रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 41, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् ९
ह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः । कारणं च
तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसंधानात्मा । 'पुत्रस्ते जातः,' 'धनं
ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम् । अतो न
तस्मिन्वाक्ये काव्यत्वप्रसक्तिः । इत्थं च चमत्कारजनकभावनाविषयार्थ-
सहृदयानुभवमात्रैकप्रमाणगम्यः । सहृदयश्चात्र काव्यार्थभावनाजनकसंस्कार-
वानेवेत्यावेदितपूर्वम् । अतो नातिप्रसङ्गः । चमत्कारकारणमाह—कारणं-
मिति । तदवच्छिन्ने = चमत्कारत्वावच्छिन्ने चमत्कारिणि लोकोत्तर आह्लादे ।
भावनाविशेष इत्यत्र सहृदयनिष्ठत्वं काव्यार्थमात्रविषयकत्वं विपरीतभावना-
ऽसहकृतत्त्वादि च विशेषः । पुनः पुनरनुसन्धानात्मेत्यनेन चेदं सूचितं यत्काव्यार्थस्य
भूयो भूयोऽनुसन्धाने स्मरणात्मके लोकोत्तरानन्दो जायते । अत एवार्वाचीनोत्तरचरित-
स्यापि पुनस्तदध्ययने रुचिर्भवति । यदा यदा काव्यार्थश्चिन्त्यते तदा तदाऽलौ-
किकाह्लादो जायत एवासति प्रतिबन्धके । एतेन प्रत्येक़ानुसन्धानेऽपि तादृशाह्लाद-
जनकता वर्त्तत एवेति सूच्यते । काव्यार्थेतरविषयकानुसन्धानप्रवाहे तु नैवम्, आद्या-
नुसन्धानेऽपूर्वाऽऽह्लादे जायमानेऽपि द्वितीयाद्यनुसन्धानेषु क्रमेणानन्दमात्राहासस्य
प्रमितेः । विकाराक्रान्तत्वमेव हि लौकिकत्वं भावानाम्, तद्रहितत्वं च लोकोत्तर-
त्वम् । किञ्च काव्यार्थेतरमात्रविषयकोऽनुसन्धानप्रवाहोऽपि सहृदयेषु न प्रसिद्धः ।
एतदेवाऽभिप्रेत्याह—पुत्रस्ते जात इत्यादि । न लोकोत्तरत्वमिति । तदर्थ-
भावनाजन्यत्वाऽभावादिति हेतुः । एतदेव ज्ञानपदमपहाय भावनापदप्रयोगस्य
प्रयोजनम् । वाक्य इति । वाक्यं चात्र काव्याऽघटकं विवक्षितम् । तद्घटके तथा-
विधवाक्येऽपि काव्यत्वस्य दुरपह्नवत्वात् । अत एव काव्यतदितरार्थविषयकभाव-
नायामपि न चमत्कारजनकत्वम्, तस्याः पूर्वोक्तविशेषव्यावृत्तत्वात् । अतो न
तथाविधार्थविषयकसमूहालम्बनभावनामादायातिप्रसङ्गः । भावनायाः समूहालम्बन-
त्वविरहश्च निर्युक्तिकः । अत एव भावनाया ज्ञानप्रवाहरूपतया तस्यां काव्यार्थेत-
राऽविषयकत्वमित्यपि नोचितम्, द्वित्रासु ज्ञानव्यक्तिषु तद्विषयकत्वसम्भवात् । सर्वासु
ज्ञानव्यक्तिषु तदविषयकत्वमित्यपि न सुवचम्, सर्वशब्दार्थस्याननुगतत्वेन यस्य
द्वित्रा एव ज्ञानव्यक्तयो जातास्तत्र च तद्विषयकत्वम् तस्य सर्वामामेव ज्ञानव्यक्तीनां
तदविषयकत्वसम्भवात् । सर्वेषां सर्वभावनाविषयत्वविवक्षणे त्वसम्भव इत्यलम् ।
सूत्रोक्तकाव्यलक्षणं परिष्करोति—इत्थं चेत्यादिना । चमत्कारजनिका या
ओतप्रोत सज्जनों का अनुभव ही है । इसीलिए काव्य से बहिर्भूत 'तुम्हारे पुत्र उत्पन्न
हुआ है' और 'तुम्हें धन दूँगा' इत्यादि वाक्यों में उक्त काव्यलक्षण को अतिव्याप्ति
नहीं होती, क्योंकि ये वाक्य आह्लादजनक होकर भी लोकोत्तराह्लादजनक नहीं हैं ।
इस प्रकार उक्त काव्यलक्षण का फलितार्थ यह हुआ—