सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 181, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 181

पञ्चमोऽध्यायः (४) [पृ. १८१]

अथ यूपस्याश्रिदैवतान्युच्यन्त इति शेषः । पूर्वायामश्रावग्निर्दैवता ।
अन्यत्समानम् । या विदिशः सन्ति ता विदिशस्ते प्रसिद्धा आदित्यादयो
यथासंख्यमधितिष्ठन्ति । अपराजिताः । यस्यां दिशि देवा असुरैः पराजिता
नाभवन् सा अपराजिता । अधरा दिगित्यर्थः । सा पितृभ्यः । ऊर्ध्वायां च
दिशि साध्याः तिष्ठन्ति । [सा] तद्देवत्येत्यर्थः ॥ ९ ॥
यथोक्तं यूपं प्रशंसति—
सर्वदेवत्यो वै यूपः । यूपो वै बहुरूपः वज्रीभूत्वा
देवानुपतिष्ठते ॥ १० ॥
अत एव सर्वदेवत्यो यूपः । किं च यूपोऽनेकाश्रित्वाद बहुरूप एव
यद् वज्रीभूत्वा वज्रात्मकत्वं प्रतिपद्य देवानुपतिष्ठते ॥ १० ॥
अथ प्रकारान्तरेण यूपमेव प्रशंसति—
ते देवाः प्रजापतिमुपाधावन् । यूपेन प्रहरन्त्यारोप-
यन्त्यायोधयन्ति च । तद्यूपस्य यूपत्वम् ॥ ११ ॥
प्राप्तयुगास्ते देवाः प्रजापतिमुपाधावन् । उपेत्य च ते लब्धानुज्ञाः
सन्तः यूपेन वज्रात्मकेन राक्षसान् प्रहरन्ति आरोपयन्ति आवृण्वते च ।
तथा आयोधयन्ति तैः सह युद्धं कुर्वन्ति तत् तेन यूपस्य यूपत्वम् ॥ ११ ॥
तत्रैव धर्मान्तरं विधत्ते—
मूलमरत्निं सत्वचं निखनेत् ॥ १२ ॥


पादटिप्पणी (Footnotes):

  1. T. यूपस्थानि, KM. यूपस्याश्रीर for यूपस्याश्रि०.
  2. RI. तासु for ताः; RI om. विदिशस्ते प्रसिद्धा See CN. ;
    T. दिश० M. तादृश० for विदिश०.
  3. M. ०संख्याः तिष्ठन्ति for ०संख्यमधितिष्ठन्ति ; RI. या दिक् for
    यस्यां दिशि ; RJMIK. अपराजिता ; for पराजिताः.
  4. J. तद्देवत्येभ्यः for तद्देवत्येत्यर्थः.
  5. JM. trans. एव after. ०देवत्यः.
  6. MT. तद् for ते.
  7. JR. आवृण्वन्त्येव for आवृण्वते च.