सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

षष्ठोऽध्यायः
प्रथमः खण्डः
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथ षष्ठाध्याये अद्भुतशान्तिर्निरूप्यते । तत्र प्रथमं तां सविशेषां
दर्शयितुं प्रतिजानीते—
अथातोऽद्भुतानां कर्मणां शान्तिं व्याख्या-
स्यामः ॥ १ ॥
अथ इष्टप्राप्तिसाधनकर्मनिरूपणानन्तरम् अतः अनिष्टपरिहारसाधन-
कर्मनिरूपणस्य प्रस्तुतत्वात् अद्भुतानां दैविकानाम् अनिष्टप्राप्तिसूचकानां
कर्मणां तत्सूचितदोषनिर्हरणसाधनात्मिकां शान्तिं व्याख्यास्यामः । विशेषेणा-
नुवर्णयामः ॥ १ ॥
प्रतिज्ञातां शान्तिं विधत्ते—
पालाशानीं समिधामष्टसहस्रं जुहुयात् ॥ २ ॥
पालाशसमिद्भिः अष्टसहस्रम् अष्टोत्तरसहस्रं जुहुयात् ॥ २ ॥
५. RI. add अनेकधा before तत्र ; RJI. om. तां; K. ०शेषं for शेषां; J. adds शान्तिं after ०शेषां.
९. M. अनिष्टप्राप्तिसूचकाद्भुतदर्शनानन्तरं यतः शान्तिं विना नोपपद्यते अतः for इष्टप्राप्ति...प्रस्तुतत्वात् ; R. om. अतः.
१०. J. प्रस्तुतस्य for प्रस्तुतत्वात् ; M. om. दैविकानामनिष्टप्राप्तिसूचकानां
११. RI. तत्तत् for तत ; JT. साधनात्मकं for साधनात्मिकां ; JMT. om. शान्तिं.
१५. TM. पलाश० for पालाश ; R. adds:-इत्यर्थः after जुहुयात्.

१९६ षड्विंशब्राह्मणम्
तत्र देवताप्रकाशकान् मन्त्रान् दर्शयति—
ऐन्द्र-याम्य-वारुण-धानद-आग्नेय-वायव्य-सौम्य-वैष्णव्ये-
त्यष्टौ ॥ ३ ॥
ऐन्द्रः इन्द्रदेवत्यः । सर्वेऽपि देवतावाचकाः शब्दाः तद्धितान्ताः ।
ऐन्द्रादयो वैष्णव्यान्ता अष्टावृचः । ताभिर्जुहुयात् इत्यर्थः ॥ ३ ॥
ता एव ऋचः प्रतीकैर्र्दर्शयति—
इन्द्रायेन्दो मरुत्वते (सा. ४६२), नाके
सुपर्णमुप यत्पतन्तम् (सा. ३२०), घृतवती भुवनानाम्
(सा. ३७८), अभि त्यं देवं सवितारमोण्योः (सा. ४६४),
अग्निं दूतं वृणीमहे (सा. ३), वात आ वातु भेषजम्
(सा. १८४), सोमं राजानं वरुणम् (सा. ९१) इदं
विष्णुर्विचक्रमे (सा. २२२) इति ॥ ४ ॥
एता ऋ

षष्ठोऽध्यायः (१) १९७
कुर्यादित्यर्थः । तथा च सति एषां यजमानानां स्वस्ति अनिष्टपरिहारद्वारेण
मङ्गलं भवत्येव ॥ ५ ॥
स्वस्तिवाचनमन्त्रान् प्रतीकैः दर्शयति—
स्वस्तिदा विशस्पतिः (ऋ. वे. १०.१५२.२)
स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं (ऋ. वे. खि. २.४.१) त्यमूषु
वाजिनं देवजूतम् (ऋ. वे १०.१७८.१) आयुर्विश्वायुः
(ऋ. वे. १०.१७.४) शतं जीव शरदो वर्धमान (ऋ. वे.
१०.१६१.४) इति ॥ ६ ॥
एते मन्त्रा उत्तरग्रन्थे स्पष्टमस्माभिः व्याख्याताः ॥ ६ ॥
स्वस्तिवाचनमन्त्राणां होमसंभारोपस्थाने विनियोगं दर्शयति—
एतैः संभाराणामुपस्थापनं कृत्वा स्वस्ति वाचयित्वा
स्वस्ति हास्य भवति । स्वस्ति हास्य भवति ॥ ७ ॥
एतैः स्वस्तिदाविशस्पतिरित्याद्यैर्मन्त्रैः संभाराणामुपस्थानं कृत्वा शेषं
कर्म समापयेदित्यर्थः । तथा च सति अस्य यजमानस्य स्वस्ति मङ्गलं
भवत्येव । द्विरुक्तिरादरार्था । शान्तिप्रशंसार्था च । लिङ्गादन्यत्र विनियुक्ता-
नामप्येषां मन्त्राणां श्रुत्या संभारोपस्थाने विनियोगः । यथा ऐन्द्रया
गार्हपत्यमुपतिष्ठते (?) इति श्रुत्या ऐन्द्रया ऋचो गार्हपत्योपस्थाने
विनियोगः ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
षष्ठाध्याये प्रथमः खण्डः ॥ १ ॥

  1. RI. om. तथा च सति; RI. हैषां for एषां.
  2. MT. ०वाचने for ०वाचन०; MJT. add. एव after दर्शयति.
  3. MTI. om. अस्माभिः; M. समाख्याताः for व्याख्याताः.
  4. M. ०वाचनं for ०वाचन०.
  5. M. om. स्वस्ति वाचयित्वा.
  6. अर्थालिङ्गाद् for ०(अ)र्था च । लिङ्गाद्.
  7. RI. एतेषां for एषां; M. adds एव after श्रुत्या
  8. RI. add ऐन्द्रयास्तद्वत after विनियोगः.

द्वितीयः खण्डः

अथ प्रसङ्गाच्छत्रुकृतोपद्रवे प्राप्ते शत्रुविजयार्थं होमविशेषमाख्यायिक-
पुरःसरं दर्शयितुमुपक्रमते
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त । ते देवाः
प्रजापतिमुपाधावन् । तेभ्य एतां दैवीं शान्तिं
प्रायच्छत् ॥ १ ॥
एषु लोकेषु पृथिव्यादिलोकविषये देवाश्चासुराश्च परस्परम् अस्पर्धन्त ।
असुरेभ्यः स्पर्धमाना देवाः प्रजापतिमुपाधावन् । ततः प्रजापतिस्तेभ्य
उपसन्नेभ्यो देवेभ्य एतां वक्ष्यमाणां दैवीं देवसंबंधिनीं शान्तिं शत्रुकृतोपद्रव-
निर्हरणसाधनभूतां प्रायच्छदिति ॥ १ ॥
ततः किमित्यत्राह—
ते ततः शान्तीका असुरानभ्यजयंस्ततो देवा
अभवन् । परासुरा भवत्यात्मना परास्य भ्रातृव्यो भवति ।
य एवं वेद ॥ २ ॥
ततः अनन्तरं ते देवाः शान्तीकाः । प्रहरणार्थे शक्तियष्ट्योरीकक्
(पा. ४.४.५९) इति विहित ईकक्प्रत्ययो बाहुलकाच्छान्तेरपि भवति ।
तेन प्रजापतिदर्शितशान्तिहोमायुधाः सन्तः असुरानभ्यजयन् ।


  1. J. अतः सप्रशंसं for अथ प्रसङ्गात् ; T. प्रशंसना for प्रसङ्गात् .
  2. M. om. एषु...देवसंबन्धिनीं (L.9.) ; RI. om. परस्परम् .
  3. MT. एते अतः for ते ततः; MTSh. शान्तिका for शान्तीका.
  4. JMT. अतः for ततः ; J. एव, MT. एते for ते ; RJMT.
    शान्तिकाः for शान्तीकाः.
  5. T. ०युधकाः for ०युधाः ; RI. om. असुरानभ्यजयन् ; T.
    ०जयन्त for ०जयन् .

ततो देवाः शत्रुकृतोपद्रवरहिता अभवन् । असुरास्तु पराभूता आसन् ।
किं च, य एवमुक्तप्रकारेण वेद तस्यास्य भ्रातृव्यः शत्रुः आत्मना स्वेनैव
परामवति ॥ २ ॥
यदर्थमाख्यायिका दर्शिता तं होमं सेतिकर्तव्यताकं दर्शयति—
अथ पूर्वाह्ण एव प्रातराहुतिं हुत्वा दर्भाञ्छमीं
वीरणान् दधि सर्पिः सर्षपान् फलवतीमपामार्गं शिरीष-
मित्येतान्याहरेदाहारयेद्वा स्नातः प्रयतः शुचिः शुचि-
वासाः स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्यु-
क्ष्याग्निमुपसमाधाय नित्यतन्त्रेणौदनकृसरयवागूरक्तपायस-
दधिक्षीरघृतपायसघृतमिति घृतोत्तराः पृथक् चरवः सर्वे ।
सर्वेषां वा पायसः ॥ ३ ॥
अथशब्दो वाक्योपक्रमे । पूर्वाह्ण एव प्रातः [आहुतिं] नैत्यका-
ग्निहोत्रहोमं हुत्वा वीरणान् तत्संज्ञकान् तृणविशेषान् । फलवतीं
प्रियङ्गुम् । अन्यत् प्रसिद्धम् । इत्येतानि दर्भादीनि संभारद्रव्याणि स्वयमेव
आहरेद् यजमानः । पुत्रादिना वा आहारयेत् । आहृत्य च तानि स्नातः
प्रयतः वाग्यतः शुचिः सन् शुद्धवासाः नित्यतन्त्रेण नैत्यकेन तन्त्रेण
स्थण्डिलमुपलिप्य गोमयेन । तत्स्थण्डिलम् अद्भिः प्रोक्ष्य । लक्षणं
स्वशाखोक्तविधिमनतिक्रम्य दर्भैः स्थण्डिलम् उलिख्य पुनरद्भिः अभ्युक्ष्य


  1. RIT ते for ततो.
  2. J. om. तस्य.
  3. J. om. प्रातः ; TKM. नित्यकर्म for नैत्यक.
  4. JMT. ०होत्रं for ०होत्रहोमं ; J. ०संज्ञान् for संज्ञकान् ; Rl.
    फलवती for फलवतीं.
  5. RI. प्रियङ्गुः, J. प्रियङ्गुकां for प्रियङ्गुं ; J. अपामार्गं for अन्यत्.
  6. KI. शुक्लवाससा for शुद्धवासाः ; J. om. नैत्यकेन तन्त्रेण.
  7. J. om. लक्षणं.
  8. RMI. om. अद्भिः; M. प्रोक्ष्य for अभ्युक्ष्य.

२०० षड्विंशब्राह्मणम्
अग्निमुपसमाधाय, इन्द्रायेन्दो मरुत्वते (स'. ४७२) इत्याद्यैरिन्द्रादि-
देवत्यैरष्टभिः पूर्वोक्तैर्मन्त्रैर्वक्ष्यमाणैर्द्रव्यैः इन्द्रादीनुद्दिश्य प्रत्येकमष्टोत्तरशतं
जुहुयादिति शेषः । द्रव्याणां प्रदर्शनम्—ओदनेत्यादि । कृसरं मुद्गादिमिश्रै-
स्तण्डुलैः पक्वमन्नम् । रक्तपायसं रक्तशालितण्डुलैः पक्वं पायसम् । घृतपायसं
घृतमिश्रेण क्षीरेण पक्वं पायसम् । अन्यत् प्रसिद्धम् । एते सर्वे ओदनादयो
द्रव्यविशेषाः पृथक् घृतोत्तराः चरवः । एतेषामलाभे घृतोत्तराश्चरव एव ग्राह्या
इत्यर्थः । अथवा, सर्वेषां तेषामलाभे पायसः परमान्नमेव ग्राह्यमित्यर्थः ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये द्वितीयः खण्डः ॥ २ ॥
2. M. वीक्ष्यमाणैः RI. वक्ष्यमाण० for वक्ष्यमाणैः.
3. JMT. om. ओदनेत्यादि ; M. कृसर० for कृसरं.
4. RI. रक्तपायतः for रक्तपायसं; M. आरक्तशालि० for रक्तशालि०;
RI. अन्नम् for पायसम् .
5. M. नीरेण for क्षीरेण; J. adds एव after क्षीरेण.
6. RI. add:—ओदनादीनाम् after एतेषाम् ; J. अभावे for अलाभे
MJT. om. एव.

तृतीयः खण्डः
इदानीमैन्द्राद्भुतविशेषे होमविशेषं दर्शयितुं तदङ्गत्वेन कंचिन्नियमं
तावद्दर्शयति—
स प्राचीं दिशमन्वावर्तते ॥ १ ॥
सः वक्ष्यमाणाद्भुतविशेषनिमित्तवान् प्राचीं दिशम् अन्वीक्ष्य आवर्तते
होमकरणार्थं प्रवर्तते । वक्ष्यमाणानामद्भुतविशेषाणां प्राच्या दिशोऽपि
इन्द्रादिसंबन्धित्वाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य मणिमणिककुम्भस्थालीदरणमायासो
राजकुलविवादो वा यानच्छत्रशय्यासनावसथध्वजपताका-
गृहैकदेशप्रभञ्जनेषु गजवाजिमुख्या वाप्रमीयाः प्रमीयन्त
इत्येवमादीनि तान्येतानि सर्वाणीन्द्रदेवत्यान्यद्भुतानि
प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनः यदास्य पुरुषस्य संबन्धिनां मणिः हारादिसंबद्धः ।
तदादीनां दरणं भेदनम् । आयासः चित्तपीडा । अथवा राजकुलेन सह
... J. om. विशेषे होम०; TM. ०विशेष० for ०विशेषे; J. नियमान्तरं
for नियमं तावद् .
5. M. वीक्ष्यमाण० वक्ष्यमाण०
6. J. प्रवर्तेत for प्रवर्तते.
8. RJI. om. इदानीं; MT. विशेषणां for विशेषान् .
9. M. ०माणिक्य०, T. ०माणिक्क० for ०मणिक०
10. M. om. ०पताका०
14. RMTI. ०संवन्धः for ०संबद्धः.

विवादो भवेत् । तथा यानम् आन्दोलिका । तदादीनां भञ्जनेषु । तेषु
भग्नेष्वित्यर्थः । अपि वा, गजवाजिप्रभृतयः अप्रमीयाः प्रमापणायोग्याः यदि
प्रमीयन्ते । इत्येवमादीनि हारादिभञ्जनादीनि तान्येतानि सर्वाणि अद्भुतानि
इन्द्रदेवत्यानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्तीत्यर्थः ॥ २ ॥
एवं निमित्तानि दर्शयित्वा इदानीं तद्दोषनिर्वहणसाधनं सेतिकर्तव्यताकं
होमं दर्शयति—
इन्द्रायेन्दो मरुत्वते (सा. ४७२) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । इन्द्राय स्वाहा,
शचीपतये स्वाहा, वज्रपाणये स्वाहा, ईश्वराय स्वाहा, सर्वपाप-
शमनाय स्वाहा इति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥ ३ ॥
स्थालीपाकं स्थालीपाकविधानमनतिक्रम्य चरुं श्रपयित्वा इन्द्रायेन्दो^

चतुर्थः खण्डः
याम्यनिमित्तविशेषे होमविशेषं दर्शयितुं तदर्थमपि किंचिन्निमित्तं
दर्शयति—
स दक्षिणां दिशमन्वावर्तते ॥ १ ॥
सः वक्ष्यमाणाद्भुतविशेषनिमित्तवान् होमाधिकारी दक्षिणां दिशम्
अन्वीक्ष्य आवर्तते । होमार्थं प्रवर्तते । निमित्तविशेषाणां दक्षिणाया दिशोऽपि
याम्यत्वाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य प्रजायां पशुषु शरीरे वारिष्टानि
प्रादुर्भवन्ति । व्याधयो वा अनेकविधा अतिस्वप्नमस्वप्नमति-
भोजनमभोजनमालस्यं व्रणमजीर्णनिद्रा[जागरा]णीत्येवमा-
दीनि । तान्येतानि सर्वाणि यमदेवत्यान्यद्भुतानि
प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनः यदास्य पुरुषस्य संबन्धिषु प्रजाया पुत्रादिकया सहितेषु
पशुषु गवादिकेषु स्वशरीरे वारिष्टानि पीडाः प्रादुर्भवन्ति । अथवा अनेकविधा
ज्वरादयो व्याधयः प्रादुर्भवन्ति । तथा अतिस्वप्नं दुःस्वप्नं दृश्येत ।
अस्वप्नम् अनिद्रा । अतिभोजनं भस्मकरोगवशेन बहुतरान्नाभ्यवहारः ।
2. J. om. ०विशेषे ; M. नियमं for निमित्तं.
6. JM. om. प्रवर्तते; RI. दक्षिणा, M. दक्षिण० for दक्षिणाया.
11. RIJ. om. इति.
16. J. दर्शनं for दुःस्वप्नं; M. दर्शनं T. दर्शितं for दृश्येत,

अभोजनम् अरुच्यादिना । आलस्यं वृथालसता । व्रणं शस्त्रादिना
ग्रन्थ्यादिना वा । अजीर्णं क्षुदभावेन भुक्तस्याहारस्याजरणम् । निद्रा
अतिनिद्रा । [जागरं] च । इत्येवमादीनि नेत्रादिदोषाः । तान्येतानि सर्वाणि
यमदेवत्यानि अद्भुतानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
एवं निमित्तविशेषान् दर्शयित्वा इदानीं तद्धेतुदोषनिर्हरणसाधनं होमं
सेतिकर्त्तव्यताकं दर्शयति—
नाके सुपर्णम् (सा. ३२०) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । यमाय स्वाहा, प्रेता-
धिपतये स्वाहा, दण्डपाणये स्वाहा, ईश्वराय स्वाहा, सर्वपाप-
शमनाय स्वाहा, इति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥ ३ ॥
नाके सुपर्णम् (सा. ३२०) इत्यनया स्थालीपाकं हुत्वा पुनर्यमाय
स्वाहेत्यादिभिः पञ्चभिर्मन्त्रैः पञ्चभिराज्याहुतिभिरभिजुहोति जुहुयात् । ततस्तत्र
न्यूनातिरेकप्रायश्चित्तार्थं व्याहृतिभिर्हुत्वा अथ पश्चात् नाके सुपर्णम्
(सा. ३२०) इत्यस्यामृचि साम गायेत् । पूर्ववत् स्वस्तिवाचनं
कुर्यादिति ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये चतुर्थः खण्डः ॥ ४ ॥

  1. JMT. om. शस्त्रादिना ग्रन्थ्यादिना वा.
  2. RI. निद्रादयः for निद्रा; JMT. om. निद्रा.
  3. RI. अतिनिद्रादयः for अतिनिद्रा; TMJ. om. इति.
  4. JT. om. प्रायश्चित्तानि.
  5. R. adds यः before एवं; T. निवहर्ण० for ०निर्हरण०
  6. RI. om. नाके....पुनर्; M. om. नाके...इत्यनया.
  7. M. om. पञ्चभिर्मन्त्रैः.
  8. RI. add च after व्याहृतिभिः; RMTI. om. अथ.
  9. R. adds अर्थः after इति.

पञ्चमः खण्डः
अथ वारुणनिमित्तविशेषे होमविशेषं दर्शयितुं तदर्थं नियमं दर्शयति—
स प्रतीचीं दिशमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणनिमित्तवान् अधिकारी प्रतीचीं पश्चिमां दिशम् अन्वीक्ष्य
आवर्तते होमकरणार्थं प्रवर्तेत । तन्निमित्तविशेषाणां प्रतीच्या दिशश्च
वरुणसंबन्धित्वाद्विशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य क्षेत्रगृहसंस्थेषु धान्येष्वीतयः प्रादु-
र्भवन्ति । ईतयो वानेकविधाः— आखु-पतङ्ग-पिपीलिका-
मध्वक-भौमक-शुक-शरभक-सौक्ष्मक इत्येवमादीनि ।
तान्येतानि सर्वाणि वरुणदेवत्यान्यद्भुतानि प्रायश्चित्तानि
भवन्ति ॥ २ ॥
अथ यदास्य पुरुषस्य क्षेत्रगृहसंस्थेषु क्षेत्रस्थेषु गृहस्थितेषु वा
धान्येष्वीतयः वक्ष्यमाणाः प्रादुर्भवन्ति । ईतीरेव प्रदर्शयति । ईतयो वा
अनेकविधा अनेकप्रकाराः खलु । आखुः मूषिकः । पतङ्गः पक्षिविशेषः ।
पिपीलिकाः प्रसिद्धाः । मध्वका मधुमक्षिकाः । भौमकाः भूमौ भवाः
2. RI. वरुण० for वारुण०; J. ०विशेष० for ०विशेषे; M. om.
विशेषे होम०.
4. M. adds अपि होम० after निमित्तवान् .
5. RIT. प्रवर्तते for प्रवर्तेत; JM. om. तन् .
7. T. ०विशेषे होमविशेषं for ०विशेषान् .
13. RMI. om. क्षेत्रगृहसंस्थेषु; J. क्षेत्रस्थितेषु for क्षेत्रस्थेषु; M.
गृहसंस्थेषु for गृहस्थितेषु.
14. JM. ईतीनामेव प्रदर्शनम् for ईतीरेव प्रदर्शयति; J. add ताः
before ईतयो०
16. RI. मक्षिकाः, J. मधुमक्षिकाविशेषाः for मधुमक्षिकाः.

क्षुद्रजन्तवः । शुकाः कीराः । शरभकाः प्रसिद्धाः । सौक्ष्मकाः सूक्ष्मसंबन्धि-
जन्तवः । इत्येवमादीनि अतिवृष्ट्यादीनि । तान्येतानि सर्वाण्यद्भुतानि वरुण-
देवत्यानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
अथ तद्धेतुपापनिर्हरणसाधनं होमं सेतिकर्तव्यताकं दर्शयति—
घृतवती (सा. ३७८) इति स्थालीपाकं हुत्वा
पञ्चभिराज्याहुतिभिरभिजुहोति वरुणाय स्वाहा, अपां पतये
स्वाहा, पाशपाणये स्वाहा, ईश्वराय स्वाहा, सर्वपापशमनाय
स्वाहा इति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥ ३ ॥
३ १२ ३ ३ २ ३ २ ३ २ ३ १ २ ३ १२ ३ १ २
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
१ २ ३ १ २२ ३ १ २ ३ १ २ ३ २ ३ १ २
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥
(सा. ३७८) इत्येषा ऋक् । अन्यत् पूर्ववद्व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये पञ्चमः खण्डः ॥ ५ ॥

  1. J. कीटाः, M. शाराः, T. कीरकाः for कीराः ; J. संबन्धिनः
    for संबन्धिजन्तवः.
  2. R¹. om. अतिवृष्ट्यादीनि; M. अवृष्ट्यादीनि for अतिवृष्ट्यादीनि.

षष्ठः खण्डः
अथ वैश्रवणनैमित्तिकं होमं दर्शयितुं तदर्थमपि किंचिन्नियमं दर्शयति—
स उदीचीं दिशमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणनिमित्तवान् अधिकारी उदीचीं दिशम् अन्वीक्ष्य आवर्तते
प्रवर्तते होमार्थम् । निमित्तविशेषाणाम् उदीच्या दिशश्च वैश्रवणसंबन्धित्वा-
विशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य कनकरजतवरवस्त्रवज्रवैडूर्यमुक्तामणि-
वियोगो भवति । आरम्भा वा विपद्यन्ते । अथवा अन्यानि
क्रूराणि मित्राणि वा विरज्यन्ते । अरिष्टानि वा वयांसि
गृहमध्यासन्ते । वाल्मीकभौमानि वा जायन्ते । छत्राकं
वोपजायते । मधूनि वा निलीयन्ते । इत्येवमादीनि ।
तान्येतानि सर्वाणि वैश्रवणदेवत्यान्यद्भूतानि प्रायश्चित्तानि
भवन्ति ॥ २ ॥
अथ पुनरस्य पुरुषस्य यदा कनकादिभ्यो वियोगो भवति ।
अथवा आरम्भा उद्योगा विपद्यन्ते । निष्फला भवन्ति । अथवा, अन्यानि
क्रूराणि पिशाचादिदर्शनादीनि, अपि वा मित्राणि सुहृदो विरज्यन्ते
5. JM. om. प्रवर्तते ; JM. कुबेर० for वैश्रवण० ; RI. संबन्ध०
for संबन्धित्व०
11. अध्यासन्ते See CN.
12. M. ०दृश्यते for ०जायते.
16. M. विपच्यन्ते for विपद्यन्ते.

विद्धिषन्ति । अथवा, अरिष्टानि दुःखसूचकानि । वयांसि काकादीनि
स्वगृहमध्यासते । वाल्मीकभौमानि भूमौ भवानि प्राणिजातानि जायन्ते ।
प्रादुर्भवन्ति । अथवा छात्राकं सिलिम्रह उपदृश्यते । अथवा मधूनि सरघा
वाभिनिलीयन्ते स्वगृहे । एवमादीनि तान्येतानि सर्वाणि अन्यान्यपि
अद्भुतानि वैश्रवणदेवत्यानि कौबेराणि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि
भवन्ति ॥ २ ॥
अथ तद्धेतुकदोषनिर्हरणसाधनं होमविशेषं सेतिकर्तव्यताकं
दर्शयति—
अभित्यं देवम् (सा. ४६४) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । वैश्रवणाय स्वाहा,
यक्षाधिपतये स्वाहा, हिरण्यपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वाथ साम
गायेत् ॥ ३ ॥
अ॒भि³ त्यं²उ देवँ॑³ ¹ सवितारमोण्योः² ³ १२ ३क कविक्रतुमर्चामि²र ³ १२ ३ सत्यसवँ¹ २ ३ १२
रत्नधाम॒भि³ २ ३ प्रियं² म॒तिम्³ २ । ऊ॒र्ध्वा³ यस्याम॑तिर्भा²उ ³ २ ३ १ अदिद्युतत्सवीमनि६र ३ १ ५ ३
हिरण्यपाणिरममीत¹ ३ सुक्रतुः³ १२ ३ १ कृपा स्वः² ॥ (सा. ४६४) इत्येषा ऋक् ।
अन्यत् पूर्ववद्व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
षष्ठाध्याये षष्ठः खण्डः ॥ ६ ॥


  1. M. अध्यासन्ने for अध्यासन्ते; JM. add: गृहे after अध्यासन्ते.
  2. J. छिलिहिन्दः गृहजं, R. सिलिग्रहः M. सिलिकं for सिलिम्रहः;
    उपदृश्यते See CN.
  3. for तान्येतानि सर्वाणि अन्यानि JM. subst: अन्यान्यपि सर्वाणि.
  4. for निर्हरण० J. subst: ०निबर्हण० ; J. होमं, M. स्तोमं for होमविशेषं.
  5. JM. आज्याहुती: for आज्याहुतिभि:.

सप्तमः खण्डः
अथ अग्निदेवताकनिमित्तविशेषे होमविशेषं दर्शयितुं तदर्थमपि नियमं
दर्शयति—
स पृथिवीमन्वावर्तते ॥ १ ॥
स निमित्तविशेषवान् पृथिवीमन्वीक्ष्यावर्तते होमार्थं प्रवर्तते ।
वक्ष्यमाणनिमित्तानां पृथिव्याश्चाग्नेयत्वाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य पृथिवी तटति, स्फुटति, कूजति,
कम्पति, ज्वलति, रुदति, धूमायति, अकस्मात्सलिलमुद्गिरति,
प्लवन्न मज्जति, न निमग्नमुत्प्लवति, अकाले च पुष्पफलमभि-
निर्वर्तत्यश्वतरीगर्भो जायते ; यदा मज्जति हस्तिनी,
भूकम्पो जायते, प्रासादं भिनत्ति यत्र तत्र राजा विनश्यति
गौर्गृहमारोहेद् ग्राममहिषीत्येवमादीनि तान्येतानि
सर्वाण्यग्निदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य संबन्धिनी पृथिवी तटति तटतटेति शब्दं करोति ।
स्फुटति भिद्यते । कूजति शब्दं करोति । कम्पति कम्पते । ज्वलति
2. JM. तदङ्गत्वेनादौ पृथिवीनिरीक्षणपूर्वकमावर्तनं for तदर्थमपि नियमं.
5. J. om. स निमित्त......न्वीक्ष्यावर्तते; JM. om. प्रवर्तते.
10. M. नमग्न for निमग्न ; KI. om. न before निमग्नम् .
11. RIS. निर्वर्तयति for निर्वर्तति; JRI. add इति after निर्वर्तति.
12. MSh Ms. प्रासादा[न्] for प्रासादं.
५० 14

२१० षड्विंशब्राह्मणम्
अग्न्यादिसंबन्धं विनैव। रुदति रोदिति। धूमायति अग्निं विनैव धूमप्रचुरो
भवति। अकस्मात्सलिलमुद्गिरति वृष्टिं विनैव। तथा सलिले प्रक्षिप्तः पाषाणः
प्लवन्न मज्जति प्लवमान एव तिष्ठति, न तु मज्जति। निमग्नं मृतशरीरम् उदके
प्रक्षिप्तं नोत्प्लवति, किं तु निमज्जति। किं च, अकाले पुष्पं च फलं च
पुष्पफलम् अभिनिर्वर्तति वृक्षमभितो जायते। तथा अश्वतर्यां गर्भो
जायते। अश्वतर्याः प्रजापतिना आत्तेरतस्कत्वात् गर्भाभावः। तस्मादश्वतरी
अप्रजा। आत्तरेता हि (तां. ब्रा. ६.१.४.) इति श्रुतेः। तथा
यदा यस्मिन् देशे हस्तिनी करिणी मज्जति निर्निमित्तमुदके निमज्जति।
तथा यत्र यस्मिन् देशे भूकम्पो जायते तत्र तदा तद्देशाधिपती राजा
विनश्यति। किं च यदा गौर्गृहमारोहेत् ग्राममहिषी वा। गृहमारोहेद्
इत्यनुषङ्गः। आरण्यकमहिष्या गृहारोहणासंभवाद् ग्राममहिषीति विशेषणम्।
इत्येवमादीनि ग्रामसूकरादेर्गृहारोहणादीनि इत्यादिशब्दार्थः। तान्येतानि सर्वा-
ण्यद्भुतान्यग्निदेवत्यानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति॥ २॥
तत्र तद्धेतुदुरितापूर्वनिर्बर्हणसाधनं होमं सेतिकर्तव्यताकं दर्शयति—
अग्निं दूतं वृणीमहे (सा. ३) इति स्थालीपाकं हुत्वा
पञ्चभिराज्याहुतिभिरभिजुहोति। अग्नये स्वाहा, हविष्पतये

  1. J. om. अग्न्यादि०; R. om. एव.
  2. JM. transp. सलिलमुद्गिरति after विनैव.
  3. JM. om. न मज्जति. See CN; M. न नमं for निमग्नं.
  4. RI. उत्प्लवते for उत्प्लवति; M. adds च after अकाले.
  5. RI. निर्वर्तयति for निर्वर्तति; J. adds इति after निर्वर्तति;
    JM. after तथा add सति; RI. अश्वतरी० for अश्वतर्यां.
  6. R. आक्तेरतस्कत्वात्, JM. अरेतस्कत्वात् for आत्तेरतस्कत्वात्;
    R. अश्वतरीयप्रजा, JM. अश्वतरी न जायते for अश्वतरी अप्रजा.
  7. R. आक्तेरेता, J. अरेता, M. आर्तेरेता for आत्तेरेता; RI.
    श्रुतिप्रसिद्धः, J. श्रुतिप्रसिद्धिः for श्रुतेः।
  8. J. om. वा। गृहम्.
  9. M. adds. पूर्ववद् before अनुषङ्गः; J. ०मनुष्य० for ०महिष्या.
  10. J. om. (आ)देः; M. ०रोहणाद् for रोहणादीनि; RJI. om. इति.
  11. RMI. ०साधन० for ०साधनं; M. ०कर्तव्यत्वं for ०कर्तव्यताकं.
  12. JM. ०हुतीः for ०हुतिभिः.

षष्ठोऽध्यायः (७)
स्वाहा, अर्चिःपाणये स्वाहा, ईश्वराय स्वाहा, सर्वपापशमनाय
स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम गायेत् ॥ ३ ॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥
(सा. ३) इत्यनया ऋचा स्थालीपाकविधानेन चरूं श्रपयित्वा तं हुत्वा पुन-
रग्नये स्वाहेत्यादिभिः पञ्चभिः मन्त्रैः पञ्चभिराज्याहुतिभिरग्निंजुहोति ।
जुहुयात् । पुनर्न्यूनातिरेकप्रायश्चित्तार्थं व्याहृतिभिर्हुत्वा यथोक्तायामृचि पूर्ववत्
साम गायेत् । स्वस्तिवाचनादि पूर्ववत् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये सप्तमः खण्डः ॥ ७ ॥
4. MI. ०पाकेन for ०पाक०.
5. RI. पञ्चाज्याहुतीः for पञ्चभिराज्याहुतिभिः.
6. RIM. व्याहृतिहोमं कृत्वा for व्याहृतिभिर्हुत्वा.
7. J. om. स्वस्तिवाचनादि पूर्ववत् .

अष्टमः खण्डः
अथ वायुदेवताकनिमित्तविशेषे होमविशेषं दर्शयितुं तदङ्गत्वेनादौ
अन्तरिक्षनिरीक्षणपूर्वकमावर्तनं दर्शयति—
सोऽन्तरिक्षमन्वावर्तते ॥ १ ॥
वक्ष्यमाणनिमित्तानामन्तरिक्षस्य च वायुसंबन्धाविशेषात् वक्ष्यमाण-
निमित्तविशेषवानधिकारी अन्तरिक्षम् अन्वीक्ष्य होमार्थं प्रवर्तते ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य विवाता वाता वायन्ते, अभ्रेषु चापरूपाणि
दृश्यन्ते, खर-करभ-मन्थ-कङ्क-कपोत-उलूक-काक-
श्येन-भास-वायस-गोमायु-संस्थान्युपरि पांसुमांसपेश्यस्थि-
रुधिरवर्षाणि प्रवर्तन्ते, काकमिथुनानि दृश्यन्ते, रात्रौ मणिधनुं
पश्येत्, शशका ग्रामं प्रविशन्ति, वृक्षाः स्रवन्ति रुधिराणि,
आकाशे राजकुलं वसति इत्येवमादीनि तान्येतानि
सर्वाणि वायुदेवत्यान्यद्भूतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
2. RI. om. तदङ्गत्वेन.
5. J. ॰संबन्धित्व॰, M. ॰संबन्धता॰ for ॰संबन्ध॰ ; M. ॰विशेष-
णात् for विशेषात् ; JM. om. वक्ष्यमाण...प्रवर्तते.
7. MI. add अथ before इदानीं ; M. विशेषणं, I. विशेषं for
विशेषान् .
8. M. भेषज॰ for अभ्रेषु चाप॰
9. I. मण्ड for मन्थ.
11. R. मणि धनुं, I. मणिधनं, MS. मणिधनुः for मणिधनुं.
13. MIShMs. वसन्ति for वसति ; M. adds तान्येवमादीनि
before तानि.

षष्ठोऽध्यायः (८) २१३
अथ पुनरस्य देशा यदा विवाता वातमात्ररहिता अतिवाता
अतिशयितवाता वायन्ते । अय वय गताविति धातुः । स्वरितेत्
(Cp. पा. १.३.७२) । अग्रेषु च अपरूपणि पर्वतादिषु निर्निमित्तं भ्रंश-
कृतानि विरुद्धानि रूपाणि दृश्यन्ते । तथा अस्य गृहाणि । खरः गर्दभः ।
करभकः क्रमेलकः । मन्थो मृगविशेषः । कङ्कः पक्षिविशेषः । कपोतादयः
प्रसिद्धाः । गोमायुः क्रोष्टा । एतैः प्रविष्टानि दृश्यन्ते । किंच, उपरि
अन्तरिक्षे पांसवो धूलयः । मांसपेशी मांसखण्डः । अस्थिरुधिरे प्रसिद्धे । एतेषां
वर्षाणि प्रवर्तन्ते । तथा काकमिथुनानि काकमैथुनानि दृश्यन्ते । तथा रात्रौ
मणिधनुं इन्द्रधनुः पश्येत् । किं च शशकाः शशाश्च ग्रामं यदा प्रविशन्ति ।
वृक्षाश्च रुधिराणि स्रवन्ति । आकाशे राजकुलं वसति । गन्धर्वनगरादिक-
मवस्थितं दृश्यत इति शेषः । इत्येवमादीनि । तान्येतानि सर्वाणि वायुदेवत्या-
न्यद्भुतानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥

  1. J. यस्य देशोऽधिकभावान्मात्रअधिकाः for अस्य...रहिताः; M. adds
    ते after विवाताः ; JM. om. अतिवाताः See CN.
  2. J. adds वर्तन्ते after (अ)यन्ते.
  3. M. तद्वेषजारूपाणि, I. भेषजापरूपाणि for अग्रेषु च अपरूपणि ;
    RJ. निर्निमित्तत्वं, M. निमित्त for निर्निमित्तं ; J. प्राकृतात् for भ्रंशकृतानि.
  4. M. ॰कृतविरूपाणि for ॰कृतानि विरुद्धानि रूपाणि.
  5. M. करम्भकः for करभकः ; RI. om. करभकः; J. कङ्क॰ for
    कङ्कः पक्षिविशेषः ; M. om. कङ्कः पक्षिविशेषः.
  6. RI. गोमायवः क्रोष्टारः for गोमायुः क्रोष्टा ; RI. तथा for किं
    च and add स्वस्य गृहस्य वा befor उपरि.
  7. RI. ॰रुधिराणां च for अस्थिरुधिरे प्रसिद्धे । एतेषां.
  8. M. ॰मिथुनादि च, J. मिथुनानि च for ॰मिथुनानि ; MJ. om.
    का कमैथुनानि.
  9. RMI. मणिधनुः for मणिधनुं; J. इन्द्रधनुं for इन्द्रधनुः;
    J. om. शशाः ; MIR. सग्रामं for ग्रामं ; RI. transp. यदा before ग्रामं.
  10. J. वृक्षेभ्यः for वृक्षाः ; M. वसन्ति for वसति and om.
    न्धर्व...विध्यन्त० (p. २१४. L. १.)
  11. RI. पश्यत० for दृश्यत ; J. अर्थः for शेषः.
  12. J. om. प्रायश्चित्तानि.
    16

२१४ षड्विंशब्राह्मणम्

अथ तद्धेतुदुरितापूर्वनिबर्हणसाधनं होमं विध्यन्तसहितं दर्शयति—
वात आवातु भेषजम् (सा. १८४) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । वायवे स्वाहा,
महद्भूताधिपतये स्वाहा, शीघ्रपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम
गायेत् ॥ ३ ॥
वा²त³ आ वा¹तु² भेष³जꣲ¹ श³म्भु¹ म²यो³भु¹ नो² हृ³दे² । प्र² न³ आयू¹ꣳ²षि
तारिषत् ॥ (सा. १८४) इत्येषा ऋक् । अन्यत् पूर्ववद् व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये अष्टमः खण्डः ॥ ८ ॥


पादटिप्पणी (Footnotes):

  1. R1. om. ०निबर्हण०
  2. JM. ०हुती for ०हुतिभि०