षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 191, कुल 226 में से
संदर्भ में पढ़ेंपुष्ये चानुमतिर्ज्ञेया सिनीवाली तु द्वापरे ।
खार्वार्यां तु भवेद्राका कृतपर्वे कुहूर्भवेत् ॥ ५ ॥
पुष्ये । पुष्यत्यस्मिन् अधर्मः शीघ्रमिति पुष्ये कलियुगे अनुमतिः श्रेष्ठेति
ज्ञेया । तथा द्वापरे सिनीवाली श्रेष्ठा । खार्वार्याम् । खर्वौ समौ धर्माधर्मौ
यस्यां त्रेतायां सा खार्वा । तस्यां राका श्रेष्ठा भवेत् । तथा कुहूः कृतपर्वे
कृतयुगसंबन्धि पर्व । [तस्मिन्] भवेदिति ॥ ५ ॥
अनुमत्यादीनां लक्षणमाह—
न्यूने चानुमतिं विद्यात् । यस्मिन् दृश्येत सा
सिनीवाली । राका यदि संपूर्णः । चन्द्रस्तु कुहूर्न
दृश्येत ॥ ६ ॥
न्यूने चन्द्रे कलाहीने सति पौर्णमासीम् अनुमतिं विद्यात् । यस्मिन्
दर्शे चन्द्रमा दृश्येत सा अमावास्या सिनीवालीति ज्ञेया । यदि चन्द्रमाः
संपूर्णः दृश्येत सा पौर्णमासी राका । यत्र तु चन्द्रो न दृश्येत सा
अमावास्या कुहूरिति ज्ञेया ॥ ६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
पञ्चमाध्याये षष्ठः खण्डः ॥ ६ ॥
- ShMs. वालीति for ०वाली तु.
- Ms. ०पूर्वे for ०पर्वे; T. कृते पर्व for कृतपर्वे.
- JM. om. first पुष्ये ; J. पुष्यन्ति अस्मिन् अधर्माः for
पुष्यति अस्मिन् अधर्मः; M. धर्मे, TKI. धर्मः for अधर्मः. - RJ. add भवति after श्रेष्ठा.
- TBh K. खर्वा for खार्वा ; RK. ०पर्व, M. ०पर्वा for ०पर्वे.
- M. ०संबन्धपर्वा for ०संबन्धि पर्व.
- J. लक्षणानि दर्शयति for लक्षणमाह.
- RJ. राकायां, Bh. राका यस्तु for राका यदि.
- T. दृश्यते for दृश्येत.
- TJ. ०रहिते ०हीने.
- Bh. देशे for दर्शे; RK. दृश्यते for दृश्येत; RK om. इति.
- RBh JK. दृश्यते for दृश्येत ; Bh T. चन्द्रमा० for चन्द्रो०.