षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 193, कुल 226 में से
संदर्भ में पढ़ेंपृथिवीमन्तरिक्षेण विपर्येति । तस्या अग्निर्दैवतम् । ब्राह्मणो
रूपम् । यत्कामास्ते जुहुमस्तन्नो अस्तु । वयं स्याम पतयो
रयीणाम् । स्वाहेति ॥ २ ॥
स्वाहा सत्येनैव संभूता । नान्येन । ब्रह्मण एव दुहिता ब्रह्मणेव
प्रकर्षेण कृता । लात्येन ऋषिणा समानगोत्रा । तस्या अक्षराणि सकार-
वकारहकारात्मकानि त्रीणि । पदमेकम् । एतावत्येवेति मन्तव्यम् । अस्यै
अस्याः वर्णरूपाणि शुक्लः पद्मः, — पद्मशब्देन पद्मवर्ण उपलक्ष्यते, — [सुवर्णः]
सुवर्णवर्णश्चेति त्रयः । अस्याश्चत्वार ऋगादयो वेदाः उच्छासाः त एव तस्याः
शरीरम् । अङ्गानि निरुक्तादीनि षड् वेदाङ्गानि । तान्येव तस्या अङ्गानि ।
ओषधिवनस्पतय एवास्या लोमानि । तथा अस्या द्वे शिरसी । तयोरेव
प्रदर्शनम् । अमावास्यैकं शिरः । पौर्णमासी द्वितीयं शिरः । तत्रैव
यागकरणात् । चन्द्रादित्यौ एव अस्याश्चक्षुः । चक्षुषी इत्यर्थः ।
आज्यभागाख्ये कर्मणी एव अस्या हुतं हवनस्थानम् । मुखमित्यर्थः ।
यागे या दक्षिणा सैव प्रावृतावरणं तस्याः । बृहद्रथन्तरं बृहद्रथ-
न्तरसामनी एव बाहू इति शेषः । ऋग्यजुःसाम । ऋगादयस्त्रयो
वेदाः गतिः । पादा इत्यर्थः । एवंविधा या स्वाहा सैव स्वधा ।
नान्या । तथा सः वषट्कारः । सैषा स्वाहा देवेषु देवयज्ञेषु
- Bh om. ब्रह्मणेव; JT om. एव.
- BhK. पितावस्त्येव, M. मात्रा पित्रा यत्येव for एतावत्येव.
- Bh RIK. add. पद्मवर्णः (M. ०वर्णे) after पद्मः; M. पद्मं for पद्मः; M. om. पद्मवर्ण.
- Bh I. उच्छासः for उच्छासाः; RBhMIK. om. त०; BhMK. om. एव तस्याः
- R. तस्य for तस्या०.
- RBhK. अस्य for अस्या०.
- RI एकं for द्वितीयं.
- BhTK. चन्द्रमा० for चन्द्रा०; RBh TIK add चन्द्रादित्यौ after ०दित्यौ.
- MK. मुख्यम् for मुखम्.
- RBhMKTI om. बृहद्रथन्तरं; RJI. बृहद्रथन्तरे for बृहद्रथन्तर०
- J. adds वेदांख्यः उच्छासः after साम; RKMI. ०सामादयः for ०साम। ऋगादयः.
प० 13