रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 39, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् ७
व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये तस्मिन्
विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते—
सहृदयत्वं तस्यैव यः कविकर्मानुभविता । अत एवात्र शास्त्रे सहृदयपदेन काव्यार्थ-
भावनाजनकसंस्कारविशेषवानेव गृह्यते । शास्त्रान्तरे च तत्तदर्थभावनाजनकसंस्कार-
विशेषवानेव सहृदयः । आवश्यकतयेति । तत्त्वं च काव्यार्थव्युत्पत्ते स्तद्विवेचनो-
पयोगित्वेन रसास्वादनसहकारित्वेन च बोध्यम् । गुणा माधुर्यादयः, अलङ्काराः
शब्दाश्रिता अर्थाश्रिता उभयाश्रिताश्चानुप्रासोपमाश्लेषप्रभृतयः । अत्र गुणालङ्कारा-
दिभिरिति तृतीया गुणादीनामुपलक्षणत्वं बोध्यते । अत एवैभिः काव्यतत्त्व-
ज्ञानेऽपि नैषां सर्वकाव्यनिष्ठत्वाऽऽग्रहो मुक्तके प्रबन्धे च सर्वावयवनिष्ठत्वाऽऽग्रहः ।
यावल्लक्ष्यकालमविद्यमानमपि व्यावर्तकमुपलक्षणं मन्यते । यथा काकवन्तो देव-
दत्तस्य गृहा इत्यादौ काकः । अत एव 'उदितं मण्डलं विधोः' इत्यादौ नाव्याप्तिरिति
वक्ष्यति स्वयमेव । तस्मिन् = काव्ये । विशेष्यतावच्छेदकमिति । अयमाशयः—
काव्यज्ञानानुकूलः शब्दप्रयोगो निरूपणमत्र । तथा च गुणालङ्काराद्युपलक्षितं काव्यं
निरूपणीयम् । निरूपणस्य विशेष्यं काव्यम् इति काव्ये विशेष्यता, तदवच्छेदको धर्मः
काव्यत्वम्, तच्च किंस्वरूपम् इति प्रतिपादनीयम् । तदेव निरूपितं सत् काव्यस्येतर-
भेदानुमितौ हेतुरिति । काव्यत्वं च रमणीयार्थप्रतिपादकशब्दत्वस्वरूपम्, तद्धे-
तुका चेतरभेदानुमितिः 'काव्यं स्वेतरभिन्नम्, रमणीयार्थकप्रतिपादकशब्दत्वात्,
यत्र यत्र स्वेतरभिन्नत्वाभावः = स्वेतरत्वं तत्र तत्र रमणीयार्थप्रतिपादकशब्दत्वाभावः,
यथा गौर्गच्छतीत्यादौ, न चेदं तथा, तस्मान्न तथा' इत्याकारिका । तल्लक्षणम् =
काव्यलक्षणम् ।
प्रयोजनों की प्राप्ति के लिए कवि तथा सहृदय दोनों को ही साङ्गोपाङ्ग काव्य के
स्वरूपादि का यथार्थबोध होना आवश्यक है । अतः श्लेष-प्रसाद आदि गुणों एवं
उपमा आदि अलङ्कारों से उपलक्षित काव्य के स्वरूप आदि का निरूपण इस ग्रन्थ में
करना है । इस प्रसङ्ग में निरूपण के विशेष्यभूत काव्य में जो विशेष्यता है उसका
अवच्छेदक (काव्यत्व) और अन्य पदार्थ से काव्य के भेद का साधक जो लक्षण
उसका निरूपण प्रथमतः किया जा रहा है—
[गुण एवम् अलंकार आदि को काव्य का विशेषण नहीं अपि तु उपलक्षण माना
गया है। जो विशेष्य मे वर्त्तमान होते हुए उसको अन्य पदार्थ से भिन्न सिद्ध करता
हो उसे विशेषण और जो उपलक्ष्य में सर्वदा विद्यमान न रहकर भी उसको अन्य से
भिन्न सिद्ध करता हो—उपलक्ष्य का स्पष्ट परिचय कराता हो, उसे उपलक्षण कहा
जाता। संक्षेप मे यह ज्ञातव्य है कि उपलक्षण का (क) उपलक्ष्य मे सर्वदा रहना और
(ख) सभी उपलक्ष्यों में रहना अनिवार्य नही है। काव्य के सन्दर्भ मे उपलक्षण का