सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 190, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 190

संनीय वपात्मनि (ना ?), संनयनाद् दधिपयसोः सांनाव्यत्वम् । तथा च
तैत्तिरीया आमनन्ति — एतदस्मै संनयतेति । तत्पशव ओषधीभ्योऽध्यात्म-
न्त्समनयन् । तत्प्रत्यदुहन् । यत्समनयन् तत्सांनाय्यस्य सांनाय्यत्वम् ।
(तै. सं. २. ५. ३. ३) इति । एवमत्रापीत्यर्थः ॥ ३ ॥
अथेदानीमनुमत्यादिपतित्वेन चन्द्रमसं प्रशंसति—
चन्द्रमा वै धाता । या पूर्वा पौर्णमासी सानुमतिः ।
योत्तरा सा राका । या पूर्वामावास्या सा सिनीवाली ।
योत्तरा सा कुहूः । योऽनु पश्यत्यन्यं न पश्यति
तन्मिथुनमेवास्य भवति ॥ ४ ॥
चन्द्रमा एव धाता पतिरनुमत्यादीनाम् । रेतस आधानात् आधृ-
तत्त्वात् । अनुमत्यादीनां स्वरूपदर्शनम् । या पूर्वा चतुर्दशीविद्धा पौर्णमासी
सानुमतिरित्युच्यते । योत्तरा संपूर्णचन्द्रोपेता सा राका । या पूर्वा दृष्टचन्द्रा
अमावास्या सा सिनीवाली इति अभिधीयते । योत्तरा नष्टेन्दुकला अमावास्या
सा कुहूः इत्युच्यते । एताश्चन्द्रमसो जाया इत्यर्थः । अतो यः पुमान्
बुद्धिम् अनु तं चन्द्रमसं पश्यति अन्यं न पश्यति अस्य द्रष्टुः तत्
तादृशमेव मिथुनं भवति ॥ ४ ॥
अनुमत्यादिपर्वचतुष्टयं युगचतुष्टयसंबन्धित्वेन प्रशंसति—

  1. J. स्वात्मनि, M. वात्मानं for वपात्मानं (ना ?).
  2. RIK. एतस्मिन् MT. एतस्मै for एतदस्मै.
  3. J. om· आधानात्, RJI. अधृतत्वात् , M. आधारात् for आधृतत्वात्.
  4. M. संपूर्णा for संपूर्ण० ; RI. ०चन्द्रमसो० for चन्द्रो० ; RI. दृष्टा चन्द्रमा for दृष्टचन्द्रा.
  5. RI. बुद्धिमन्मतं for बुद्धिमनु तं; M. बुद्धिमान for बुद्धिमनु ; M om. तं; JMK. चन्द्रं for चन्द्रमसं.
  6. MK. अनुमत्याः for अनुमत्यादि० ; I. ०पूर्वं० for ०पर्व० ; RI. चतुष्टय० for चतुष्टयं; RITMK. om. युगचतुष्टय०.