्युः ॥ ३ ॥
2. M. ०शेषं for ०शेषा.
8. JM. ०दृगौ० for ०दृशौ०.
9. MTK. यत् for कियत् ; MTK. om. अत्र.
13. RI. यथा for यदि; JT. तथा for तदा.
14. M. कुब्जा for कुब्ज०.
15. MTK. कुर्यात् for कुर्युः.

अथ यदि कुब्ज[वामनाः] यजमानाः । कुब्जो नाम कुण्ह्रस्वः ।
वामनो नाम अतिह्रस्वसर्वोङ्गः । ह्रस्वाश्च, ह्रस्वो नाम शास्त्रोक्तप्रमाणापेक्षया,
भवेयुस्तर्हि ऊर्ध्वबाहवः स्युः । तैरूर्ध्वबाहुभिः औदुम्बरीं संमाय तस्याः
प्रच्छेदनं कुर्यात्(र्युः ?) ॥ ३ ॥
प्रश्नपूर्वकमौदुम्बर्या यागविशेषे छदनसंख्याविशेषं दर्शयति—
कतिच्छदनौदुम्बरी भवति ? नवच्छदनाग्निष्टोम-
साद्यस्केषु । एकादश वैश्यस्तोमातिरात्रपौण्डरीकेषु । सप्तदश
वाजपेयाप्तोर्याम्णोः । एकविंशत्यश्वमेधे । अष्टाचत्वारिंश[मि]तं
पुरुषमेधे । अपरि मितं सर्वमेधे ॥ ४ ॥
औदुम्बरी कतिच्छदना भवतीति प्रश्नः । अथोत्तरम् । अग्निष्टोम-
साद्यस्केषु यागेषु । औदुम्बरी नवच्छदना भवतीति । वैश्यस्तोमाद्याख्येषु
त्रिषु औदुम्बर्याः छदनानि एकादश कुर्यात् । एवमन्यदपि व्याख्येयम् ॥ ४ ॥
इदानीमौदुम्बर्या उच्छ्रयणं विधत्ते—
य एवं वेद यदौदुम्बरीमुच्छ्रयत्यपचिति-
मेवाप्नोति ॥ ५ ॥
यः पुमानेवम् ओदुम्बरीधर्म्मान् वेद । विदित्वा च यथोक्तामौदुम्बरीं
यत् यदोच्छ्रयति तदा अपचितिं पूजाम् आप्नोति ॥ ५ ॥

  1. RI. कुब्जा, MK. कुब्जो, T. कुब्ज for कुब्जवामनाः See CN.
    M. यजमानः for यजमानाः J. om. कुब्जो...०पेक्षया ; T. कुब्जा for कुब्जो;
    TK. om. कुण०....०पेक्षया.
  2. TK. ०बाहुरजस्यु for ०बाहवः स्युः ; TK. संगाय, M. संभाव्य
    for संमाय.
  3. JMT. विशेषेण, K. विशेष० for विशेषे.
  4. MK. चत्वारिंशं for चत्वारिंश[मि]तं.
  5. J. अर्थः for प्रश्नः.
  6. RI. om. यागेषु, J. यज्ञेषु for यागेषु.
  7. J. अदुम्बर्युच्छू० for औदुम्बर्या उच्छ्र०.
  8. RJ. विद्वान् for वेद यद् •
  9. RMKI. om. च.

पञ्चमोऽध्यायः (३) १७७
अथ यथोक्तौदुम्बर्युच्छ्रयणस्यापचितिसाधनतामाख्यायिकयोपपादयति—
प्रजापतिरकामयतापचितिं प्राप्नुवानीति । ऊर्गुदुम्बरः ।
ऊर्गन्नम् । अन्नं साम । तस्मात् सामगेभ्योऽपचितिं
करवाणि इति । य एवं वित्त्वौदुम्बरीमुच्छ्रयत्यपचिति-
मेवाप्नोति ॥ ६ ॥
पूर्वं प्रजापतिरपचितिं प्राप्नुवानीति अकामयत । किं च, उदुम्बरः
ऊर्क् । तद्धेतुत्वात् ऊर्क् च अन्नम् । अन्नं च साम । यतः साम अन्नात्मकं
तस्मात् सामगेभ्यः । साम गायन्तीति सामगाः । तेभ्यः अपचितिं पूजां
करवाणीति प्रजापतिः अकामयतेति संबन्धः । अतो यः पुमान् एवं यथोक्त-
लक्षणामौदुम्बरीं वित्त्वा उच्छ्रयति सोऽपचितिमाप्नोत्येवेति ॥ ६ ॥
इति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥

  1. RI. अवयुत्या, TK. अवयवोक्तौ for अथ यथोक्तौ ० ; M. om. अथ.
  2. RTK. om. इति , TMK. कृत्वा for वित्त्वा.
  3. J. adds अहं after करवाणीति; J. करवाणीति for अकामयतेति.
  4. JMTK. कृत्वा for वित्त्वा ; J. adds एव after ०चितिम
    ष० 12

चतुर्थः खण्डः
अथ सविशेषं यूपं निरूपयितुमुपक्रमते—
यूपं करोति सक्षीरं स्थूलं मूले बालाग्रमनुरूपम् ॥ १ ॥
सक्षीरं क्षीरवृक्षप्रकृतिकम् । स्थूलं मूले मूलप्रदेशे । बालाग्रम्
अग्रप्रदेशे सूक्ष्मम् । मध्ये च अनुरूपम् मूलप्रदेशापेक्षया स्थौल्याभावेन
अनुरूपम् एतादृशं यूपं करोति कुर्यादित्यर्थः ॥ १ ॥
अथ यथोक्तं यूपं वज्रत्वेन यज्ञविघ्नकर्तृरक्षोघ्नत्वेन च प्रशंसति—
वज्रो वै यूपो वज्रेणैवास्मै भ्रातृव्यं प्रहरति ॥ २ ॥
यूपो वज्र एव । तथा च तैत्तिरीयकम्—इन्द्रो वृत्राय वज्रं प्राहरत् ।
स त्रेधा व्यभक् । स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम् (तै. सं. ५.२.६.
१-२) इति । अतः अस्मै यजमानार्थं वज्रेणैव भ्रातृव्यं यागविघ्नकारिणं
राक्षसं प्रहरति ॥ २ ॥
यूपस्य अष्टाश्रीकरणं विधत्ते—
अष्टाश्रीः करोति ॥ ३ ॥
तस्य यूपस्य अष्टसंख्याका अश्रीः करोति कुर्यात् । दिक्षु चतस्रः
विदिक्षु चतस्र इति ॥ ३ ॥


  1. KM. वृक्षं for वृक्षप्रकृतिकम् ; KM. om. स्थूलं ... भ्रातृव्यं
    (L. 8.) JT om. मूलप्रदेशे.
  2. JT om. अग्रप्रदेशे ; JT. सूक्ष्माग्रं for सूक्ष्मम् ; RI om. मध्ये च ;
    RI. ०रूपता for ०रूपं ; JT om. मूलप्रदेशा०...एतादृशं.
  3. JT. om. अथ...रक्षोध्न ; J. तत्, T. तं for च.
  4. RM. व्यभवत् for व्यभक् .
  5. J. यज्ञ० for याग०.
  6. J adds इति after कुर्यात् .

पञ्चमोऽध्यायः (४) १७९
तद् प्रशंसति —
दश दिशः परिगृह्णाति । उभयतः पाङ्क्ते द्वे यूपे करोति ॥ ४ ॥
तथा सति ऊर्ध्वाधोदिग्भ्यां सह दश दिशः परिगृहीतवान् भवति । ततश्च
यूपे यूपविषये उभयतः द्वयोः पार्श्वयोः द्वे पाङ्क्ते द्वे पञ्चसंख्ये करोति कृतवान्
भवति । पञ्चपदा पङ्क्तिः (स. अ. सू. ५-६) इति संख्याम्नानात् ॥ ४ ॥
विकल्पेन धर्मान्तरं दर्शयति —
पञ्चदशोसप्तदशैकविंशत्यरत्निं वा ॥ ५ ॥
पञ्चदशारत्निं वा सप्तदशारत्निं वा एकविंशत्यरत्निं वा कुर्यात् ॥ ५ ॥
यूपस्य काम्यानि प्रकृतिद्रव्याणि दर्शयति —
पालाशं पुष्टिकामस्य । बैल्वं ब्रह्मवर्चसकामस्य ।
औदुम्बरमन्नाद्यकामस्य । खादिरं बलकामस्य । वैभीतक-
राजवृक्षौ भ्रातृव्यवतः । क्रमुकाश्वत्थपाषाणाः यशस्कामस्य ।
यत्किंच यज्ञियं पशुकामस्य ॥ ६ ॥
पुष्टिकामस्य पालाशप्रकृतिकं यूपं कुर्यात् । एवमन्यदपि योज्यम् ।
यज्ञियं यज्ञाहं यत्किंच वैकङ्कतादिकं वृक्षजातमस्ति तत्प्रकृतिकं यूपं
पशुकामस्य कुर्यात् ॥ ६ ॥
पालाशादिष्वेव वर्जनीयान् प्रतिज्ञापूर्वकं दर्शयति —
तत्र वर्जनीया भवन्ति । गडुलो व्रणिलो व्यावृत्तः
कुष्ठिः कुब्जः शूलो दग्धः शुष्कः सुषिरो घुणजग्ध
इत्यप्रशस्ताः ॥ ७ ॥
2. KT. पङ्केर्, MI. पङ्कौ for पाङ्क्ते.
4. J. trans. सह before दिग्भ्यां ; TK. सः for सह ; RI. तथा,
J. अतश् for ततश्च .
5. T. पङ्केर् for पाङ्क्ते.
6. J. साम्न्यात् for ०म्नात् .
15. R. व्याख्येयम् for योज्यम् .
17. K. om. पशुकामस्य.
18. J. पालाशेषु for पालाशादिषु ; JT. ०पुरःसरं for पूर्वकं.
19. MSh. व्यावृक्तः for व्यावृत्तः

.
Wait, "समाश्च"? Yes, "समाश्च."
12. T. यूपस्याश्री०, T. यूपाणि श्रितः ०, RKI. यूपाश्रित० for यूपाश्रि०;
JT. सप्रतिज्ञं for प्रतिज्ञापूर्वं.
13. RM. ०श्रीदैवतानि, T. ०श्रीदैवत्यानि, for ०श्रिदेवतानि.
14. TMK. ०स्तास्त आ० for ०स्तास्वा०; M. आदित्या रुद्रा मरुतो for
आदित्यरुद्रमरुद् .

Wait, let's verify line numbers:
Page header:
१८० षड्‌विंशब्राह्मणम्

Let's look at line 6 again:
"प्रतिज्ञातेष्वनुपादेयान् दर्शयति—"
Wait, look at line 6:
Can we see the characters clearly?
प्र ति ज्ञा ते ष्त्व नु पा दे या न्
Yes, "प्रतिज्ञातेष्वनुपादेयान्".

Let's check every word of the main text and commentary:
L1:
तत्र तेषु वर्जनीया भवन्ति गडुलो ग्रन्थियुक्तः । व्रणिलः पक्षादि- (or पश्वादि-? Footnote says: "R. ०भ

पञ्चमोऽध्यायः (४) [पृ. १८१]

अथ यूपस्याश्रिदैवतान्युच्यन्त इति शेषः । पूर्वायामश्रावग्निर्दैवता ।
अन्यत्समानम् । या विदिशः सन्ति ता विदिशस्ते प्रसिद्धा आदित्यादयो
यथासंख्यमधितिष्ठन्ति । अपराजिताः । यस्यां दिशि देवा असुरैः पराजिता
नाभवन् सा अपराजिता । अधरा दिगित्यर्थः । सा पितृभ्यः । ऊर्ध्वायां च
दिशि साध्याः तिष्ठन्ति । [सा] तद्देवत्येत्यर्थः ॥ ९ ॥
यथोक्तं यूपं प्रशंसति—
सर्वदेवत्यो वै यूपः । यूपो वै बहुरूपः वज्रीभूत्वा
देवानुपतिष्ठते ॥ १० ॥
अत एव सर्वदेवत्यो यूपः । किं च यूपोऽनेकाश्रित्वाद बहुरूप एव
यद् वज्रीभूत्वा वज्रात्मकत्वं प्रतिपद्य देवानुपतिष्ठते ॥ १० ॥
अथ प्रकारान्तरेण यूपमेव प्रशंसति—
ते देवाः प्रजापतिमुपाधावन् । यूपेन प्रहरन्त्यारोप-
यन्त्यायोधयन्ति च । तद्यूपस्य यूपत्वम् ॥ ११ ॥
प्राप्तयुगास्ते देवाः प्रजापतिमुपाधावन् । उपेत्य च ते लब्धानुज्ञाः
सन्तः यूपेन वज्रात्मकेन राक्षसान् प्रहरन्ति आरोपयन्ति आवृण्वते च ।
तथा आयोधयन्ति तैः सह युद्धं कुर्वन्ति तत् तेन यूपस्य यूपत्वम् ॥ ११ ॥
तत्रैव धर्मान्तरं विधत्ते—
मूलमरत्निं सत्वचं निखनेत् ॥ १२ ॥


पादटिप्पणी (Footnotes):

  1. T. यूपस्थानि, KM. यूपस्याश्रीर for यूपस्याश्रि०.
  2. RI. तासु for ताः; RI om. विदिशस्ते प्रसिद्धा See CN. ;
    T. दिश० M. तादृश० for विदिश०.
  3. M. ०संख्याः तिष्ठन्ति for ०संख्यमधितिष्ठन्ति ; RI. या दिक् for
    यस्यां दिशि ; RJMIK. अपराजिता ; for पराजिताः.
  4. J. तद्देवत्येभ्यः for तद्देवत्येत्यर्थः.
  5. JM. trans. एव after. ०देवत्यः.
  6. MT. तद् for ते.
  7. JR. आवृण्वन्त्येव for आवृण्वते च.

षड्विंशब्राह्मणम्

तस्य मूलं सत्वचम् अरत्निं निखनेत् ॥ १२ ॥
पित्रादिसंबन्धेन यूपं पुनः स्तौति—
तस्य यन्नैखान्यं तत्पितॄणाम् । यदूर्ध्वं तन्मनुष्याणाम्
यत्तदधो रशनाया ओषधिवनस्पतीनाम् । यदूर्ध्वं रशनायास्त-
द्विशेषां देवानाम् ॥ १३ ॥
तस्य यूपस्य यन्नैखान्यं निखनसंबन्धि स्थानं तत् पितॄणाम् आश्रयः ।
यदूर्ध्वं स्थानं तन्मनुष्याणाम् । रशनाया यूपे बद्धाया दर्भमय्या रज्ज्वा
अधो यत् स्थानं तत् ओषधिवनस्पतीनाम् । तदधिष्ठातृदेवानामित्यर्थः ।
रशनाया ऊर्ध्वं यत् स्थानं तद्विशेषां देवानाम् । आश्रय इत्यर्थः ॥ १३ ॥
धर्मान्तराणि दर्शयति—
आप्लावयन्त्यलंकुर्वन्त्यहतेन वसनेनाच्छादयन्ति
च ॥ १४ ॥
यूपम् आप्लावयन्ति अभिषिञ्चेयुः । तथा अलंकुर्वन्ति । किं च ।
अहतेन वसनेन वस्त्रेण आच्छादयन्ति आच्छादयेयुः ॥ १४ ॥
यथोक्तमाप्लावनादिकं प्रशंसति—
तद् गन्धर्वाप्सरसाम् ॥ १५ ॥
तदेतदाप्लावनादि गन्धर्वाणामप्सरसां चार्थे कृतं भवति ॥ १५ ॥
तदीयं चषालं तदूर्ध्वप्रदेशं च इन्द्रादिसंबन्धेन प्रशंसति—
इन्द्रस्य चषालम् । यदूर्ध्वं चषालस्याङ्गुलमात्रं कार्यं
तत्साध्यानां देवानाम् ॥ १६ ॥


  1. J. अरत्निप्रमाणं for अरत्निं.
  2. M1K. प्रस्तौति for स्तौति.
  3. J. adds यन्० before निखन.
  4. RMIK. om. ओषधिवनस्पतीनां.
  5. J. आश्रयम् for आश्रयः.
  6. JMK. ०प्लावनं for ०प्लावनादि.

पञ्चमोऽध्यायः (४) १८३
तस्य यच्चषालं तद् इन्द्रस्य संबन्धि । चषालस्योर्ध्वं यद् अङ्गुल-
मात्रं कार्यं तत् साध्याख्यानां देवानां संबन्धि ॥ १६ ॥
सप्रशंसं धर्मान्तरं विधत्ते—
प्राचीं संनमयेतद्वै विष्णोः परमं पदम् ॥ १७ ॥
तं यूपं प्राचीं दिशं प्रति संनमति संनमयेदित्यर्थः । एतद्वै एतदेव ५
प्राचीसंनमनं विष्णोर्देवस्य परमम् उत्कृष्टं पदं स्थानम् ॥ १७ ॥
पुनर्यूपं तदीयशरीरादेर्ऋत्वाद्यात्मकत्वेनोपवर्णनेन प्रशंसति—
तस्यर्तवः शरीरम् । शिरः संवत्सरः । वेदा रूपाणि ।
संवत्सर एव प्रतितिष्ठति । य एवं वेद ॥ १८ ॥
तस्य यूपस्य शरीरं वसन्ताद्यृतवः । शिरः संवत्सरः । वेदाश्च १०
रूपाणि इत्येवं यो वेद स संवत्सर एव प्रतितिष्ठति । दीर्घायुर्भव-
तीत्यर्थः ॥ १८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
पञ्चमाध्याये चतुर्थः खण्डः ॥ ४ ॥ १४
2. J. साध्यानां for साध्याख्यानां.
5. MK. प्राचीनं for प्राचीं; RMIK. om. संनमति.
7. TJ. ०त्मकत्वोप० for ०त्मकत्वेनोप०.
10. RIT. रूपाणि वेदाश्चेत्येवं, J. रूपाणि वेदाः for वेदाश्च रूपाणि.
11. J, adds एवं after यः; KTM. om. सः.

पञ्चमः खण्डः
अथ सविशेषां संध्यां प्रश्नपूर्वकमाख्यायिकया निरूपयितुं ब्रह्मवादिनां
प्रश्नं तावदुपस्थापयति—
ब्रह्मवादिनो वदन्ति । कस्माद् ब्राह्मणः सायमासीनः
संध्यामुपास्ते ? कस्मात् प्रातस्तिष्ठन् ? का च संध्या ? कश्च
संध्यायाः कालः ? किं च संध्यायाः संध्यात्वम् ? ॥ १ ॥
अर्थस्त्वतिरोहित एव ॥ १ ॥
उत्तरं वक्तुमुपक्रमते—
देवाश्चासुराश्चास्पर्धन्त । तेऽसुरा आदित्यमभिद्रवन् ।
स आदित्यो बिभेत् । तस्य हृदयं कूर्मरूपेणातिष्ठत् ॥ २ ॥
पुरा देवाश्चासुराश्च परस्परम् अस्पर्धन्त । तत्र ते देवैः सह
स्पर्धमाना असुराः दानवाः आदित्यम् अभिलक्ष्य योद्धुम् अभिद्रवन् ।
तदानीं स आदित्यः तेभ्योऽसुरेभ्यः बिभेत् । अतस्तस्य आदित्यस्य हृदयं
कूर्मरूपेण संकुच्यातिष्ठत् इति ॥ २ ॥
ततः किमित्यत्राह—
स प्रजापतिमुपाधावत् । तस्य प्रजापतिरेतद् भेषज-
मपश्यत् । ऋतं च सत्यं च ब्रह्म चोंकारं च त्रिपदां च
गायत्रीं ब्रह्मणो मुखमपश्यत् ॥ ३ ॥


  1. MK. ब्रह्मणः for ब्राह्मणः.
  2. J om. परस्परम् .
  3. J. अभ्यद्रवन् for अभिद्रवन्.
  4. MIK. (अ) सुरेभ्योऽबिभेत् for असुरेभ्यः बिभेत् .
  5. RI. संकोच्यादितिष्ठदिति, M. संकुर्यात् अतिष्ठत् तिष्ठति स्म, K.
    संकुर्यात्तिष्ठति for संकुच्यातिष्ठत् .

पञ्चमोऽध्यायः (५) १८५
स भीत आदित्यः प्रजापतिमुपाधावत् । तस्य स्वसमीपं प्राप्तस्य
असुरजयाय प्रजापतिरेतद् वक्ष्यमाणं भेषजं प्रतीकारम् अपश्यत् । ऋतम्
अनृतवर्जनम् । सत्यं यथार्थभाषणम् । ब्रह्म ऋग्वेदादिकम् । ओंकारं प्रणवम् ।
त्रिपदां पादत्रयवतीं गायत्रीं चेति । किं च । यथोक्तस्य भेषजस्य ब्रह्मणो
मुखे प्रधानम् इति अपश्यत् ॥ ३ ॥
अस्त्वेवं किं तत इत्यत्राह —
तस्माद् ब्राह्मणोऽहोरात्रस्य संयोगे संध्यामुपास्ते ।
सज्योतिष्या ज्योतिषो दर्शनात् । सोऽस्याः कालः । सा
संध्या । तत् संध्यायाः संध्यात्वम् । यत्सायमासीनः
संध्यामुपास्ते तया वीरस्थानं जयति । अथ यदपः
प्रयुङ्क्ते ता विप्रुषो वज्रीभवन्ति । ता विप्रुषो वज्री-
भूत्वासुरानपघ्नन्ति । ततो देवा अभवन् । परासुरा
भवन्ति । आत्मना परास्य भ्रातृव्यो भवति । य एवं वेद ।
यत् सायं प्रातश्च संध्यामुपास्ते तया वीरस्थानं स्थानं
च संततमविच्छिन्नं भवति । य एवं वेद ॥ ४ ॥
यस्मादेवं तस्मात् । ब्राह्मणः । ब्राह्मणशब्दः क्षत्रियवैश्ययोरप्युप-
लक्षणम् । तयोरपि तत्राधिकारात् तन्मुख्यत्वाच्च । अहोरात्रस्य संयोगे ।
अहोरात्रयोः संधौ । संध्या[म्], संधौ भवा संध्या, ताम्, उपास्ते ।

  1. IR. om. तस्य; RI. समीपं प्राप्तस्य for स्वसमीपं प्राप्तस्य ;
    J. after तस्य adds संप्राप्तस्य.
  2. J. आदित्यस्य रक्षणाय for असुरजयाय.
  3. RKTM. पदत्रय० for पादत्रय०.
  4. RMIK om. इति.
  5. K. सज्योतिषा० for सज्योतिषि.
  6. J om. ब्राह्मणः.
  7. TRK om. तन्०; T. ०मुखत्वात् for ०मुख्यत्वात् .
  8. J om. संध्या[म्] संधौ; J. भव्या for भवा.

१८६ षड्विंशब्राह्मणम्
सज्योतिषि विनश्यदवस्थापन्नेन पूर्वज्योतिषा सहिते काले आ ज्योतिषो दर्शनात्
आगामिनो ज्योतिषो दर्शनपर्यन्तम् अन्तराले यः कालः स एव अस्याः संध्यायाः।
अस्य संध्योपासनस्य कालः । सा एव संध्या । तद् एव संध्यायाः
संध्यात्वम् । किं च । सायमासीनः उपविष्टः संध्यां यद् उपास्ते तया
संध्यया वीरस्थानं बलवत्स्थानं जयति प्राप्नोति । अथ पुनः संध्याकाले अपः
उदकानि यत् प्रयुङ्क्ते ऊर्ध्वं विक्षिपति तत्र ता अपां विप्रुषो बिन्दवः
वज्रीभवन्ति । वज्रीभूत्वा ता विप्रुषः असुरान् आदित्यं प्रति योद्धुमागतान्
अपाघ्नन्ति । ततो देवा विजयिनोऽभवन् । असुरास्तु पराभवन्ति । पराभूता
अभवन् । किं च, य एवम् उक्तप्रकारेण वेद अस्य वेदितुः भ्रातृव्यः शत्रुः
आत्मना स्वेनैव परा भवति । यथा सायं प्रातश्च संध्यां यदुपास्ते तया
द्विविधया संध्यया तस्य वीरस्थानं भवति । तत्र स्थानं संततं सर्वदा
अविच्छिन्नं भवति । योऽपि एवं वेद तस्यापि यथोक्तं फलं भवतीत्यर्थः ।
तथा च तैत्तिरीयका आमनन्ति—तस्मादुत्तिष्ठन्तं ह वा तानि रक्षांसि
आदित्यं योधयन्ति । यावदस्तमन्वगात् तानि ह वा एतानि रक्षांसि
गायत्रियाऽभिमन्त्रितेनाम्भसा शाम्यन्ति । तदु ह वा एते ब्रह्मवादिनः
पूर्वाभिमुखाः संध्यायां गायत्रियाऽभिमन्त्रिता अप ऊर्ध्वं विक्षिपन्ति । ता
एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति
(तै. आ. २. २.) ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
पञ्चमाध्याये पञ्चमः खण्डः ॥ ५ ॥

  1. RTJ. ०वस्थानापन्नेन for ०वस्थापन्नेन ; J. सहितेन कालेन for
    सहिते काले.
  2. R.. ०रालो यः, T. (रा) ह्यः for ०राले यः; MTK om. सः;
    JTK om. एव अस्याः संध्यायाः.
  3. RI om. संध्योपासनस्य.
  4. RTI. विक्षिपन्ति, M. विक्षिप्ताः for विक्षिपति; J. ऊर्ध्वे for अपां.
  5. RI. यत् , J. तथा for यथा.
  6. J om. भवति । तत्र स्थानं.
  7. R. गायत्र्या, T. गायत्र्य० for गायत्रिया.
  8. MTIK. गयत्र्या for गायत्रिया; RMTIK. आप for अप

षष्ठः खण्डः
अथ चन्द्रस्य क्षयवृद्धी निरूपयितुं प्रतिजानीते—
अथैषा चन्द्रमसः क्षयवृद्धिर्भवति । यदा वै चन्द्रमाः
क्षीयते चाप्यायते च तदनुव्याख्यास्यामः ॥ १ ॥
अथ इति वाक्योपक्रमे । एषा वक्ष्यमाणा चन्द्रमसः संबन्धिनी
क्षयवृद्धिः । क्षयश्च वृद्धिश्च । यद्यपि द्विवचनेन भाव्यं, तथापि बाहुलकादेक-
वचनम् । तस्यैव विवरणम् । यदा वै यस्मिन्नेव काले चन्द्रमाः क्षीयते
कलाभिः, यदा कलाभिः आप्यायते च तद् वयम् अनुव्याख्यास्यामः ।
अनुवर्णयाम इति ॥ १ ॥
तत्र प्रथमं तस्य क्षयप्रकारं दर्शयति—
पूर्वपक्षे वै देवा दीक्षन्ते । तेऽपरपक्षे सोमं
भक्षयन्ति । तत्रेमानि त्रीणि पात्राण्युपधीयन्ते । पृथिवी
पात्रमन्तरिक्षं पात्रं द्यौः पात्रमिति । तं देवा दिव्येन
पात्रेण आदित्याः प्रथमं पञ्चकलं पञ्चमीं भक्षयन्ति ।
अन्तरिक्षेण पात्रेण रुद्रा द्वितीयं पञ्चकलं दशमीं
भक्षयन्ति । ते पृथिव्या पात्रेण वसवस्तृतीयं पञ्चकलं
पञ्चदशीं भक्षयन्ति । षोडशी कलावशिष्यते । षोडशकलो
वै चन्द्रमाः । स ओषधीश्च वनस्पतींश्च गाश्च पशूंश्चादित्यं
च ब्रह्म च ब्राह्मणांश्चानुप्रविशति । तं देवा इन्द्रज्येष्ठाः
सोमपाश्चासोमपाश्च यथा पितरं पितामहं प्रपितामहं वा वृद्धं
6. JT. भवितव्यं for भाव्यं.
7. MTK. चन्द्रः for चन्द्रमाः.

१८८ | षड्विंशब्राह्मणम्

प्रलयमुपगच्छमानं व्याधिगतं मरिष्यतीति वा तां रात्रिं
वसन्ते । तदमावास्याया अमावास्यात्वम् । तस्मादमावा-
स्यायां नाध्येतव्यं भवति ॥ २ ॥
य एवं देवाः पूर्वपक्षे शुक्लपक्षे दीक्षन्ते सोमपानाय दीक्षां कुर्वन्ति
ते दीक्षिता देवा अपरपक्षे कृष्णपक्षे सोमं भक्षयन्ति । कथम्? तत्र
सोमपानविषये इमानि वक्ष्यमाणानि त्रीणि पात्राणि उपधीयन्ते । तेषामेव
प्रदर्शनम् । पृथिवी परिदृश्यमानः पृथिवीलोक एकं पात्रम् । अन्तरिक्षम्
अन्तरिक्षलोक एकं पात्रम् । द्यौः द्युलोक एकं पात्रम् इति । तत्र
आदित्या आदित्याख्या देवा दिव्येन द्युलोकात्मकेन पात्रेण प्रथमं त्रेधा
विभागेनाद्यविभागात्मकं पञ्चकलं, पञ्च कला यस्य तं सोमं, पञ्चमीम् ।
अत्यन्तसंयोगे द्वितीया । प्रतिपदमारभ्य पञ्चमीपर्यन्तं भक्षयन्ति । प्रतिदिनम्
एकैकां कलां पिबन्तीत्यर्थः । ततस्ते दीक्षिता [रुद्राः] रुद्राख्या देवा
अन्तरिक्षेण अन्तरिक्षलोकात्मकेन पात्रेण द्वितीयं पञ्चकलं सोमं दशमीं
षष्ठीमारभ्य दशमीपर्यन्तं भक्षयन्ति । ततस्ते दीक्षिता वसवो
ऽस्वाख्या देवाः पृथिव्या पात्रेण तृतीयं तृतीयभागात्मकं पञ्चकलं
सोमं पञ्चदशीं पञ्चदशीपर्यन्तं पूर्ववद् भक्षयन्ति । ततश्चन्द्रमसः षोडशी
एका कला अवशिष्यते । यतः चन्द्रमाः षोडशकलः । अनन्तरं सः
अवशिष्टकलः सोम ओषध्यादीन् प्रविशति । तथा च सति इन्द्रज्येष्ठा
इन्द्रप्रमुखाः सोमपाश्च असोमपाश्च सर्वे देवाः तं सोमम् अभिलक्ष्य तादृशसो-
मवतीं रात्रिं वसन्ते । अत्र दृष्टान्तः । यथा पितरम् इत्यादि । वृद्धं जरया
प्रलयं नाशम् उपगच्छमानम् उपगच्छन्तं व्याधिगतं रोगिणं पितरं
7. RI. om. प्रदर्शनम् ; MTK. लोकं प्रदर्शनं for परिदृश्यमानः.
8. RTIK om. अन्तरिक्षलोकः, JRMTIK. अन्तरिक्षलोकं for
अन्तरिक्षलोकः.
9. RMIK om. आदित्या.
10. R. om. पञ्चकलं.
11. JT. ०पदात् for ०पदम.
12. RTMK om. देवा.
13 M om. अन्तरिक्षेण.
16. J om. पञ्चदशीं; M. adds दशमीम रभ्य after पञ्चदशीं.
20. T. adds वसन्ति after वसन्ते; JT. add यथा before वृद्धं.

[Header] पञ्चमोऽध्यायः (६) १८९

पितामहं प्रपितामहं वाभिलक्ष्य मरिष्यति न वेति संदिहानाः पुत्रादयः तां
रात्रिं वसन्ति तद्वदित्यर्थः । तत् तेन सहवासनिमित्तेन अमावास्याया
अमावास्यात्वम् । अमा सह वत्स्यस्यामिति व्युत्पत्तेरित्यर्थः । यस्मादेवं
तस्माद् एव खलु अमावास्यायां न किंचिदप्यध्येतव्यं भवति । अध्येतव्यस्य
वर्णात्मकस्य वेदराशेरग्निष्टोमात्मकत्वात् तत्र च सोमस्यादर्शनादित्यर्थः ॥ २ ॥
अथास्य वृद्धिप्रकारं प्रतिज्ञापूर्वकं दर्शयति—
अथ संभरणम् । तमोषधीभ्यश्च वनस्पतिभ्यश्च
गोभ्यश्च पशुभ्यश्चादित्याच्च ब्रह्मणश्च ब्राह्मणाः संनयन्ते ।
तस्मात्सांनाय्यस्य सांनाय्यत्वम् ॥ ३ ॥
अथ क्षयप्रदर्शनानन्तरं संभरणं चन्द्रमसः कलाभिः पोषणम् उच्यत
इति शेषः । यत्र चन्द्रकला चानुपूर्वमनुप्रविष्टा तां तेभ्यः [संभरन्ति] । कथम् ?
ओषधीभ्यो वनस्पतिभ्यश्च । अपुष्पाः फलवन्तो वनस्पतयस्तेभ्यश्च । गोभ्यः
पशुभ्यश्च आदित्याच्च ब्रह्मणश्च । ब्रह्म मन्त्राद्यात्मको वेदः, तस्माद् । ब्राह्मणा-
स्तम् एतेषूषितं चन्द्रमसं संनयन्ते सम्पङ्नयन्ति । यस्मादेवं तस्मात्
सांनाय्यस्य संनयनसंबन्धिनश्चन्द्रमसः सांनाय्यत्वम् । यथा पशुभिरोषधीभ्यश्च
2. J. adds देवानां after तेन.
3. J. अमाशब्दः सहार्थे संवसन्ति for अमा सह वसति; T. वसन्ति for वसति.
5. R. पुण्यात्मकस्य for वर्णात्मकस्य ; J. वेदादे० for वेदराशे०.
6. RKT. ०पूर्वे for पूर्वकं.
11. RI. कथं यत्र चन्द्रमाश्चानुपूर्वमनुप्रतिष्ठितम् । तेभ्यस्तु यत्र...कथम् ?
for चन्द्रकाला...कथम् ? See CN. ; MK. चन्द्रकः for चन्द्रकला;
M. अनुपूर्वशस्तेषु for अनुपूर्वमनु०; J पूर्वम् for अनुपूर्वम्; M. ०प्रतिष्ठितेस्तम् ,
K. ०प्रतिष्ठाताम् for प्रविष्टा तां तेभ्यः; KM. om. कथम् .
12. J om. च after वनस्पतिभ्यः
13. MIK om. तस्माद् .
14. RIJ. ०श्च स्वेन तोषितं, K. ०श्च स्वोदतोषीतं, M. ०श्च स्विदेते
भूषितं for ०स्तमेतेषूषितं. See CN; MK. संपद्यन्ते for संनयन्ते.
15. RI om. संनयन...०मसः ; M. संनाध्य for संनयन ०
M. ओषधीभिश्च for ओषधीभ्यश्च.

संनीय वपात्मनि (ना ?), संनयनाद् दधिपयसोः सांनाव्यत्वम् । तथा च
तैत्तिरीया आमनन्ति — एतदस्मै संनयतेति । तत्पशव ओषधीभ्योऽध्यात्म-
न्त्समनयन् । तत्प्रत्यदुहन् । यत्समनयन् तत्सांनाय्यस्य सांनाय्यत्वम् ।
(तै. सं. २. ५. ३. ३) इति । एवमत्रापीत्यर्थः ॥ ३ ॥
अथेदानीमनुमत्यादिपतित्वेन चन्द्रमसं प्रशंसति—
चन्द्रमा वै धाता । या पूर्वा पौर्णमासी सानुमतिः ।
योत्तरा सा राका । या पूर्वामावास्या सा सिनीवाली ।
योत्तरा सा कुहूः । योऽनु पश्यत्यन्यं न पश्यति
तन्मिथुनमेवास्य भवति ॥ ४ ॥
चन्द्रमा एव धाता पतिरनुमत्यादीनाम् । रेतस आधानात् आधृ-
तत्त्वात् । अनुमत्यादीनां स्वरूपदर्शनम् । या पूर्वा चतुर्दशीविद्धा पौर्णमासी
सानुमतिरित्युच्यते । योत्तरा संपूर्णचन्द्रोपेता सा राका । या पूर्वा दृष्टचन्द्रा
अमावास्या सा सिनीवाली इति अभिधीयते । योत्तरा नष्टेन्दुकला अमावास्या
सा कुहूः इत्युच्यते । एताश्चन्द्रमसो जाया इत्यर्थः । अतो यः पुमान्
बुद्धिम् अनु तं चन्द्रमसं पश्यति अन्यं न पश्यति अस्य द्रष्टुः तत्
तादृशमेव मिथुनं भवति ॥ ४ ॥
अनुमत्यादिपर्वचतुष्टयं युगचतुष्टयसंबन्धित्वेन प्रशंसति—

  1. J. स्वात्मनि, M. वात्मानं for वपात्मानं (ना ?).
  2. RIK. एतस्मिन् MT. एतस्मै for एतदस्मै.
  3. J. om· आधानात्, RJI. अधृतत्वात् , M. आधारात् for आधृतत्वात्.
  4. M. संपूर्णा for संपूर्ण० ; RI. ०चन्द्रमसो० for चन्द्रो० ; RI. दृष्टा चन्द्रमा for दृष्टचन्द्रा.
  5. RI. बुद्धिमन्मतं for बुद्धिमनु तं; M. बुद्धिमान for बुद्धिमनु ; M om. तं; JMK. चन्द्रं for चन्द्रमसं.
  6. MK. अनुमत्याः for अनुमत्यादि० ; I. ०पूर्वं० for ०पर्व० ; RI. चतुष्टय० for चतुष्टयं; RITMK. om. युगचतुष्टय०.

पुष्ये चानुमतिर्ज्ञेया सिनीवाली तु द्वापरे ।
खार्वार्यां तु भवेद्राका कृतपर्वे कुहूर्भवेत् ॥ ५ ॥
पुष्ये । पुष्यत्यस्मिन् अधर्मः शीघ्रमिति पुष्ये कलियुगे अनुमतिः श्रेष्ठेति
ज्ञेया । तथा द्वापरे सिनीवाली श्रेष्ठा । खार्वार्याम् । खर्वौ समौ धर्माधर्मौ
यस्यां त्रेतायां सा खार्वा । तस्यां राका श्रेष्ठा भवेत् । तथा कुहूः कृतपर्वे
कृतयुगसंबन्धि पर्व । [तस्मिन्] भवेदिति ॥ ५ ॥
अनुमत्यादीनां लक्षणमाह—
न्यूने चानुमतिं विद्यात् । यस्मिन् दृश्येत सा
सिनीवाली । राका यदि संपूर्णः । चन्द्रस्तु कुहूर्न
दृश्येत ॥ ६ ॥
न्यूने चन्द्रे कलाहीने सति पौर्णमासीम् अनुमतिं विद्यात् । यस्मिन्
दर्शे चन्द्रमा दृश्येत सा अमावास्या सिनीवालीति ज्ञेया । यदि चन्द्रमाः
संपूर्णः दृश्येत सा पौर्णमासी राका । यत्र तु चन्द्रो न दृश्येत सा
अमावास्या कुहूरिति ज्ञेया ॥ ६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
पञ्चमाध्याये षष्ठः खण्डः ॥ ६ ॥


  1. ShMs. वालीति for ०वाली तु.
  2. Ms. ०पूर्वे for ०पर्वे; T. कृते पर्व for कृतपर्वे.
  3. JM. om. first पुष्ये ; J. पुष्यन्ति अस्मिन् अधर्माः for
    पुष्यति अस्मिन् अधर्मः; M. धर्मे, TKI. धर्मः for अधर्मः.
  4. RJ. add भवति after श्रेष्ठा.
  5. TBh K. खर्वा for खार्वा ; RK. ०पर्व, M. ०पर्वा for ०पर्वे.
  6. M. ०संबन्धपर्वा for ०संबन्धि पर्व.
  7. J. लक्षणानि दर्शयति for लक्षणमाह.
  8. RJ. राकायां, Bh. राका यस्तु for राका यदि.
  9. T. दृश्यते for दृश्येत.
  10. TJ. ०रहिते ०हीने.
  11. Bh. देशे for दर्शे; RK. दृश्यते for दृश्येत; RK om. इति.
  12. RBh JK. दृश्यते for दृश्येत ; Bh T. चन्द्रमा० for चन्द्रो०.

सप्तमः खण्डः
अथ स्वाहाख्यां देवतां प्रश्नपूर्वकं निरूपयितुं प्रजापतिं प्रति
ब्रह्मवादिनां प्रश्नं तावदुपस्थापयति—
स्वाहा वै कुतः संभूता? कस्य दुहिता? केन प्रकृता?
किंगोत्रा? कत्यक्षरा? कतिपदा? कतिमात्रा? कतिवर्णा?
कत्युच्छ्वासा? किं चास्याः शरीरम्? कान्यङ्गानि? कानि
लोमानि? कति शिरांसि? कति वा चक्षूंषि? किमस्या
आस्यम्? किंप्रावृता? कौ बाहू? कौ पादौ? क च स्थिता?
किमाधिष्ठाना? कथं च स्वाहां प्रति गृह्णासि? ब्रूहि स्वाहारूपं
च दैवतं च ॥ १ ॥
निगदसिद्धमेतत् ॥ १ ॥
उत्तरमाह—
स्वाहा वै सत्यसंभूता । ब्रह्मणो दुहिता ।
ब्रह्मप्रकृता । लातव्यसगोत्रा । त्रीण्यक्षराणि । एकं पदम् ।
त्रयोऽस्यै वर्णाः । शुक्लः पद्मः सुवर्ण इति । चत्वारोऽस्यै
वेदाः शरीरम् । षडङ्गान्यङ्गानि । ओषधिवनस्पतयो
लोमानि । द्वे चास्याः शिरसी । एकं शिरोऽमावास्या
द्वितीयं पौर्णमासी । चक्षुश्चन्द्रादित्यौ । आज्यभागौ हुतम् ।
दक्षिणा प्रावृता । बृहद्रथन्तरम् । ऋग्यजुःसाम गतिः ।
सा स्वाहा । सा स्वधा । स वषट्कारः। सैषा देवेषु वषट्कार-
भूता प्रयुज्यते । पितृयज्ञेषु स्वधाभूता । शकटीमुखी

पृथिवीमन्तरिक्षेण विपर्येति । तस्या अग्निर्दैवतम् । ब्राह्मणो
रूपम् । यत्कामास्ते जुहुमस्तन्नो अस्तु । वयं स्याम पतयो
रयीणाम् । स्वाहेति ॥ २ ॥
स्वाहा सत्येनैव संभूता । नान्येन । ब्रह्मण एव दुहिता ब्रह्मणेव
प्रकर्षेण कृता । लात्येन ऋषिणा समानगोत्रा । तस्या अक्षराणि सकार-
वकारहकारात्मकानि त्रीणि । पदमेकम् । एतावत्येवेति मन्तव्यम् । अस्यै
अस्याः वर्णरूपाणि शुक्लः पद्मः, — पद्मशब्देन पद्मवर्ण उपलक्ष्यते, — [सुवर्णः]
सुवर्णवर्णश्चेति त्रयः । अस्याश्चत्वार ऋगादयो वेदाः उच्छासाः त एव तस्याः
शरीरम् । अङ्गानि निरुक्तादीनि षड् वेदाङ्गानि । तान्येव तस्या अङ्गानि ।
ओषधिवनस्पतय एवास्या लोमानि । तथा अस्या द्वे शिरसी । तयोरेव
प्रदर्शनम् । अमावास्यैकं शिरः । पौर्णमासी द्वितीयं शिरः । तत्रैव
यागकरणात् । चन्द्रादित्यौ एव अस्याश्चक्षुः । चक्षुषी इत्यर्थः ।
आज्यभागाख्ये कर्मणी एव अस्या हुतं हवनस्थानम् । मुखमित्यर्थः ।
यागे या दक्षिणा सैव प्रावृतावरणं तस्याः । बृहद्रथन्तरं बृहद्रथ-
न्तरसामनी एव बाहू इति शेषः । ऋग्यजुःसाम । ऋगादयस्त्रयो
वेदाः गतिः । पादा इत्यर्थः । एवंविधा या स्वाहा सैव स्वधा ।
नान्या । तथा सः वषट्कारः । सैषा स्वाहा देवेषु देवयज्ञेषु


  1. Bh om. ब्रह्मणेव; JT om. एव.
  2. BhK. पितावस्त्येव, M. मात्रा पित्रा यत्येव for एतावत्येव.
  3. Bh RIK. add. पद्मवर्णः (M. ०वर्णे) after पद्मः; M. पद्मं for पद्मः; M. om. पद्मवर्ण.
  4. Bh I. उच्छासः for उच्छासाः; RBhMIK. om. त०; BhMK. om. एव तस्याः
  5. R. तस्य for तस्या०.
  6. RBhK. अस्य for अस्या०.
  7. RI एकं for द्वितीयं.
  8. BhTK. चन्द्रमा० for चन्द्रा०; RBh TIK add चन्द्रादित्यौ after ०दित्यौ.
  9. MK. मुख्यम् for मुखम्.
  10. RBhMKTI om. बृहद्रथन्तरं; RJI. बृहद्रथन्तरे for बृहद्रथन्तर०
  11. J. adds वेदांख्यः उच्छासः after साम; RKMI. ०सामादयः for ०साम। ऋगादयः.
    प० 13

वषट्कारभूता सती प्रयुज्यते । सैव स्वधाभूता पितृयज्ञेषु प्रयुज्यते
इत्याश्रयनिरूपणम् । शकटीमुखीं पृथिवीम् अधिष्ठाय अन्तरिक्षेण
[अन्तरिक्ष] मार्गेण विपर्येति । स्वाहा सर्वं स्वर्गादिफलं प्राप्नोतीति[अर्थः] । तस्याः
स्वाहाया अग्निर्दैवतं अग्नेरेव देवता । रूपं ब्राह्मणः । तत्प्राधान्यात् । हे
प्रजापते ! त्वत्तोऽन्यः कश्चित् सर्वाणि भुवनानि परिभवितुं न शक्नोति । अतस्ते
तुभ्यं वयं यत्कामा यत्फलं कामयमानाः जुहुम तत् फलं नोऽस्माकम्
अस्तु । किं च । वयं रयीणां धनानां पतयः स्याम भवेम । स्वाहेत्यनेन
स्वाहायाः प्रजापतिपरिग्रहो दर्शितः ॥ २ ॥
यथोक्तरूपां स्वाहां प्रशंसति—
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
ब्रह्मवर्चसेनेति ॥ ३ ॥
तस्य स्वाहाकारपरिग्रहेण तृप्तस्य प्रजापतेः तृप्तिमनु यजमानः
प्रजया पुत्रपौत्रादिकया पशुभिः गवादिभिः अन्नाद्येन तेजसा ब्रह्मवर्चसेन,—
[ब्रह्मवर्चसं] वृत्तस्वाध्यायतेजः तेन,—च तृप्यति । इतिशब्दोऽध्यायपरि-
समाप्तिद्योतनार्थः ॥ ३ ॥
इति षड्विंशब्राह्मणे पञ्चमाध्याये
सप्तमः खण्डः ॥ ७ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्य-
धुरंधरेण सायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे
षड्विंशब्राह्मणे सव्याख्याने पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥

  1. Bh J. ० इत्याशय० for इत्याश्रय०; MTK. ०मुख for ०मुखीं.
  2. Bh. ०पर्य्येति, M. ०पर्यस्येति for विपर्येति.
  3. RIK. om. अग्निर्दैवतं; M. देवता for दैवतं.
  4. T. धर्माणां for धनानां.
  5. RI. स्वाहा० for स्वाहाकार०.
  6. JMKT om. वृत्तस्वाध्यायतेजः तेन च.
    22.. R. ब्राह्मणव्याख्याने, K. ०ब्राह्मणे व्याख्यायां for ०ब्राह्मणे सव्याख्याने,
    K. after Colophon adds षड्विंशब्राह्मण(व्याख्यान)स्समाप्तः ॥ श्रीगणेशाय
    नमः ॥ This ms. concludes here.