रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
प्रथमाननम् ३
श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः
काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् ।
नापि स एव । प्रसिद्धाया अव्यापकत्वेन यत्किञ्चिदनुरक्ताननुरक्तनरतापहारकत्वमित-
रेषामनुरक्तानामपि तापाऽहारकत्वं चास्ति, अस्याः पुनरशेषानुरक्तजनमात्रतापहा-
रित्वम्, 'कामाल्लोभाद्भयात्', 'काले कारुणिक त्वयैव कृपया ते तारणीया नराः'
इत्यादिरीत्या वाऽनुरक्ताननुरक्तमात्रतापहारित्वमिति । अभङ्गुरेत्यादिनापि स एव,
प्रसिद्धकादम्बिनीवलयीभूतविद्युतस्तनुत्विङ्भङ्गुरा, अस्याः पुनरभङ्गुरा सेति हेतोः ।
बहुवचनान्तेन शतशब्देनानन्त्यार्थकेन च विद्युतां कादम्बिनीव्यापकत्वमत एव च
वलयितेत्यस्य वेष्टितेति तात्पर्यम् । प्रसिद्धविद्युतस्तु शतसंख्याकत्वमपि नास्ति युगपत्,
प्रत्यक्षत एव तद्बाधात् । विनष्टाविनष्टयोश्च सह संख्यानाभावादतीतकालिकत्वा-
दिनापि न निर्वाहः । कथञ्चित् सह संख्यानेऽपि व्यापकत्वं तु तस्याः प्रत्यक्षबाधि-
तमेव । अतोऽत्रापि व्यतिरेको निर्बाधः । द्रुमस्य च कादम्बिन्यालम्बनत्वेन चित्त-
द्रवीभवनरूपावस्था सूच्यते । चुम्बनशब्देन च विषयप्रतिपादनाद्विषयिणस्तन्मयत्वं
सूच्यते । तथा च गीता—
'तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः' इति ॥
कादम्बिनीति स्त्रीलिङ्गनिर्देशोऽनुरागातिशयसूचनाय । अन्येप्यर्था यथाप्रज्ञ-
मव्यवसेयाः । को हि नाम ना शक्तः परिमातुमपरिमेयं शब्दब्रह्म ?
अत्र व्यतिरेकोऽलङ्कारो मुख्यः, तदङ्गत्वेन चातिशयोक्त्यादयोपीति सङ्करः ॥ १ ॥
स्वविद्योत्कर्षख्यापनाय स्वगुरुविद्योत्कर्षमाह—श्रीमदित्यादि । प्रपञ्चो
'विस्तरः । तस्याधिगतिः सतात्पर्यकस्य तस्य यथार्थबोधः । देवः = खण्डदेवः,
विनाऽपि प्रत्ययं पूर्वपदलोपात् । शेषाङ्को वीरेश्वरः, शेषोपनामकत्वात् । शेषः =
इस पद्य द्वारा इस कादम्बिनी मे लौकिक कादम्बिनी से विलक्षणता व्यक्त की
गई है । लौ० कादम्बिनी जिसके शिर के ऊपर आकाश में रहती उसी के तरुण
बाह्य आतप को शान्त कर पाती, वह भी सर्वदा और स्मरण मात्र से नहीं; यह
न तो एक काल में असंख्य विद्युल्लताओ से वेष्टित होती और न इस विद्युल्लता
की कान्ति ही अनश्वर होती; यह यमुना तट पर अवस्थित कदम्ब वृक्ष पर आश्रित
भी नहीं होती जब कि प्रकृत कादम्बिनी—जैसा कहा जा चुका है, इन सभी दृष्टियों
से लौ० कादम्बिनी से भिन्न, अत एव उत्कृष्ट, है । इससे लौ० कादम्बिनी से
प्रकृत कादम्बिनी का व्यतिरेक स्पष्ट हो जाता है ॥ १ ॥
जो श्रद्धेय सन्यासी ज्ञानेन्द्र सरस्वती से सम्पूर्ण वेदान्त शास्त्र को प्राप्त करने,
महेन्द्र पण्डित से अतिकठिन कणाददर्शन ( वैशेषिकदर्शन ) और अक्षपाददर्शन
३ र०
रसगङ्गाधरः
देवादेवाद्ध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं
शेषाङ्कःप्राप्तशेषोऽमलभणितिरभूत्सर्वविद्याधरो यः ॥
पाषाणादपि पीयूषं स्यन्दते यस्य लीलया ।
तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं महागुरुम् ॥ २-३ ॥
निमग्नेन क्लेशैर्मननजलधेरन्तरुदरं
मयोन्नीतो लोके ललितरसगङ्गाधरमणिः ।
हरन्तर्ध्वान्तं हृदयमधिरूढो गुणवता-
मलंकारान्सर्वानपि गलितगर्वान् रचयतु ॥ ४ ॥
शेषावतारभूतो भगवान् पतञ्जलिर्महाभाष्यनिर्माता । तद्वचनप्राप्तिमुखेन पाणिनिकात्या-
यनवचनप्राप्तिरपि सूचिता, महाभाष्यस्य तदारूढत्वात् । सर्वाणि विशेषणानि सर्व-
विद्याधरत्वे हेतुभूतानि । पाषाणादपीत्यादिना स्ववर्णनकौशलेनाचेतनमपि चेतनवत्
करोतीति प्रतिपादनात्स्वपितरि कवित्वकाष्ठा दर्शिता । लीलयेत्यनेन च तथावर्णने
पितुरायासाभावः सूचितः । लक्ष्मीकान्तमित्यनेन स्वमातुर्लक्ष्म्यभिधाया नाम निर्दि-
ष्टमिति कस्यचिद् व्याख्यानम switch अनौचित्यस्पृशि, एवं रूपेण लोके पित्रोर्नामग्रहणस्यात्यन्त-
विगर्हितत्वात् । अतः सारस्वतस्य पितुर्धनवत्त्वं विष्णुसदृशत्वं वा प्रतीयत इत्येव
युक्तम् ॥ २-३ ॥
ग्रन्थप्रशस्तिमाह—निमग्नेनेत्यादिना । मननरूपजलधेरन्तरुदरमन्तस्तलं क्लेशै-
रनल्पायासैर्नितरां मननेन मया जगन्नाथेन ललितो गुणालङ्कारादिभूषितो रसगङ्गाधर-
स्वरूपः काव्यतत्त्वप्रकाशकत्वान्मणिर्लोक उन्नीतः । सोऽयं गुणवतां सहृदयानां हृदय-
मधिरूढोऽन्येषां काव्यतत्त्वजिज्ञासूनामन्तर्ध्वान्तमज्ञानं हरन् सर्वानपि पूर्वाचार्यरचिता-
लङ्कारग्रन्थान् गलितगर्वान् रचयतु । अत्र च अन्तरुदरम् निमग्नेनेत्यादिना प्रतिपाद्य-
विषयस्य सुचिन्तितत्वमपि सूचितं भवति ॥ ४ ॥
(न्यायदर्शन) को जानने, काशी में खण्डदेव से पूर्व मीमांसा शास्त्र का अध्ययन करने
और शेष वीरेश्वर से शेषावतार भगवान् पतञ्जलि की निर्मल वाणी महाभाष्य
का अधिगम करने से सर्वविद्यासम्पन्न हुए और जिनकी नैसर्गिक काव्यकला से
पत्थर से भी अमृत चूने लग जाता उन विष्णुसदृश पितृचरण पेरुभट्ट को मेरा
प्रणाम समर्पित है ॥ २-३ ॥
मननरूपी सागर के अन्तस्तल में आयासपूर्वक गोता
प्रथमाननम् ५
परिष्कुर्वन्त्वर्थान्सहृदयधुरीणाः कतिपये
तथापि क्लेशो मे कथमपि गतार्थो न भविता ।
तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनरिमे
किमेतेनायासो भवति विफलो मन्दरगिरेः ॥ ५ ॥
निर्माय नूतनमुदाहरणानुरूपं
काव्यं मयात्र निहितं न परस्य किंचित् ।
किं सेव्यते सुमनसां मनसापि गन्धः
कस्तूरिकाजननशक्तिभृता मृगेण ॥ ६ ॥
मननतरीतीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः ।
रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् ॥ ७ ॥
निमग्नेनेत्यादिसूचितार्थमेव भङ्ग्यन्तरेणाह—परिष्कुर्वन्त्वित्यादिना । कतिपये
सहृदयधुरीणा भामहदण्डिमम्मटादयः पूर्वाचार्याः । तिमिर्नाम मत्स्यविशेषः । तथा च
तिमीन्द्रप्रयासस्याफलतयाऽल्पफलतया वा यथा प्रचुरामृतफलो मन्दरगिरिप्रयासो न
गतार्थस्तथैव ममाप्ययं प्रयासोऽशेषकाव्यतत्त्वप्रमितिजननपरो न गतार्थ इत्याशयः ।
अत्रैकस्यैवार्थस्य पूर्वार्द्धोत्तरार्धयोः प्रकारान्तरेण विधिनिषेधमुखेनोक्तः प्रतिवस्तू-
पमालङ्कारः ॥ ५ ॥
स्वकीयप्रबन्धस्य प्रबन्धान्तरापेक्षयोत्कर्षं दर्शयति-निर्मायेत्यादिना । मयोदाह-
रणानुरूपं नूतनं काव्यं निर्मायात्र ग्रन्थे निहितम्, परस्य तु न किमप्यत्र निक्षिप्तम् ।
अयमेव प्रकृतप्रबन्धस्योत्कर्षः प्रकृतपक्षे विवक्षितः । सुमनसाम् = पुष्पाणाम् । अत्राप्यु-
त्तरार्धे शब्दान्तरेण पूर्वार्थार्थकथनात् प्रतिवस्तूपमा ॥ ६ ॥
भामह, दण्डी, मम्मट आदि सहृदयों मे अग्रगण्य आचार्य काव्यार्थ का परिष्कार
भले हीं कर चुके हों, फिर भी मेरा यह प्रयास व्यर्थ नही हो सकता । तिमि-तिमि-
ङ्गिल आदि मछलियां सागर मे भले ही उथल-पुथल मचाती रहें, फिर भी क्या
इतने से हीं मन्दराचल का समुद्रमन्थन-प्रयास निरर्थक हो सकता ? कथमपि
नहीं ॥ ५ ॥
अपेक्षित उदाहरण के अनुरूप नवीन काव्य की रचना कर उसे मैने इसमें
समाविष्ट किया है, अन्य की रचना का इसमें कहीं भी समावेश नही हुआ है ।
क्या कस्तूरी को उत्पन्न करने की क्षमता रखने वाला गन्धमृग पुष्पों की सुगन्धि
को मम से भी कभी चाहता ? कभी नहीं ॥ ६ ॥
मननरूपी नौका से विद्या-सागर को पार कर चुकने वाला पण्डितराज जगन्नाथ
अनायास ही काव्यतत्त्वविचारपरक रसगङ्गाधरनामक ग्रन्थ की रचना कर रहा
है ॥ ७ ॥
" takes up the second half.
In "संदर्भ...यं":
There are letters:
सं
द
र्भो
ऽ
यं
Wait, look at the space between 'भ' and 'यं':
It has TWO elements:
- A vertical line with a slant on top? No!
Wait, look at the word:
Does it sayसंदर्भोऽयंorसंदर्भोडयं?
Wait, if you look atसंदर्भोऽयं:
In Devanagari: र्भो has: भ + kana + repha on kana.
And then ऽ.
Yes! The vertical line is the kana of 'ो'!
And after the kana is 'ऽ'!
Wait! Let me look again:
Is there a kana AND a 'ऽ'?
Yes! Look at that:
There is भ.
Then a vertical line (the kana of 'भो')!
Then an 'ऽ'!
Wait, why did I think it was 'ड'?
Because the kana and the ऽ are close together!
Ah! The kana is a vertical line. Then the ऽ is right next to it!
Wait, look at the top: the shirorekha runs over both!
Wait, in Devanagari, does the shirorekha run over ऽ?
In many fonts, the avagraha ऽ is hanging from the shirorekha!
Yes, in classical Indian typography (like Nirnaya Sagar Press, Chowkhamba, etc.), the avagraha ऽ
प्रथमाननम् ७
व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये तस्मिन्
विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते—
सहृदयत्वं तस्यैव यः कविकर्मानुभविता । अत एवात्र शास्त्रे सहृदयपदेन काव्यार्थ-
भावनाजनकसंस्कारविशेषवानेव गृह्यते । शास्त्रान्तरे च तत्तदर्थभावनाजनकसंस्कार-
विशेषवानेव सहृदयः । आवश्यकतयेति । तत्त्वं च काव्यार्थव्युत्पत्ते स्तद्विवेचनो-
पयोगित्वेन रसास्वादनसहकारित्वेन च बोध्यम् । गुणा माधुर्यादयः, अलङ्काराः
शब्दाश्रिता अर्थाश्रिता उभयाश्रिताश्चानुप्रासोपमाश्लेषप्रभृतयः । अत्र गुणालङ्कारा-
दिभिरिति तृतीया गुणादीनामुपलक्षणत्वं बोध्यते । अत एवैभिः काव्यतत्त्व-
ज्ञानेऽपि नैषां सर्वकाव्यनिष्ठत्वाऽऽग्रहो मुक्तके प्रबन्धे च सर्वावयवनिष्ठत्वाऽऽग्रहः ।
यावल्लक्ष्यकालमविद्यमानमपि व्यावर्तकमुपलक्षणं मन्यते । यथा काकवन्तो देव-
दत्तस्य गृहा इत्यादौ काकः । अत एव 'उदितं मण्डलं विधोः' इत्यादौ नाव्याप्तिरिति
वक्ष्यति स्वयमेव । तस्मिन् = काव्ये । विशेष्यतावच्छेदकमिति । अयमाशयः—
काव्यज्ञानानुकूलः शब्दप्रयोगो निरूपणमत्र । तथा च गुणालङ्काराद्युपलक्षितं काव्यं
निरूपणीयम् । निरूपणस्य विशेष्यं काव्यम् इति काव्ये विशेष्यता, तदवच्छेदको धर्मः
काव्यत्वम्, तच्च किंस्वरूपम् इति प्रतिपादनीयम् । तदेव निरूपितं सत् काव्यस्येतर-
भेदानुमितौ हेतुरिति । काव्यत्वं च रमणीयार्थप्रतिपादकशब्दत्वस्वरूपम्, तद्धे-
तुका चेतरभेदानुमितिः 'काव्यं स्वेतरभिन्नम्, रमणीयार्थकप्रतिपादकशब्दत्वात्,
यत्र यत्र स्वेतरभिन्नत्वाभावः = स्वेतरत्वं तत्र तत्र रमणीयार्थप्रतिपादकशब्दत्वाभावः,
यथा गौर्गच्छतीत्यादौ, न चेदं तथा, तस्मान्न तथा' इत्याकारिका । तल्लक्षणम् =
काव्यलक्षणम् ।
प्रयोजनों की प्राप्ति के लिए कवि तथा सहृदय दोनों को ही साङ्गोपाङ्ग काव्य के
स्वरूपादि का यथार्थबोध होना आवश्यक है । अतः श्लेष-प्रसाद आदि गुणों एवं
उपमा आदि अलङ्कारों से उपलक्षित काव्य के स्वरूप आदि का निरूपण इस ग्रन्थ में
करना है । इस प्रसङ्ग में निरूपण के विशेष्यभूत काव्य में जो विशेष्यता है उसका
अवच्छेदक (काव्यत्व) और अन्य पदार्थ से काव्य के भेद का साधक जो लक्षण
उसका निरूपण प्रथमतः किया जा रहा है—
[गुण एवम् अलंकार आदि को काव्य का विशेषण नहीं अपि तु उपलक्षण माना
गया है। जो विशेष्य मे वर्त्तमान होते हुए उसको अन्य पदार्थ से भिन्न सिद्ध करता
हो उसे विशेषण और जो उपलक्ष्य में सर्वदा विद्यमान न रहकर भी उसको अन्य से
भिन्न सिद्ध करता हो—उपलक्ष्य का स्पष्ट परिचय कराता हो, उसे उपलक्षण कहा
जाता। संक्षेप मे यह ज्ञातव्य है कि उपलक्षण का (क) उपलक्ष्य मे सर्वदा रहना और
(ख) सभी उपलक्ष्यों में रहना अनिवार्य नही है। काव्य के सन्दर्भ मे उपलक्षण का
८ रसगङ्गाधरः
रमणीयार्थप्रतिपादकः शब्दः काव्यम् ॥
रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता । लोकोत्तरत्वं चा-
रमणीयेत्यादि—रमणीयस्यार्थस्य प्रतिपादकः शब्दः काव्यम् । प्रतिपत्तिश्चात्र
ज्ञानम्, तज्जनकः शब्दः काव्यम् । अत्र 'शब्द इत्यनुक्तौ रमणीयार्थज्ञानजनकाभिन-
यादावतिव्याप्तिरतस्तदुपादानम् । प्रतिपादकेत्यनेन वाचकलक्षकव्यञ्जकानां सर्वेषा-
मेव ग्रहणम्, तेषां तथाविधार्थज्ञानजनकत्वादविशेषात् । अत एव वाचक इति लक्षक
इति व्यञ्जक इति वा नोक्तम् । उपस्थितिश्च वाचकत्वादिना भवतु, तत्र न विशेषः ।
शब्दश्चात्र वाक्यात्मको महावाक्यात्मको वा विवक्षितः, शब्दस्य मूलतो वाक्यात्मक-
त्वात् । अत एव वाक्यादेव विवक्षितार्थबोधः । पदमात्रे काव्यत्वव्यवहाराभावश्चा-
परो हेतुरत्र । यत्र च पदे तदंशे वोत्कर्षाधायकत्वं व्यञ्जकत्वादिना तत्रापि तद्घटित-
वाक्य एव काव्यत्वम्, अन्यथैकस्मिन्नेव वाक्येऽनेककाव्यत्वप्रसङ्गः । अर्थप्रतिपादकः
शब्दः काव्यमित्युक्तौ गौश्चलतीत्यादावतिव्याप्तिरतो रमणीयत्वमर्थस्य विशेषणम् ।
रमणीयशब्दप्रतिपादके व्याकरणकोशादौ काव्यत्वातिप्रसङ्गनिरासाय तत्रार्थ-
सन्निवेशः । शब्दे रमणीयत्वं चार्थरमणीयत्वेनैव काव्यत्वोपयोगि, न स्वरूपगतम्,
गुणालङ्कारादेरुपलक्षणत्वोक्तेः । रमणीयार्थप्रतिपादकत्वक्षमत्वं च यदि रमणीयत्वं
विवक्षितं तर्हि स्वरूपतोऽपि शब्दे तदस्तु कथञ्चित् ।
अत्रेदं बोध्यम् —रमणीयत्वं व्युत्पत्तिश्रद्धातिशयादिभेदाद् भिद्यते । लोकोत्तरा-
ह्लादोऽप्यत एव भिन्न एव । अतो योगिनो यादृशं रमणीयत्वं तत्त्वमस्यादिवाक्यार्थे
तादृशं नान्यत्रेति रमणीयार्थप्रतिपादकशब्दत्वसामान्यं न काव्यत्वपर्यवसायि ।
अतो रमणीयार्थविशेष एव प्रकृतोपयोगी । स चायं विशेषः किं स्वरूप इत्यादि निरू-
पयितुकामो रमणीयत्वमादौ व्याचष्टे—रमणीयता चेत्यादिना । यद्विषयकज्ञाने
लोकोत्तराह्लादजनकता तत्त्वं रमणीयत्वम् इति तात्पर्यम् । ज्ञानपदं चात्र
भावनापरमिति वक्ष्यत्यग्रे । अर्थस्याऽज्ञातस्याह्लादाऽजनकत्वात् परित्यज्य
ज्ञानगोचरतापर्यन्तानुधावनम् । ज्ञायमानश्चार्थो न लोकोत्तराह्लादजनकः,
अर्थाऽभावे तदनुदयप्रसङ्गात् । अतोऽर्थज्ञानस्य तादृशाह्लादजनकत्वमभिहितं
ग्रन्थकृता । लोकोत्तरत्वं निर्वक्ति—लोकोत्तरत्वमिति । अनुभवसाक्षिकः=
दूसरा रूप महत्त्वपूर्ण है, क्योंकि सभी काव्यों में गुणालंकारादि का होना ग्रन्थकार
की दृष्टि मे आवश्यक नहीं है । ]
रमणीय अर्थ का प्रतिपादक शब्द काव्य है ॥ १ ॥
जिसके ज्ञान (भावना) से लोकोत्तर आह्लाद उत्पन्न होता हो वही अर्थ रमणीय
होता है । आह्लादनिष्ठ लोकोत्तरत्व चमत्कारत्वनामक 'जाति' का ही नामान्तर है ।
आह्लाद में इस जाति के अस्तित्व में प्रमाण सहृदयों—काव्यार्थविषयक भावना से
प्रथमाननम् ९
ह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः । कारणं च
तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसंधानात्मा । 'पुत्रस्ते जातः,' 'धनं
ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम् । अतो न
तस्मिन्वाक्ये काव्यत्वप्रसक्तिः । इत्थं च चमत्कारजनकभावनाविषयार्थ-
सहृदयानुभवमात्रैकप्रमाणगम्यः । सहृदयश्चात्र काव्यार्थभावनाजनकसंस्कार-
वानेवेत्यावेदितपूर्वम् । अतो नातिप्रसङ्गः । चमत्कारकारणमाह—कारणं-
मिति । तदवच्छिन्ने = चमत्कारत्वावच्छिन्ने चमत्कारिणि लोकोत्तर आह्लादे ।
भावनाविशेष इत्यत्र सहृदयनिष्ठत्वं काव्यार्थमात्रविषयकत्वं विपरीतभावना-
ऽसहकृतत्त्वादि च विशेषः । पुनः पुनरनुसन्धानात्मेत्यनेन चेदं सूचितं यत्काव्यार्थस्य
भूयो भूयोऽनुसन्धाने स्मरणात्मके लोकोत्तरानन्दो जायते । अत एवार्वाचीनोत्तरचरित-
स्यापि पुनस्तदध्ययने रुचिर्भवति । यदा यदा काव्यार्थश्चिन्त्यते तदा तदाऽलौ-
किकाह्लादो जायत एवासति प्रतिबन्धके । एतेन प्रत्येक़ानुसन्धानेऽपि तादृशाह्लाद-
जनकता वर्त्तत एवेति सूच्यते । काव्यार्थेतरविषयकानुसन्धानप्रवाहे तु नैवम्, आद्या-
नुसन्धानेऽपूर्वाऽऽह्लादे जायमानेऽपि द्वितीयाद्यनुसन्धानेषु क्रमेणानन्दमात्राहासस्य
प्रमितेः । विकाराक्रान्तत्वमेव हि लौकिकत्वं भावानाम्, तद्रहितत्वं च लोकोत्तर-
त्वम् । किञ्च काव्यार्थेतरमात्रविषयकोऽनुसन्धानप्रवाहोऽपि सहृदयेषु न प्रसिद्धः ।
एतदेवाऽभिप्रेत्याह—पुत्रस्ते जात इत्यादि । न लोकोत्तरत्वमिति । तदर्थ-
भावनाजन्यत्वाऽभावादिति हेतुः । एतदेव ज्ञानपदमपहाय भावनापदप्रयोगस्य
प्रयोजनम् । वाक्य इति । वाक्यं चात्र काव्याऽघटकं विवक्षितम् । तद्घटके तथा-
विधवाक्येऽपि काव्यत्वस्य दुरपह्नवत्वात् । अत एव काव्यतदितरार्थविषयकभाव-
नायामपि न चमत्कारजनकत्वम्, तस्याः पूर्वोक्तविशेषव्यावृत्तत्वात् । अतो न
तथाविधार्थविषयकसमूहालम्बनभावनामादायातिप्रसङ्गः । भावनायाः समूहालम्बन-
त्वविरहश्च निर्युक्तिकः । अत एव भावनाया ज्ञानप्रवाहरूपतया तस्यां काव्यार्थेत-
राऽविषयकत्वमित्यपि नोचितम्, द्वित्रासु ज्ञानव्यक्तिषु तद्विषयकत्वसम्भवात् । सर्वासु
ज्ञानव्यक्तिषु तदविषयकत्वमित्यपि न सुवचम्, सर्वशब्दार्थस्याननुगतत्वेन यस्य
द्वित्रा एव ज्ञानव्यक्तयो जातास्तत्र च तद्विषयकत्वम् तस्य सर्वामामेव ज्ञानव्यक्तीनां
तदविषयकत्वसम्भवात् । सर्वेषां सर्वभावनाविषयत्वविवक्षणे त्वसम्भव इत्यलम् ।
सूत्रोक्तकाव्यलक्षणं परिष्करोति—इत्थं चेत्यादिना । चमत्कारजनिका या
ओतप्रोत सज्जनों का अनुभव ही है । इसीलिए काव्य से बहिर्भूत 'तुम्हारे पुत्र उत्पन्न
हुआ है' और 'तुम्हें धन दूँगा' इत्यादि वाक्यों में उक्त काव्यलक्षण को अतिव्याप्ति
नहीं होती, क्योंकि ये वाक्य आह्लादजनक होकर भी लोकोत्तराह्लादजनक नहीं हैं ।
इस प्रकार उक्त काव्यलक्षण का फलितार्थ यह हुआ—
१० | रसगङ्गाधरः
प्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनक-
भावना—भावनाविशेषः, तद्विषयो योऽर्थः—रमणीयोऽर्थः, तस्य प्रतिपादकः शब्दः
काव्यम्, तत्त्वं च काव्यत्वमितिप्रथमलक्षणार्थः । अत्र विषयभेदेन व्यक्तिभेदेन च
भावनाविशेषस्याप्यानन्त्याद् गौरवमित्यतो लक्षणान्तरमाह—यत्प्रतिपादितेत्यादि ।
भावनात्वम् = भावनाविशेषत्वम्—भावनाविशेषस्यैव चमत्कारजनकत्वेनातिप्रसक्तस्य
भावनात्वस्य जनकतायच्छेदकत्वाभावात् । पूर्वनिर्दिष्टत्वाच्च सर्वत्र ग्रन्थ-
कृता विशेषशब्दो नोपात्तः । जनकतायच्छेदकमिति । काव्यार्थविषयको
भावनाविशेषश्चमत्कारजनकः, तस्मिन् भावनाविशेषे जनकता, तस्याश्चावच्छेदकं =
काव्यार्थविषयकभावनाविशेषत्वम् । येन रूपेण जनकता तद्रूपं जनकतायच्छेदकम् ।
जनकतासमानाधारं हि (यत्र यत्र जनकता वर्त्तते तत्र तत्र वर्त्तमानम्) अनतिप्रसक्तम्
(जनकता यत्र न वर्त्तते तत्रावर्त्तमानम्) किमपि जनकताऽवच्छेदकं भवति । प्रकृते
जनकताऽर्थविषयकभावनाविशेषे, तत्समानाधारो धर्मोऽर्थविषयकभावनाविशेषत्वम्
इति भवत्येतदवच्छेदकमर्थविषयकभावनाविशेषनिष्ठजनकतायाः । जनकता च
तेनावच्छेदकेनावच्छिन्ना । अवच्छेदकघटकीभूतस्थाप्यवच्छेदकत्वम् इति अर्थोऽपि
जनकताऽवच्छेदकः । भावनाविशेषविषयीभूतस्याप्यवच्छेदकघटकीभूतत्वेन तथा-
विधार्थ एवावच्छेदको नार्थान्तरम् । अत एव स्वविशिष्टेत्यादिलक्षणेऽर्थस्यैव
जनकताऽवच्छेदकत्वमुक्तम् । जनकता च जन्यतानिरूपिता भवति । जन्याभावे
किमपि जनकमपि न भवति । अतो जनकं जन्यसापेक्षम् । जनकताऽप्यत एव जन्यता-
सापेक्षा । कपालं घटस्य जनकम्, घटश्च कपालाज्जन्यः । तन्तुः पटस्य जनकः,
पटश्च तन्तुजन्यः । अतः कपाले सा जनकता, घटे च जन्यता । परन्तु कपाले
या जनकता सा न पटनिष्ठजन्यतासापेक्षा, तन्तौ या जनकता सा न घटनिष्ठजन्यता-
सापेक्षेति हेतोः कपालनिष्ठजनकता घटनिष्ठजन्यतासापेक्षत्वादेतन्निरूपिता—(घट-
निष्ठाजन्यता निरूपिता कपालनिष्ठजनकता) भवति, जन्यतायां चात्र पक्षे निरूपकता
वर्त्तते । एवं व्यत्यासेन जन्यताऽपि जनकता निरूपिता भवति । तत्र यथासम्भवं
वचनविन्यासः शाब्दबोधे कर्त्तव्यः । यदि जन्यं विशेष्यभूतं तर्हि जनकता निरूपिता
जन्यता, जनकं यदि `विशेष्यभूतं तर्हि जन्यतानिरूपिता जनकतातेति कथ्यते । अतश्च
प्रकृतलक्षणे चमत्कारजनकतावच्छेदकमित्यस्य चमत्कारनिष्ठजन्यता निरूपितार्थ-
विषयकभावनानिष्ठजनकताया अवच्छेदकमिति सरलार्थः । लक्षणे यत्तत्पदे शब्दं
परामृशतः । अतस्तत्त्वमित्यस्य शब्दत्वमर्थः । भावनाविशेषत्वस्य सर्वेष्वेव भावना-
(क) चमत्कारजनक भावनाविशेष के विषयीभूत (= रमणीय) अर्थ का प्रतिपादक
शब्द (वाक्य) काव्य है, अथवा (ख) जिस शब्द से प्रतिपादित अर्थ की भावना
(भावनाविशेष) में रहने वाला भावनात्व (= भावनाविशेषत्व) भावनाविशेषनिष्ठ
तावच्छेदकं तत्त्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण
चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्।
विशेषेष्वेकतया नात्र लक्षणे पूर्वलक्षणवद् भावनाविशेषानन्त्यप्रयुक्तं गौरवम्। अत्र
च लक्षणे 'प्रत्युच्चारणं शब्दो भिद्यते' इति मताश्रयणे तु यत्पदेनानुपूर्वी विवक्षणीया,
तत्त्वमित्यस्यापि तादृशानुपूर्वीकत्वमित्यर्थो ग्राह्यः। तथा च यादृशानुपूर्वीप्रतिपादि-
तार्थविषयकभावनात्वं चमत्कारनिष्ठजनकताया अवच्छेदकं तादृशानुपूर्वीकत्वं काव्य-
त्वमिति लक्षणार्थोऽवसेयः। अननुगतार्थकयत्तच्छब्दयोरत्र लक्षणे प्रवेशेऽपि न क्षतिः,
एतादृशाननुगमस्य व्यवहारबाधकत्वाऽभावात्। अथवा भावनाविशेषत्वस्यावच्छेद-
कत्वमभ्युपगत्य—'चमत्कारनिष्ठजन्यतानिन्नूपितभावनाविशेषनिष्ठजनकतावच्छेदका-
वच्छिन्न ( भावनाविशेष ) विषयीभूतार्थप्रतिपादकशब्दत्वं काव्यत्वम्' इति, अर्थस्या-
वच्छेदकत्वपक्षे तु—'चमत्कारनिष्ठजन्यतानिन्नूपितभावनाविशेषनिष्ठजनकतावच्छेद-
कार्थप्रतिपादकशब्दत्वं काव्यत्वम्' इति लक्षणं बोध्यम्। अर्थस्यावच्छेदकत्वाभ्युपगमे
लाघवं चापाततो दृश्यत एव। अत्र च भावनाविशेषतवस्यैवावच्छेदकत्वं ग्रन्थकृदभि-
मतम् न भावनात्वस्य, 'कारणं च तदवच्छिन्ने भावनाविशेषः' इत्युक्तत्वात्। अतश्च
भावनात्वस्यावच्छेदकत्वेऽपि लक्षणे तत्प्रवेशे न तात्पर्यम्, भावनात्वस्य काव्यतदि-
तरार्थभावनामात्रवृत्तितयाऽव्यावर्त्तकत्वादित्यादिकथनं चिन्त्यम्। अत्र च काव्य-
लक्षणघटकपदार्थानां यथायथं विशेषणविशेष्यरूपेण निवेशादिदं 'प्रकारविधया'
लक्षणकरणम् इति प्रसिद्धिः। अत्र चाधिकपदार्थोपस्थितेर्गौरवम्। अतः संसर्ग-
मुद्रया लक्षणान्तरमाह—स्वविशिष्टेत्यादि। संसर्गविधया लक्षणकरणे तु लक्षण-
घटकानां बहूनां पदार्थानां संसर्गमध्ये प्रवेशात्पदार्थोपस्थित्यादिकृतं लाघवं भवति।
चमत्कारजनकता का अवच्छेदक हो वह शब्द काव्य है, अथवा (ग) 'स्वविशिष्टज-
नकतावच्छेदकार्थप्रतिपादकत्व' [स्व(=चमत्कारत्व) से विशिष्ट (=चमत्कार)
में वर्त्तमान जन्यता से निरूपित (अर्थविषयक) भावनाविशेष में वृत्ती जनकता के
अवच्छेदकीभूत अर्थ का प्रतिपादक होना] इस परम्परा सम्बन्ध से चमत्कारत्ववान्
शब्द ही काव्य है। प्रथम लक्षण में निर्दिष्ट भावनाविशेष के व्यक्तिभेद तथा विषय-
भेद से अनन्त होने से सकलभावनाविशेषनिष्ठ भावनाविशेषत्वस्वरूप एक अनुगत
धर्म को आधार मानकर लघुतर द्वितीय लक्षण किया गया है। यथासंभव विशेषण-
विशेष्य के क्रम से पदार्थों को निविष्ट करके किया गया द्वितीय लक्षण 'प्रकारमुद्रा'
से और लक्षणघटक अनेक पदार्थों को संसर्गकोटि में रखकर किया गया तृतीय
कक्षण 'संसर्गमुद्रा' से विहित है। संसर्गमुद्रा से किए गए लक्षण में पदार्थोपस्थित्यादि
में लाघव होता है किन्तु प्रकृत में निर्दिष्ट परम्परा सम्बन्ध के प्रामाणिक न होने
से द्वितीय लक्षण ही उत्तम है।
१२ रसगङ्गाधरः
यत्तु प्राञ्चः ‘अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्’ इत्याहुः, तत्र
विचार्यते—शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात् । काव्यमुच्चैः
पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थो न ज्ञात इत्यादिविश्वजनीन-
तत्र संसर्गस्य द्वैविध्यम् साक्षात्परम्पराभेदात् । तयोश्च साक्षात्संसर्गविषये विप्रति-
पत्त्यभावात् तस्य संसर्गत्वेन भाने लक्षणं लाघवान्वितमिति निर्विवादम् । परम्परायाः
संसर्गत्वं तु तत्रैवाभिमतं यत्र तेन संसर्गेणैकपदार्थविशिष्टस्य पदार्थान्तरस्य प्रतीतिः
प्रसिद्धा, न सर्वत्र । परम्परामात्रस्य संसर्गत्वे तु सर्वं सर्वेण विशिष्टं स्यादित्यनर्थः ।
अतो यत्र परम्परायाः संसर्गत्वं प्रतीतिबलायातं तत्र तस्य संसर्गतया भाने प्रामाणिके
संसर्गविधया लक्षणं लघुतरं भवति, प्रकारमुद्रया तत्र तावत्पदार्थनिवेशे तु गुरुतरं
लक्षणम् । प्रकृतलक्षणे चमत्कारत्ववत्त्वं काव्यत्वमित्यत्र स्वविशिष्टेत्यादिसंसर्गः ।
अत्र स्वं चमत्कारत्वम्, तद्विशिष्टः चमत्कारः, तन्निष्ठजन्यता निरूपिता जनकता-
ऽर्थविषयकभावनाविशेषे, तत्रावच्छेदकीभूतोऽर्थः, तत्प्रतिपादकत्वं काव्य इति काव्येन
चमत्कारत्वस्य स्वविशिष्टेत्यादिपरम्परासम्बन्ध उक्तः । अनेन संसर्गेण काव्यं
चमत्कारत्ववत्, तत्त्वं च काव्यत्वमिति लक्षणार्थः । अस्य संसर्गत्वं तु 'काव्यं
चमत्कारववद्' इत्यादिप्रतीतिसाक्षिकमेव, नान्यथा । तदाकारा च प्रतीतिर्न
प्रामाणिकी । अत एतादृशपरम्परायाः संसर्गत्वकल्पनं न युक्तमिति सत्यपि लाघवे
तस्य प्रमाणाऽननुगृहीततया गुरुतरमपि द्वितीयलक्षणमेव वरमिति विदुषां विमर्शः ॥
इदानीं काव्यप्रकाशकारोक्तं काव्यलक्षणं दूषयितुमुपक्रमते—यत्त्वित्या-
दिना । अनलंकृती पुनः क्वापीत्यस्यार्थतः संग्राहकं सालङ्काराविति । माना-
भावादिति । अयमर्थः—'लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे', 'अर्थन्वान्यप्रमाणत्वाद्'
प्राचीन आलङ्कारिक (काव्यप्रकाशकार) मानते हैं कि दोषों से रहित, गुणयुक्त
एवम् अलङ्कारविशिष्ट शब्द और अर्थ दोनों ही काव्य हैं । इस विषय में निम्न-
लिखित विचार किया जा रहा है—
शब्दार्थद्वय काव्यशब्द का वाच्यार्थ नहीं हो सकता । शब्दनिष्ठ शक्ति द्वारा
प्रतिपादित अर्थ ही वाच्यार्थ कहलाता है । किस शब्द में किस अर्थ को प्रकट करने
वाली शक्ति है—यह निर्णय मुख्यतः शिष्टव्यवहार से होता है । काव्यपद में शब्दार्थ-
युगल को प्रकट करने की शक्ति का ग्राहक (निर्णायक) कोई शिष्टव्यवहार तो है
नहीं । ऐसी स्थिति में काव्यपद को शब्दार्थद्वय का वाचक नहीं माना जा सकता ।
वस्तुतः सार्वजनीन व्यवहार तो शब्दार्थद्वय के विपरीत शब्दविशेष, अर्थात् रमणी-
यार्थप्रतिपादक शब्द, को प्रकट करने वाली शक्ति को ही काव्यपदनिष्ठ सिद्ध करते ।
उदाहरणार्थ—'काव्यमुच्चैः पठ्यते', 'काव्यादर्थोऽवगम्यते' और 'काव्यं श्रुतमर्थो न
ज्ञातः' इत्यादि व्यवहार हैं । इनसे स्पष्ट है कि काव्यपद शब्दविशेषमात्र मे शक्त
व्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च ।
व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत् ? स्यादप्येवम्, यदि
इत्यादिसिद्धान्तात् कस्य शब्दस्य कोऽर्थ इत्यत्र शिष्टव्यवहार एव प्रमाणम् ।
तथा च काव्यशब्दस्य शब्दार्थयुगलवाचकत्वं तत्समर्थकशिष्टव्यवहाररूपप्रमाणाऽभा-
वान्न सम्भवतीति । द्वित्रशिष्टव्यवहारस्य च न प्रमाणत्वम्, प्रमासाधनत्वाभावादिति
कालिदास एवाह—‘सर्वज्ञस्याऽप्येकस्याभ्युपगमो न निर्णयाय’ इति । अत्रैकपदमल्पा-
र्थकम् । अनादिवृद्धव्यवहारस्यैवार्थनिर्णायकत्वनियमादेकव्यवहारे तथात्वाभावादिति
निष्कर्षः । एतावता साधकप्रमाणाभाव उक्तः । सम्प्रति बाधकप्रमाणमप्यऽह—
काव्यमित्यादिना । पठ्यत इति । पाठश्च शब्दस्यैव नार्थस्येति सिद्धं काव्यस्य शब्द-
मात्रपरत्वम् । काव्यादित्यादि । काव्यस्य ज्ञातस्यैवार्थबोधकतया तस्य शब्दार्थोभय-
परत्वे काव्यज्ञानेनार्थस्यापि ज्ञानात् किमन्यदवशिष्यते यस्यावबोधः कार्यः स्यादिति
तात्पर्यम् । प्रत्युत = शब्दार्थयुगलवाचकत्वविपर्ययेण । शब्दविशेषस्यैवेति ।
अयमाशयः—आदिकविना स्वयमेव—
“भविष्यदुत्तरं काव्यं जगुस्तुस्तौ कुशीलवौ”
इति वदता काव्यस्य शब्दमात्रपरत्वे व्यवस्थापिते परस्ताच्च विश्वजनीनव्यवहारेण
तथात्वे समर्थिते न शब्दमात्रपरत्वं काव्यशब्दस्यापह्लोतुं कश्चिद्रीष्टे । यद्यपि क्वचि-
त्सादिव्यवहारस्यापि दृष्टमर्थनिर्णायकत्वं तथापि तत्प्रायेण यदृच्छाशब्द एव, तत्रापि
बहुतरशिष्टसमर्थने सत्येवेति तदभावे न काव्यशब्दस्य शब्दार्थोभयपरत्वं युक्तमिति ।
उक्तव्यवहारमन्यथा व्याचक्षाण आशङ्कते—व्यवहार इति । लक्षणया = एकदे-
शलक्षणया । तथा च नोक्तव्यवहारस्य बाधकत्वमित्याशयः प्रश्नस्य । न केवलं बाधक-
प्रमाणाभावादिष्टसिद्धिः, साधकप्रमाणमपि तदर्थमपेक्षणीयमेव, तथा च साधकप्रमाणा-
भावे न काव्यशब्दस्य शब्दार्थोभयपरत्वं युक्तम्, ततश्च मुख्यार्थबाधाभावेन लक्षणाऽपि
न सङ्गच्छत इति प्रोक्तव्यवहारस्य मुख्यार्थपर्यवसायित्वे व्यवस्थिते न शब्दार्थपरत्वं
है, शब्दार्थद्वय में नहीं । यतः प्रथम व्यवहार मे काव्य के श्रवण की बात कही
गई है; श्रवण तो शब्दमात्र का सम्भव है, अर्थ का नहीं । द्वितीय व्यवहार मे
काव्यशब्द से हेत्वर्थक पञ्चमी और अर्थशब्द से प्रथमा दोनों की भिन्नता के प्रति-
पादक हैं । यह काव्यशब्द के शब्दमात्रपरक होने से ही सम्भव है । तृतीय व्यवहार
मे काव्य के श्रावणप्रत्यक्षज्ञान का विषय होने पर भी अर्थ के उक्त ज्ञान का विषय न
होने से दोनों की भिन्नता सिद्ध है । अतः उक्त व्यवहारों से काव्यशब्द की
शब्दमात्रबोधकता प्रमाणित है ।
उक्त व्यवहारों में शब्दमात्र में काव्यपद का प्रयोग एकदेश-लक्षणा से बताते हुए
काव्यपद के मुख्यार्थरूप मे शब्द और अर्थ को मानना भी असंगत है, क्योंकि यहाँ
१४ रसगङ्गाधरः
काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं
किमपि प्रमाणं स्यात् । तदेव तु न पश्यामः । विमतवाक्यं त्वश्रद्धेयमेव ।
इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्त-
व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुमीष्टे ?
एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम् । तदेवं शब्दविशेष-
स्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पि-
तस्य काव्यपदार्थस्य । एषैव च वेदपुराणादिलक्षणेष्वपि गतिः । अन्यथा
तत्रापीयं दुरवस्था स्यात् ।
काव्यशब्दस्येत्याशयेन समाधत्ते—स्यादप्येवमित्यादिना सन्दर्भेण । दृढतरमिति ।
स्वसमबलस्वाधिकबलविपरीतप्रमाणाभाववदित्यर्थः । एतेन = प्रोक्तव्यवहारस्वरूपवि-
निगमकसत्त्वेन । विनिगमना चैकतरपक्षपातिनी युक्तिः, तस्या अभावात् । दुरवस्था
लाक्षणिकत्वाभ्युपगमस्वरूपा प्रकृते बोध्या ।
प्राचीनसमर्थनप्रकारान्तरं निराचष्टे—यत्त्वित्यादिना । आस्वादः, आस्वाद्यत
इत्यास्वादो रसः, ‘कृदभिहितो भावो द्रव्यवत् प्रकाशते’ इति नियमात् । तस्योद्बोध-
कत्वं व्यञ्जकत्वम्, न तु जनकत्वम्, रसस्य नित्यत्वेन तज्जननाऽसम्भवात् । तदाह—
रसव्यञ्जकतयेति । प्रकृते = काव्यलक्षणनिरूपणप्रसङ्गे । लक्षणीयत्वं काव्यलक्षण-
लक्षणा का आधार मुख्यार्थबाध नही है । यदि अन्य दृढतर प्रमाण से काव्यपद मे
शब्दार्थोभय की वाचकता प्रमाणित हो चुकी होती तब तो उक्त व्यवहारों में मुख्यार्थ
का बाध हो जाने से काव्यपद को शब्दमात्र मे लाक्षणिक माना जा सकता था ।
परन्तु वस्तुस्थिति ऐसी नहीं है । विरोधी प्राचीन आचार्य का वक्तव्य तो प्रमाण-
समर्थित न होने से श्रद्धायोग्य है हीं नहीं । अतः उक्तव्यवहारों मे काव्यपद को
लाक्षणिक कहना अयुक्त है । इस प्रकार जब शब्दार्थयुगल में काव्यपद की शक्ति
का ग्राहक कोई प्रमाण है ही नहीं तब उक्त व्यवहारस्वरूप प्रमाण से शब्दमात्र में
काव्य पद की शक्ति के निर्णय को कोई रोक नहीं सकता । “एकतरपक्ष समर्थक
युक्ति (= विनिगमना), अर्थात् काव्यपद की शक्ति शब्दमात्र मे है, अर्थ मे नही
अथवा अर्थमात्र में है, शब्द में नहीं, के समर्थक प्रमाण के अभाव मे शब्दार्थयुगल में
ही उसकी शक्ति सिद्ध हीती है—” यह मत भी उक्त रीति से ही निरस्त हो जाता
है । इस प्रकार काव्यपद के शब्दविशेषमात्रवाचक सिद्ध हो जाने पर उसी का
लक्षण बताना उचित है, किसी के कपोलकल्पित काव्यपदार्थ का नहीं । काव्य-
पदार्थनिर्णय की जो रीति है वही वेद, पुराण, इतिहास आदि के लक्षणों में
भी अपनानी चाहिए, नहीं तो 'वेदः पठितः', वेदस्यार्थो नाऽवगम्यते' इत्यादि
व्यवहारों की असंगति पूर्ववत् बनी रह जाएगी ।
प्रथमाननम् १५
यत्त्वास्वादोद्बोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्ट-
मित्याहुः, तन्न। रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालंकारिक-
संमतत्वेन प्रकृते लक्षणीयत्वापत्तेः। किं बहुना, नाट्याङ्गानां सर्वेषामपि
प्रायशस्तथात्वेन तत्त्वापत्तिर्दुर्वारैव। एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्व-
मित्यपि परास्तम्।
अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्व्यासक्तम्, प्रत्येकपर्याप्तं वा ?
नाद्यः, एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहार-
स्यापत्तेः। न द्वितीयः, एकस्मिन्पद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद्वेद-
शास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता।
घटकत्वम्। प्रायश इत्यनेन क्वचिन्नेपथ्यविधानादौ रसोद्बोधकत्वाभावः सूचितः।
तत्त्वापत्तिः = काव्यत्वापत्तिः। एतेन = रसोद्बोधकत्वस्याऽतिप्रसक्तत्वेन।
प्राचीनोक्तलक्षणे दोषान्तरमाह—अपि चेति। प्रवृत्तिनिमित्तम् = काव्यत्वम्।
व्यासज्यवृत्तीति। पर्याप्तिसम्बन्धेनानेकाधिकरणेष्ववस्थितं व्यासज्यवृत्तीत्युच्यते।
यथा द्वित्वसंख्या समवायेन प्रत्येकं वर्त्तमानाऽपि पर्याप्तिसम्बन्धेन द्वयोरेव वर्त्तते, नै-
कत्र। यस्य च सम्बन्धः स तत्प्रतियोगी, यत्र च सम्बन्धः सोऽनुयोगी तस्य सम्बन्धस्य।
द्वित्वस्य पर्याप्तिर्द्वयोरिति द्वित्वं पर्याप्तिप्रतियोगि, द्रव्ये चानुयोगिनी। एवं त्रित्वा-
दिष्वपि बोध्यम्। अत एवैकत्वाऽनवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वं व्यासज्य-
वृत्तित्वमुच्यते। एतद्विपर्ययेण चैकत्वाऽवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वं
प्रत्येकपर्याप्तत्वमुच्यते। काव्यत्वस्य व्यासज्यवृत्तित्वे दोषमाह—नाद्य इत्यादिना।
द्वितीये दोषमाह—न द्वितीय इत्यादिना। काव्यद्वयेति। एकं काव्यत्वं शब्दे, अपरं
च तदर्थे इति द्वित्वं काव्यत्वस्येति तदाधारभूतकाव्यस्याऽपि द्वित्वमित्यर्थः। प्रकृतमु-
अलौकिक आस्वाद (रस) का उद्बोधक ही काव्य है, अतः शब्द और अर्थ दोनों
ही काव्य हैं, क्योंकि उक्त आस्वादोद्बोधकता दोनों ही मे समानरूप से है-ऐसा कुछ
लोग कहते। किन्तु यह भी असंगत है। कारण है कि तब तो राग को भी काव्य-
लक्षण मे समाविष्ट करना होगा, क्योंकि राग को भी ध्वनिकार आदि सभी
आलङ्कारिकों ने रसोद्बोधक माना ही है। एवञ्च उक्त लक्षण मे न्यूनता आ जाएगी।
अधिक कहने की आवश्यकता नहीं, उक्त मत की असंगति के लिए इतना ही कहना
पर्याप्त होगा कि उसके अनुसार तो बहुत से नाट्याङ्गों के भी रसोद्बोधक होने से
उन्हें भी लक्षण मे समाविष्ट करना पड़ जाएगा। अतः उक्त पक्ष अश्रद्धेय है। इसी
से 'रसोद्बोधसमर्थ तत्त्व ही काव्यलक्षण का लक्ष्य है' यह मत भी निरस्त हो जाता;
क्योंकि उक्त न्यूनता इस मत मे भी पूर्ववत् बनी हुई है।
इस प्रसङ्ग मे यह भी विचारणीय है कि काव्य शब्द का प्रवृत्तिनिमित्त काव्यत्व
१६ रसगङ्गाधरः
लक्षणे गुणालंकारादिनिवेशोऽपि न युक्तः । 'उदितं मण्डलं विधोः' इति
काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणविधि निषेधजीवना-
पसंहरन्नाह —तस्मादिति ।
सगुणौ सालङ्कारावित्यादि निराचष्टे—लक्षण इत्यादिना । आदिपदेनात्र दोषा-
ऽभावो ग्राह्यः । उदितं मण्डलं विधोरित्यादौ न काव्यत्वमिति भामहोक्तं प्रकाश-
कृदिष्टं च खण्डयितुं तत्र काव्यत्वाधायकं व्यङ्ग्यार्थमाह—दूतीत्यादिना । अत्रापि
वक्तृबोद्धव्यादिवैशिष्ट्येन व्यङ्ग्यार्थप्रतीतेः काव्यत्वं दुरपह्नवमिति सन्दर्भशयः ।
तदाह दण्डी—
गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इतीदमपि साध्वेव कालावस्थानिवेदने ।। इति ।।
दूतीत्यादिवचनमित्यं योजनीयम्—अभिसारिकां प्रति दूत्युदीरि
ऽभावादिपरे ‘गतोऽस्तमर्कः’ इत्यादौ चाव्याप्त्यापत्तेः । न चेदमकाव्य-
मिति शक्यं वदितुम्, काव्यतया पराभिमतस्यापि तथा वक्तुं शक्य-
व्यङ्ग्यो भवितुमर्हत्येव । एवमग्रेऽपि यथासम्भवं व्यङ्ग्यार्था ऊहनीयाः । विरहिण्यादी-
त्यादिशब्देन यथासम्भवं सख्यादीनां ग्रहणम् । जीवनाऽभावादीत्यादिशब्देन च यथा-
यथं रमणागमनकालादिः संग्राह्यः । इत्यादावित्यतः परं गुणालंकारादिरहित इति
पूरणीयम् । अव्याप्तिश्चात्र काव्यलक्षणस्य गुणालङ्कारादिघटितस्य । अत्रालङ्काराभा-
वप्रतिपादनेन हेत्वलङ्कारः पण्डितराजाऽभिमतो नेति ज्ञायते । नाप्यत्र दोषाऽभावोऽपि,
उभयत्रैव विधेयाऽविमर्शस्य सत्त्वादित्यपि बोध्यम् । किञ्चैवं लक्षणेऽलङ्कारदोषा-
भाववत्यपि गुणहीने काव्येऽव्याप्तिः । एवमेवैकस्यचनाभावे तदितरसत्त्वेऽप्यन्याप्तिरि-
त्यपि विवेचनीयम् । न चेदमित्यनेन भामहाद्युक्तिं निरस्यतीति पूर्वमेवोक्तम् ।
वदितुमिति । काव्यत्वहेतुभूतस्य चमत्कारस्य तत्र सत्त्वान तद्विपर्यये युक्त्यभावा-
दित्यर्थः । युक्तिं विनाऽप्यकाव्यत्वाङ्गीकारे त्वाह—काव्यतयेत्यादिना । पराभिम-
मतस्य = प्रकाशकाराद्यभिमतकाव्यविषये । तथा = अकाव्यमिति । गुणालङ्कारादि-
विशिष्टे तदविशिष्टे च चमत्कारिणि वाक्ये काव्यशब्दव्यवहारस्य प्रसिद्धत्वेन चमत्का-
रित्वमेवाऽव्यभिचारि काव्यजीवितम्, तच्च ‘उदितं मण्डलं विधोः’ इत्यादावपि
गई है वह भी उचित नहीं है, क्योंकि गुणालंकारादि से रहित होने पर भी 'उदित
मण्डलं विधोः' (चन्द्रोदय हो चुका) तथा 'गतोऽस्तमर्कः' (सूर्यास्त हो गया) आदि
काव्यों में उक्त लक्षण की अव्याप्ति हो जाएगी। इन वाक्यों का काव्यत्व तो प्रमाणित
है हीं, क्योंकि वक्तृ-बोद्धव्य आदि के वैशिष्ट्य के कारण इन वाक्यों में भी चमत्कार-
जनक व्यङ्ग्य अर्थ की बोधकता है। यदि प्रथम वाक्य दूती द्वारा अभिसारिका
को कहा गया हो तो इससे अभिसरण का विधान, अभिसारिका द्वारा दूती से कहे
जाने पर प्रकाशाधिक्य के कारण दूसरों द्वारा देखे जाने की सम्भावना से अभिसरण
का निषेध और विरहिणी द्वारा अपनी सखी या किसी अन्य अन्तरङ्ग व्यक्ति से कहे
जाने पर विरह की उत्कटता तथा रमण के आने के समय आदि व्यङ्ग्यार्थ प्रकट
होते ही हैं। इसी तरह दूसरे वाक्य से, दूती द्वारा अभिसारिका से कहे जाने पर,
अभिसरणकाल आदि व्यङ्ग्यार्थ की भी प्रतीति होती ही हैं। यथासम्भव अन्यान्य
चमत्कारजनक व्यङ्ग्यार्थ भी हो सकते हैं। ऐसी स्थिति में इन काव्यों में गुणालङ्का-
रादिघटित काव्य-लक्षण की अव्याप्ति सुस्पष्ट है। अतः गुणालङ्कारादि का निवेश
अनुचित हैं। ये वाक्य काव्य हैं ही नहीं, अतः इनमें काव्य-लक्षण की अव्याप्ति इष्ट
है—यह तो कहा नहीं जा सकता, क्योंकि जब इनसे चमत्कारजनक व्यङ्ग्यार्थ
का प्रतिपादन होता है तो फिर इन्हे काव्य न कहना सम्भव नहीं। अन्यथा प्राचीन-
१८ रसगङ्गाधरः
त्वात् । काव्यजीवितं चमत्कारित्वं चाविशिष्टमेव । गुणत्वालंकारत्वा-
देरननुगमाच्च ।
दुष्टं काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वा-
योगाच्च । न च संयोगाभाववान्वृक्षः संयोगीतिवदंशभेदेन दोषरहितं दुष्ट-
समानमित्यतस्तस्यापि काव्यत्वमस्त्येवेत्याशयवानाह—काव्यजीवितमित्यादि । ‘यः
कौमारहरः' इत्यादौ काव्यत्वस्यालङ्कारविरहेऽपि स्वयमभ्युपगमाच्चैतदेव युक्तमित्यपि
बोध्यम् । ननु तत्रापि कथञ्चिदलङ्कारादयः सन्त्येवेत्यत आह—गुणत्वादीति ।
गुणानामलंकाराणां चानिश्चिततया गुणत्वादेरननुगमान्न तेन रूपेण गुणादीनां लक्षणे
प्रवेशः, सर्वगुणप्रवेशेऽसम्भवः, तद्व्यक्तित्वेन प्रवेशे तु परस्पराभावेन व्यभिचार
इति तात्पर्यम् ।
इदानीमदोषाविति विशिष्य निराचष्टे—दुष्टमित्यादिना । दुष्टं काव्यमिदं पद्य-
मित्यनेन पद्ये दोषयुक्तकाव्यत्वं विधीयते । तत्र यदि दोषयुक्तस्य काव्यत्वमेव न प्रकाश-
कृन्मते, काव्यस्य च दोषयुक्तत्वं नेति तर्हि तन्मत एतादृशव्यवहारानुपपत्तिः । ननु
प्रकृत व्यवहारे काव्यपदं लक्षणया यत्किञ्चल्लक्षणविशिष्टकाव्यवदाभासमानवा-
क्यपरमिति न व्यवहारानुपपत्तिरित्यत्राह—बाधकं विनेत्यादि । मुख्यार्थस्य बाधे
हि लक्षणा भवति । प्रकृते च विधेयाऽविमर्शादोषयुक्तेऽपि 'न्यक्कारो ह्ययमेव मे यदरयः'
इत्यादौ काव्यत्वस्य ध्वनिकारादिसम्मतत्वेन काव्यपदमुख्यार्थस्य स्पष्टं दुष्टपदार्थे-
नाऽन्वये बाधकाभावात्तात्पर्यानुपपत्त्यभावश्चेति न लक्षणा शक्याऽऽश्रयितुमिति भावः ।
काव्यत्वस्याऽव्याप्यवृत्तित्वमङ्गीकृत्य कृतामाशङ्कां निरस्यति—नचेत्यादिना ।
अयम्भावः—काव्यत्वं संयोगादिवदव्याप्यवृत्ति । अव्याप्यवृत्तित्वं च तस्यैव यः स्वा-
धिकरणे एकदेशेन विद्यमानः सन्देशान्तरेणाऽविद्यमानः । यथा वृक्षे कपिसंयोगः
शाखाविशेषाऽवच्छेदेन वर्त्तमानः सन्नपि शाखान्तरमूलाद्यवच्छेदेनावर्त्तमानोऽव्याप्य-
वृत्ती । यस्यैकस्मिन्ने वाधिकरणे देशभेदेन भावाऽभावौ सोऽव्याप्यवृत्तीति तात्पर्यम् ।
सम्मत काव्यों को भी अकाव्य कहा जा सकता है, जिससे उनमें काव्य-लक्षण की
संगति से अतिव्याप्ति दोष उनके लक्षण में अपरिहार्य हो जायेगा । साथ ही, गुणों
और अलंकारों में अनुगत किसी गुणत्व और अलंकारत्व धर्मों के सिद्ध न होने से
गुणांलंकारादिघटित काव्य-लक्षणं का अनुगम (=स्पष्टप्रतिपत्ति) भी न हो
सकेगा ।
काव्य-लक्षण में 'अदोषौ' यह अंश भी अनुचित है, क्योंकि 'दुष्टं काव्यमिदं
पद्यम्' यह व्यवहार सुप्रसिद्ध है । इससे काव्य का दोषयुक्त होना भी प्रमाणित
होता है । अतः ऐसे काव्यों में 'अदोषौ' पद से घटित लक्षण की अव्याप्ति हो
जाएगी ।
प्रथमाननम् १९
'मिति व्यवहारे बाधकं नास्तीति वाच्यम्। 'मूले महीरुहो विहंगम-
संयोगी, न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न
काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया
अत एव स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वमव्याप्यवृत्तित्वमिति परिष्कुर्वन्ति।
यस्याभावः स प्रतियोगी। अत्र वेदान्तमते यद्यपि शाखाविशेषस्यैवाधिकरणत्वं न तु
तद्वतो वृक्षस्येति संयोगो नाव्याप्यवृत्ति तथापि वृक्षः कपिसंयोगीत्यादिप्रतीतेर्वृक्ष
एवाधिकरणं कपिसंयोगस्य, शाखादिस्त्वधिकरणतावच्छेदक एव, शाखादौ सप्तम्यु-
पत्तिश्चाधिकरणतावच्छेदकेऽधिकरणत्वारोपात् 'शरीरे मे वेदना' इति वदिति
न्यायमतेन शङ्कासमाधाने बोद्धव्ये। तदेवं काव्यत्वस्याप्यव्याप्यवृत्तितया तस्य चैकत्रै-
वाधिकरणे पद्ये भावाऽभावयोरधिकरणताऽवच्छेदकभेदेन विरोधाऽभावान्न दुष्टं
काव्यमिदं पद्यमित्यत्र पद्ये काव्यपददुष्टपदार्थान्वये बाधः। समानविषयत्वे हि
विरोधः, विरोधे च दुर्बलं बलीयसा बाध्यते वस्तुतः। प्रकृते तु काव्यत्वस्य दोषरहितां-
शावच्छेदेन दुष्टत्वस्य च तदितरांशाऽवच्छेदेनैकत पद्ये सत्त्वेप्यधिकरणतावच्छेदक-
भेदेन समानविषयत्वाभावान्न विरोधः, विरोधाभावाच्च न तदुभयान्वये बाध्यबाधक-
भाव इत्यस्मन्मतेऽपि नानुषपत्तिरुक्तव्यवहारस्येति शङ्कार्थः। ये त्वत्र शङ्काग्रन्थं
दोषमात्रेऽव्याप्यवृत्तित्वपरं व्याचक्षते ते न युक्ताः, दोषस्य तथात्वेऽपि केवलं तदव्याप्य-
उक्त व्यवहार में जो वाक्य दोषयुक्त होने से काव्य नहीं है किन्तु दोषरहितत्व से
भिन्न काव्यलक्षणों के सम्बन्ध के कारण काव्यवत् प्रतीत-काव्याभास है उसी के लिए
काव्य शब्द का वक्ता के द्वारा लाक्षणिक प्रयोग हुआ है—यह कथन भी अनुचित है,
क्योंकि मुख्यार्थबाध के बिना लक्षणा नहीं मानी जा सकती। 'न्यक्कारो ह्ययमेव मे
यदरयः' इत्यादि पद्य में विधेयाऽविमर्श दोष रहने पर भी काव्यत्व ध्वनिकारादि-
सम्मत है। एवञ्च काव्यात्मक पद्य के लिए दोषयुक्त होना भी सम्भव है। ऐसी दशा
में काव्य शब्द के मुख्यार्थ के साथ 'दुष्ट' शब्दार्थ के अन्वय में किसी बाधा के
न रहने से उक्त व्यवहार में काव्य शब्द को लाक्षणिक कहना असंगत है। साथ ही,
यह लक्षणा रूढिमूला तो है नहीं और कोई प्रयोजनविशेष भी इसमें नहीं दिखता।
इस प्रसङ्ग से यह भी नहीं कहा जा सकता कि एक ही वृक्ष में अंशविशेष में
पक्षिसंयोग और अंशान्तर में पक्षिसंयोगाभाव के समान एक ही पद्य में अंशविशेष
में दोष और निर्दुष्ट अंशान्तर में काव्यत्व होने से 'वृक्षः पक्षिसंयोगी तदभाववांश्च'
के समान 'इदं पद्यं दुष्टं काव्यं (च)' इस व्यवहार में कोई अनुपपत्ति नहीं है, क्योंकि
'मूले वृक्षः पक्षिसंयोगी, न शाखायाम्' इस प्रामाणिक प्रतीति के आधार पर वृक्ष में
अंशविशेष मे पक्षिसंयोग और अंशान्तर मे पक्षिसंयोगाभाव से संयोग के अव्याप्य-
४ २०
२० रसगङ्गाधरः
अपि तस्यायोगात्। शौर्यादिवदात्मधर्माणां गुणानाम् हारादिवदुपस्कार-
काणामलंकाराणां च शरीरघटकत्वानुपपत्तेश्च।
यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न। वस्त्व-
लंकारप्रधानानां काव्यानामकाव्यत्वापत्तेः। न चेष्टापत्तिः, महाकवि-
संप्रदायस्याकुलीभावप्रसङ्गात्। तथा च जलप्रवाहवेगनिपतनोत्पतन-
वृत्तित्वस्य प्रकृतानुपयोगात्, अन्यथा दोषयुक्तस्यापि काव्यत्वं प्रसक्तं भवेदिति नेष्टसिद्धि-
रनया शङ्कया। अत एव ग्रन्थकृताऽपि काव्यत्वस्याऽव्याप्यवृत्तित्वसमर्थको यो व्यव-
हारः 'इदं पद्यं पूर्वार्धे काव्यम् उत्तरार्धे तु न काव्यम्' इति तस्यैव निराकरणमनुभव-
विरुद्धतया कृतम्। दोषस्याव्याप्यवृत्ततानिराकरणं तु नार्थः, तथासति बहुव्याकोप इत्यलं
परपक्षदूषणोद्भावनेन। तस्येत्यनेन काव्यत्वं परामृश्यते। सन्दर्भश्च व्याख्यातप्रायः।
किञ्च श्रुतिकटुत्वादिदोषाणां सर्वांशेन काव्यनिघ्नत्वात्तत्र काव्यत्वस्याव्याप्यवृत्ति-
तामाश्रित्यापि दुष्टस्याऽकाव्यत्वाभ्युपगमोऽनुपपन्न इत्याद्यपि विभावनीयमत्र प्रसङ्गे।
सगुणादिपदप्रतिपाद्यं गुणादिवैशिष्ट्यमपि शब्दशरीरके काव्ये नोपपद्यत इत्याह—
शौर्यादिवदित्यादि। आत्मधर्माणामुपस्कारकाणां चेति द्वयमपि हेतुगर्भं विशेषणम्।
यतो गुणा आत्मधर्मा यतश्चालङ्कारा उपस्कारकत्वेन शरीरानवयवा अत एषां काव्य-
शरीरघटकत्वानुपपत्तिरित्यर्थः।
विश्वनाथोक्तं काव्यलक्षणं दूषयितुं प्रथममर्थतस्तदनुवदति—यत्त्वित्यादिना।
वृत्तित्व के¹ सिद्ध होने पर भी 'इदं पद्यमस्मिन्नंशे निर्दुष्टम् = काव्यम्, अंशान्तरे च
दुष्टम् = अकाव्यम्' इस प्रतीति के प्रामाणिक न होने से काव्य का अव्याप्यवृत्तित्व,
अर्थात् पद्य के निर्दुष्ट अंशमात्र मे काव्यत्व का अस्तित्व, सिद्ध नहीं होता। साथ
ही, शौर्य आदि के समान काव्य की आत्मा (व्यङ्ग्यार्थ) के धर्म गुणों और शरीर के
आगन्तुक शोभाधायक अलङ्कारों को काव्यशरीर के अङ्गभूत तत्त्व कहा भी नहीं
जा सकता।
साहित्यदर्पण में विश्वनाथ ने यह निर्णय किया है कि काव्य वहीं है जो रसवान्
हो, अर्थात् रसोद्बोधक हो। किन्तु यह निर्णय अयुक्त है क्योंकि तब तो वस्तुप्रधान
(जहाँ वस्तु व्यङ्ग्य हो) और अलङ्कारप्रधान (जहाँ अलङ्कार व्यङ्ग्य हो) जो काव्य
हैं वे उनके अनुसार काव्य न हो सकेंगे। वे काव्य हैं भी नहीं—यह तो कहा नहीं
जा सकता, क्योंकि वैसा कहने पर तो महाकवियों की वर्णन-परम्परा हीं उच्छिन्न
१. एक ही अधिकरण के किसी अंश में जिसका अभाव और दूसरे अंश मे भाव
हो उसे 'अव्याप्यवृत्ती' कहते। अव्याप्य = अपने अधिकरण के सर्वांश को
व्याप्त किये बिना, वृत्ती = रहने वाला पदार्थ जो हो।
प्रथमाननम् २१
भ्रमणानि कविभिर्वर्णितानि कपिबालादिविलसितानि च । न च तत्रापि
यथाकथंचित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम् । ईदृशरसस्पर्शस्य
'गौश्चलति', 'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थ-
मात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वादिति दिक् ॥
तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानु-
कूलशब्दार्थोपस्थितिः । तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया
तन्नेत्यादिना खण्डनम् । परम्परयेति यथाकथञ्चिदित्यस्यैव विवरणम् । अङ्गरस-
विभावादितयाऽङ्गिरसस्पर्शित्वमत्र विवक्षितम् परम्परयेत्यनेन । स्वरसेन तु कपि-
विलसितादेरपि साक्षादेव सम्बन्धः । शेषं स्पष्टम् ॥
सम्प्रति लक्षितस्य कविकर्मणः काव्यस्य कारणं निरूपयति—तस्येत्यादिना ।
केवलेत्यनेन प्रतिभाया व्युत्पत्त्यभ्यासाऽसहकृतत्वं बोधयन् व्युत्पत्त्यभ्यासप्रतिभात्रितय-
पर्याप्तत्वं कारणत्वस्य निराचष्टे । लोकोत्तरवर्णनानिपुणताविशिष्टं काव्यं प्रति त्रित-
यस्य कारणत्वमित्यपरे । कविगतेत्यनेन प्रतिभायाः काव्यनिर्माणानुकूलतास्वरूप-
मुपलक्षणमाचष्टे । प्रतिभां वर्णयति—काव्येत्यादिना । अत्र यथावसरमिति
पूरणीयम् । कविगतेत्यनेन दर्शितं विवृणोति—तद्गतमिति । तत्पदेन प्रतिभा
ग्राह्या । कारणतावच्छेदकतयेति । अत्र प्रतिभानिष्ठा काव्यकारणता किञ्चि-
द्धर्माऽवच्छिन्ना, कारणतात्वात्, दण्डादिनिष्ठघटकारणतावदित्यनेन प्रयोगेण प्रतिभा-
हो जाएगी, क्योंकि उन्होंने अपने काव्यों में केवल रसोद्बोधक तत्त्वों का ही नहीं
अपितु जल-प्रवाह, वेग से गिरने, वेग से उछलने, चमत्कारपूर्ण भ्रमण, बन्दरों और
बालकों की आकर्षक लीलाओं का भी वर्णन किया ही है। ये साक्षात् रसोद्बोधक
तो हैं नहीं । ऐसी स्थिति में इन्हें अकाव्य कहना होगा, जो नितान्त अनुचित है।
ये वर्णन भी परम्परा रसोद्बोधक होने से काव्य हैं—यह मानने पर तो 'गौश्चलति'
आदि वाक्यों को भी काव्य कहना होगा, क्योंकि विश्व के समस्त पदार्थों के यथा-
सम्भव विभाव, अनुभाव तथा व्यभिचारिभावों में किसी न किसी वर्ग में आ जाने
से सब में परम्परा रसोद्बोधकता है हीं। ऐसी स्थिति में 'गौश्चलति' आदि
वाक्यों का काव्यत्व मानना ही पड़ जाएगा । अतः साहित्यदर्पणकार का मत भी
उपादेय नहीं है ।
काव्य का हेतु प्रतिभामात्र है, व्युत्पत्ति तथा अभ्यास से सहकृत प्रतिभा नहीं ।
उचित अवसर पर काव्यनिर्माण के लिए उपयोगी चमत्कारजनक पदार्थ और उसके
प्रतिपादक योग्य पद की कवि के ज्ञान में उपस्थिति को ही प्रतिभा कहते । उस
प्रतिभा मे रहने वाला प्रतिभात्व धर्म प्रतिभानिष्ठ काव्य की कारणता के अवच्छेदक
२२ रसगङ्गाधरः
सिद्धो जातिविशेष उपाधिरूपं वाऽखण्डम्। तस्याश्च हेतुः क्वचिद्देवता-
महापुरुषप्रसादादिजन्यमदृष्टम्। क्वचिच्च विलक्षणव्युत्पत्तिकव्यकरणा-
स्वस्य सिद्धिः, ततश्च 'प्रतिभात्वं जातिः, नित्यत्वे सत्यनेकसमवेतत्वाद्' इत्यनुमानेन
तस्य जातित्वसिद्धिर्बोध्या। उपाधिर्वाऽखण्डमिति। यस्य निर्वचनं न सम्भवति
स उपाधिरखण्डः। तथा च विप्रतिपन्नत्वात् जातेस्तत्स्वरूपस्य च ये प्रकृतप्रतिभा-
निष्ठं प्रतिभात्वं जातिरूपं न मन्यन्ते तन्मतेनेदमखण्डोपाधिः। अयं च जातितुल्य-
योगक्षेमत्वात्कारणताया अवच्छेदकः। नौगेशभट्टास्तु समस्तमेवाखण्डोपाधिं जातिं
मन्वाना अखण्डमिति पाठं चिन्त्यं निर्दिशन्तः सखण्डमिति पाठमभिप्रयन्ति। यद्वा
तन्मते उपाधिमात्रस्य सखण्डत्वेनोपाधिर्वेत्येतावन्मात्रमेव पठनीयम्। एतन्मते च
चमत्कारप्रयोजकत्वं वैलक्षण्यं वाऽवच्छेदकमित्याद्यनुगमः कारणतायाः कर्त्तव्यः।
प्रतिभाहेतुं निरूपयति--तस्याश्चेत्यादिना। प्रतिभाया इत्यर्थः। क्वचित्=
व्युत्पत्त्यभ्यासरहिते पुरुषे। क्वचिच्च = अदृष्टाभावविशिष्टव्युत्पत्त्यभ्यासविशिष्टे
के रूप अनुमित एक जाति है। कारण में जो कारणता रहती वह कारणनिष्ठ
किसी अन्यूनानतिरिक्तवृत्ती धर्मान्तर से अवच्छिन्न होती है और वह धर्मान्तर उस
कारणता का अवच्छेदक होता है। जैसे-दण्ड घट का कारण है, अतः दण्ड मे
घटनिष्ठ कार्यता से निरूपित, कारणता है। उस कारणता का अवच्छेदक उससे
न्यून अथवा अधिक देश मे रहने वाला तद्दण्डत्व अथवा पृथिवीत्वादि नही हो
सकता, अपितु जितने में कारणता रहती उतने मे ही रहने वाला और उससे अधिक
मे न रहने वाला (अन्यूनानतिरिक्तवृत्ती) दण्डत्व नामक धर्म ही होता है। यह
दण्डत्व नित्य और अनेक ( सभी ) दण्डों मे समवाय सम्बन्ध से विद्यमान
(अनेकसमवेत) होने से जातिस्वरूप है। इसी तरह प्रतिभा मे जो काव्यनिरूपित
कारणता है उसका अवच्छेदक प्रतिभानिष्ठ कारणता से न्यूनदेश में अथवा अधिक
देश मे न रहने वाला प्रतिभात्व धर्म है और वह नित्य एवं सभी प्रतिभाओं मे
समवाय सम्बन्ध से विद्यमान होने से एक जाति है। किन्तु जाति का लक्षण
सभी शास्त्रों में एक नहीं है और अद्वैतवादी वेदान्ती तो जातिनामक कोई पदार्थ
मानते भी नहीं, क्योंकि उनके मत मे ब्रह्म से भिन्न सबके सब पदार्थ मिथ्या और
अनित्य हैं। अतः उक्त प्रतिभात्व को एक अखण्ड उपाधि, अर्थात् खण्डों में विभक्त
न होने वाला-निर्वचन के अयोग्य धर्म, भी कहा जा सकता है। नागेश भट्ट तो
किसी भी उपाधि को अखण्ड मानते हीं नहीं। अतः उनके अनुसार यह प्रतिभात्व
सखण्ड उपाधि है।