षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 177, कुल 226 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः (३) १७७
अथ यथोक्तौदुम्बर्युच्छ्रयणस्यापचितिसाधनतामाख्यायिकयोपपादयति—
प्रजापतिरकामयतापचितिं प्राप्नुवानीति । ऊर्गुदुम्बरः ।
ऊर्गन्नम् । अन्नं साम । तस्मात् सामगेभ्योऽपचितिं
करवाणि इति । य एवं वित्त्वौदुम्बरीमुच्छ्रयत्यपचिति-
मेवाप्नोति ॥ ६ ॥
पूर्वं प्रजापतिरपचितिं प्राप्नुवानीति अकामयत । किं च, उदुम्बरः
ऊर्क् । तद्धेतुत्वात् ऊर्क् च अन्नम् । अन्नं च साम । यतः साम अन्नात्मकं
तस्मात् सामगेभ्यः । साम गायन्तीति सामगाः । तेभ्यः अपचितिं पूजां
करवाणीति प्रजापतिः अकामयतेति संबन्धः । अतो यः पुमान् एवं यथोक्त-
लक्षणामौदुम्बरीं वित्त्वा उच्छ्रयति सोऽपचितिमाप्नोत्येवेति ॥ ६ ॥
इति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥
- RI. अवयुत्या, TK. अवयवोक्तौ for अथ यथोक्तौ ० ; M. om. अथ.
- RTK. om. इति , TMK. कृत्वा for वित्त्वा.
- J. adds अहं after करवाणीति; J. करवाणीति for अकामयतेति.
- JMTK. कृत्वा for वित्त्वा ; J. adds एव after ०चितिम
ष० 12