सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 194, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 194

वषट्कारभूता सती प्रयुज्यते । सैव स्वधाभूता पितृयज्ञेषु प्रयुज्यते
इत्याश्रयनिरूपणम् । शकटीमुखीं पृथिवीम् अधिष्ठाय अन्तरिक्षेण
[अन्तरिक्ष] मार्गेण विपर्येति । स्वाहा सर्वं स्वर्गादिफलं प्राप्नोतीति[अर्थः] । तस्याः
स्वाहाया अग्निर्दैवतं अग्नेरेव देवता । रूपं ब्राह्मणः । तत्प्राधान्यात् । हे
प्रजापते ! त्वत्तोऽन्यः कश्चित् सर्वाणि भुवनानि परिभवितुं न शक्नोति । अतस्ते
तुभ्यं वयं यत्कामा यत्फलं कामयमानाः जुहुम तत् फलं नोऽस्माकम्
अस्तु । किं च । वयं रयीणां धनानां पतयः स्याम भवेम । स्वाहेत्यनेन
स्वाहायाः प्रजापतिपरिग्रहो दर्शितः ॥ २ ॥
यथोक्तरूपां स्वाहां प्रशंसति—
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
ब्रह्मवर्चसेनेति ॥ ३ ॥
तस्य स्वाहाकारपरिग्रहेण तृप्तस्य प्रजापतेः तृप्तिमनु यजमानः
प्रजया पुत्रपौत्रादिकया पशुभिः गवादिभिः अन्नाद्येन तेजसा ब्रह्मवर्चसेन,—
[ब्रह्मवर्चसं] वृत्तस्वाध्यायतेजः तेन,—च तृप्यति । इतिशब्दोऽध्यायपरि-
समाप्तिद्योतनार्थः ॥ ३ ॥
इति षड्विंशब्राह्मणे पञ्चमाध्याये
सप्तमः खण्डः ॥ ७ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्य-
धुरंधरेण सायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे
षड्विंशब्राह्मणे सव्याख्याने पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥

  1. Bh J. ० इत्याशय० for इत्याश्रय०; MTK. ०मुख for ०मुखीं.
  2. Bh. ०पर्य्येति, M. ०पर्यस्येति for विपर्येति.
  3. RIK. om. अग्निर्दैवतं; M. देवता for दैवतं.
  4. T. धर्माणां for धनानां.
  5. RI. स्वाहा० for स्वाहाकार०.
  6. JMKT om. वृत्तस्वाध्यायतेजः तेन च.
    22.. R. ब्राह्मणव्याख्याने, K. ०ब्राह्मणे व्याख्यायां for ०ब्राह्मणे सव्याख्याने,
    K. after Colophon adds षड्विंशब्राह्मण(व्याख्यान)स्समाप्तः ॥ श्रीगणेशाय
    नमः ॥ This ms. concludes here.