प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
३८ प्रमाणवार्त्तिके
दृश्यम् ? पृथगशक्तानामक्षादीनां गतिः कथम् ? ॥ ९० ॥
संयोगाच्चेत्; समानोऽत्र प्रसङ्गो हेमसूत्रयोः ।
दृश्यः संयोग इति चेत् कुतोऽदृश्याश्रये गतिः ! ॥ ९१ ॥
रसरूपादियोगश्च संयोग उपचारतः ।
इष्टश्चेद् बुद्धिभेदोऽस्तु पंक्तिर्दीर्घेति वा कथम् ! ॥ ९२ ॥
संख्यासंयोगकर्मादेरपि तद्वत् स्वरूपतः ।
पृथगवस्थायां ज्ञानजननेऽशक्ता इति ? पुञ्जावस्था अपि तथा । तदा पृथग-
शक्तानामक्षादीनां ज्ञानजनने संहतौ गतिर्ज्ञानं कथम् ! ॥ ९० ॥
तस्मादनैकान्तिकमपि हेतुद्वयं नेन्द्रियादेर्ज्ञानजन्म; किन्तु १संयोगात् तदी-
यादिति चेत् ? समानोऽत्र प्रसङ्गः । यथा पृथगिन्द्रियादयः संयोगं न जन-
यन्ति, तथा मिलिता अपि न जनयेयुः । हेमसूत्रयोर्दृश्यः संयोगो दृश्यत
इति चेत् कुतोऽदृश्याश्रये गतिः । हेमसूत्रपरमाणवो हि संयोगस्याश्रयाः,
तेषामदृश्यत्वे कथं तदाश्रितस्य संयोगस्य दर्शनम् ? न हि कश्चित् पिशाचयोः
संयोगमुपलभते ! किञ्च— नानाद्रव्यारब्धपानकादिरपि संयोगो गुण एषितव्यः,
तस्मिन् मृष्टं पानकं स्वरूपं पानकमिति निर्गुणत्वाद् गुणानां विरुद्धः ॥ ९१ ॥
नानागुणिद्रव्येषु संयोगो रसरूपादयश्च समवेता इत्येकार्थसमवायात् तद्धर्मस्य
पानकादिषूपचारतो रसरूपादियोग इष्टश्चेत् ? तर्हि क्षीरादौ पानकादौ च
मुख्यामुख्यत्वेन स्पष्टास्पष्टतया २मृष्टादिबुद्धेर्भेदः स्यात् । न हि माणवकेऽग्नि-
बुद्धिरुपचारादग्नाविव भवति । पंक्तिर्दीर्घेति वा कथं पंक्तिषु समवेता
पंक्तिः संख्या गुणे वा स्यात् , न च तत्र दैर्घ्यमस्ति निर्गुणत्वात् गुणानाम् !
नापि पंक्तिषु दैर्घ्यमस्ति येनैकार्थसमवायादुपचारः स्यात् ! ॥ ९२ ॥
एतच्चाभ्युपगम्योक्तम्, न तु संख्यादयः सन्ति, तदाह—संख्यासंयोग-
कर्मादेः । आदिशब्दाद् विभागपरत्वसामान्यादेः, अपि । तद्वत् स्वरूपतो
१. तथा हि—“आत्मा मनसा युज्यते, मनः इन्द्रियमर्थेन, ततो ज्ञानोत्पत्तिः”
इति तन्निकायसिद्धान्तः ।
२. आदिना क्षीरोदकादेर्ग्रहणम् ।
प्रमाणसिद्धिः ३९
अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥ ९३ ॥
शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा ।
गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ॥ ९४ ॥
मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धनः ।
स एव सर्वभावेषु हेतुः किं नेष्यते तयोः ॥ ९५ ॥
उपचारो न सर्वत्र यदि भिन्नविशेषणम् ।
मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् ! ॥ ९६ ॥
द्रव्यस्वभावाद् भेदेनाभिलापाच्च संख्यासंयोग इत्यादिकात् बुद्धौ द्रव्यग्राहिण्यां
रूपं न भासते अभासमानं च दृश्यानुपलब्ध्या बाधितम् ॥ ९३ ॥
यदि संख्यादयो न सन्ति, कथमेको घटः संयुक्तो महान् पततीत्यादि
व्यपदिश्यते, अर्थभेदाभावे पर्यायता प्राप्नोति ? इत्याह—शब्दज्ञाने एको घट
इत्यादिके कल्प्यार्थे कल्पितार्थे विकल्पेन । कीदृशेन ? वस्तुभेदानुसारिणा
वस्तुनो भेदः = विजातीयाद् व्यावृत्तिः, तां विषयत्वेनानुसरता गुणादिष्विव,
यथा—पङ्क्त्यादौ एका महती गच्छतीत्यादिशब्दज्ञाने । न हि तत्र संख्यादयः
सन्ति; निर्गुणत्वाद् शब्दज्ञानवत् गुणानाम् । नष्टाजातेषु वा यथा । एको द्वौ
बहवो नष्टा भविष्यन्ति वेति शब्दज्ञानवत् । नष्टमजातं च स्वयमेव नास्ति, किं
पुनस्तत्र संख्यादयो भविष्यन्ति ! ॥ ९४ ॥
मतो यद्युपचारोऽत्र गुणादिषु संख्यादिव्यपदेशस्य स उपचार
इष्टो यन्निबन्धनो¹ गुणादिषु संख्याद्युपचारस्य हेतुर्यः स एव सर्वभावेषु
हेतुः किन्नेष्यते तयोः शब्दज्ञानयोः, येन संख्यादयः कल्प्यन्ते प्रमाण-
बाधिताः ॥ ९५ ॥
उपचारो न सर्वत्र यदि । मुख्ये सत्युपचारो भवति न तु सर्वत्रैवासौ ।
भिन्नविशेषणं मुख्यम् । यत्र भिन्नं विशेषणमस्ति तन्मुख्यम् , अन्यत्रोपचारः ।
भिन्नविशेषणं मुख्यमित्येतदेव च कुतो निश्चितम् अभिन्ने भिन्नार्थतेति
चेत् ॥ ९६ ॥
१. लोकव्यवहारनिबन्धन इत्यर्थः ।
४० प्रमाणवार्त्तिके
अनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिषु ।
संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि ॥ ९७ ॥
गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेदतः ।
स्यादनर्थान्तराथैत्वेऽप्यकर्माद्रव्यशब्दवत् ॥ ९८ ॥
व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः ।
संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम् ॥ ९९ ॥
श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा ।
यदि संख्यादि भिन्नं नास्ति तदा घट एकः संयुक्तो महान् गच्छतीति
शब्दानां पर्यायता स्यात्, न चास्ति ॥
नन्वनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिगुणेषु संख्यादियोगिनः
शब्दा दृश्यन्ते । तत्राप्यर्थान्तरं यदि सितादौ संख्यादि तिष्ठति; ततस्त-
च्छब्दानामपर्यायतापत्तिः ॥ ९७ ॥
एवं च सति गुणानां द्रव्याणां चाविशेषः स्यात् ; संकीर्णलक्षणत्वात् ।
'क्रियावत् गुणवत् समवायिकारणं द्रव्यम्' इति लक्षणस्य द्वयोरपि भावात् ।
कथं पुनरभिन्नार्थत्वेऽप्यपर्यायत्वम् ? इत्याह—विजातीयेभ्योऽनेकासंयुक्तादिभ्यो
व्यावृत्तेर्भेदात् भिन्नः प्रत्ययश्चैको घटः, संयुक्तो घट इत्यादि । अकर्म द्रव्यम्,
अद्रव्यं कर्मेति शब्दाविव भिन्नो व्यतिरिक्ताथभावेऽपि । न हि तन्मतेऽप्यकर्म-
द्रव्यशब्दयोरर्थो द्रव्यकर्मभ्यां भिन्नो वस्तुभूतोऽस्ति ॥ ९८ ॥
यदि न सन्ति संख्यादयः, कथं घटस्यैकत्वं संयोगो वा इत्यादि व्यपदेशः ?
इत्याह—व्यतिरेकीव भेदवदिव यच्चापि संख्यादितद्वतो द्रव्याद् भाववा-
चिभिः द्रव्याभिधायिभिः शब्दैः सूच्यते घटस्यैकत्वमित्यादि । तत् सूच्यमानमेक-
त्वादिधर्मान्तरस्य शुक्लत्वादेः भेदकम् । यद्यपि घटान्नैकत्वादयो भिन्ना वस्तुतः,
तथाप्येकत्वशुक्लत्वादयो घटात् परस्परं चानुवृत्त्यननुवृत्तिभ्यां कल्पितभेदाः ॥९९॥
तेषु यदैको धर्मः प्रतिपित्सितः, तदा भेदेन निर्दिष्टः स धर्मान्तरप्रतिक्षेपको
भवति—घटस्यैकत्वमित्यादि, तदा तन्मात्रस्यैकधर्ममात्रप्रतिपित्सोः प्रतिपाद्यस्यानु-
रोधेन च तथा संकेतवशात् प्रयुक्ता श्रुतिः, अनाक्षिप्तोऽविषयीकृतोऽपरो-
प्रमाणसिद्धिः ४१
भिन्नं धर्ममिवाचष्टे योगोऽङ्गुल्या इति क्वचित् ॥ १०० ॥
युक्ताङ्गुलीति सर्वेषामाक्षेपाद् धर्मिवाचिनी ।
ख्यातैकार्थाभिधानेऽपि तथा विहितसंस्थितिः ॥ १०१ ॥
रूपादिशक्तिभेदानामनाक्षेपेण वर्त्तते ।
तत्समानफलाऽहेतुव्यवच्छेदे घटश्रुतिः ॥ १०२ ॥
अतो न रूपं घट इत्येकाधिकरणा श्रुतिः ।
भेदोऽयमीदृशो जातिसमुदायाभिधायिनोः ॥ १०३ ॥
ऽखिलो धर्मः (व्यवच्छेदकः) यथासम्भवी यया सा तादृशी धर्मिणो धर्मान्तरेभ्यश्च
भिन्नं निष्कृष्टमिव धर्ममाचष्टे, यथा-अङ्गुल्या योग इति ॥ १०० ॥
यदा तु स एव धर्मो धर्मान्तरसम्बन्धयोगो जिज्ञासितः, तदा संकेताद्
युक्ताङ्गुलीति श्रुतिः सर्वेषां धर्मान्तराणाम् १ आक्षेपाद् धर्मिवाचिनी
ख्याता । एकस्य विजातीयव्यावृत्तिलक्षणस्यार्थस्याभिधानेऽप्ययं विभागो
युक्तः । यस्मात् तेन प्रकारेण विहितसंस्थितिः कृतव्यवस्था सा श्रुतिः
संकेतेन ॥ १०१ ॥
तदेवं धर्मवाचिन्यपि श्रुतिर्धर्मान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मवाचिनी, धर्मि-
वाचिनी वेति निर्दिष्टम् । इदानीं २समुदायवाचिनीं दर्शयति ।
घटव्यपदेशभाजां रूपादीनामवान्तररञ्जनादिशक्तिभेदानामनाक्षेपेण
तेषां रूपादीनां यत् समानं फलमुदकाहरणादि तस्याहेतोरश्वादेर्व्यवच्छेदे
प्रतिपाद्ये घटश्रुतिर्वर्तते । उदकाहरणाद्यहेतुव्यावृत्तिं समुदायवाची घटशब्द
आहेत्यर्थः ॥ १०२ ॥
अतः समुदायाभिधायित्वात् 'न रूपं घटः' इत्येकाधिकरणा श्रुतिः । रूप-
शब्दो हि धर्मवाची, घटशब्दस्तु समुदायाभिधायी-कथमनयोरेकार्थता ! भेदो-
ऽयमीदृशो जातिसमुदायाभिधायिनोर्घटत्वघटशब्दयोश्च ज्ञेयः ॥ १०३ ॥
१. अङ्गुलीगतानामिति शेषः ।
२. रूपरसादेरिति शेषः ।
४२ प्रमाणवार्त्तिके
रूपादयो घटस्येति तत्सामान्योपसर्जनाः ।
तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया ॥ १०४ ॥
हेतुत्वे च समस्तानामेकाङ्गविकलेऽपि न ।
प्रत्येकमपि सामर्थ्ये युगपद् बहुसम्भवः ॥ १०५ ॥
समुदायाभिधायी चाप्रतिक्षिप्तधर्मान्तर एव भवतीति 'सौवर्णो घटः' इत्यादि
सामानाधिकरण्यम् । स १ च द्विविधः—अनेकवृत्तिः २, अन्यथा ३ च । तथा घटादि-
शब्दो विन्ध्याद्रिशब्दश्च । यदि रूपादयः केवलाः, नास्त्यवयवी, तदा कथं
'घटस्य रूपादयः' इति सम्बन्धः ? इत्याह—रूपादयो घटस्य इति सम्बन्ध-
वाचिन्या श्रुत्या तत्सामान्योपसर्जना घटत्वसामान्यविशेषितास्तेषां रूपादीनां
शक्तिभेदा रञ्जनादयः ख्याप्यन्ते । घटव्यपदेशविषयसमुदायान्तर्गतं रञ्जनक्षमं रूपं
निष्कृष्योच्यत इत्यर्थः । अन्योऽपि 'चन्दनस्य गन्धः' इत्यादिव्यपदेशोऽनया
दिशा वाच्यः । विस्तरस्तुतृतीयपरिच्छेद ५ एवास्य । तदेवमवयव्यादीनां प्रतिषेधात्
पानकादिव परमाणुपुञ्जरूप एव देहः प्रत्यक्षेणेक्ष्यत इति स्थितम् ॥ १०४ ॥
न चास्य बुद्धिहेतुत्वं युक्तमिति प्रकृतमनुबन्धं परमाणूनां समुदितानां प्रत्येकं
बुद्धिहेतुत्वाभावं वक्तुमाह—यदि समस्तानां देहपरमाणूनां हेतुत्वम्, तदाऽवय-
वच्छेदादिना ६ एकाङ्गविकलेऽपि देहे न स्यात् बुद्धिः, न चैतदस्ति । अथ
प्रत्येकं ते समर्थाः, तदा प्रत्येकमपि सामर्थ्ये स्वीक्रियमाणे युगपद् बहुसम्भवः ।
परमाणुसंख्यानि ज्ञानानि युगपज्जायेरन् ; सर्वेषां प्रत्येकं सामर्थ्यात् ॥ १०५ ॥
अथ प्राणापानाभ्यां नियामकाभ्यामेकमेव ज्ञानमभिव्यज्यते, ततो न युगपदनेका
व्यक्तिः ? इत्यत आह—(नेत्यादि) । तन्न; परमाणुसञ्चयात्मकत्वेन देहवत् प्राणापान-
१. समुदायाभिधायीति शेषः ।
२. अनेकघटवृक्षादावित्यर्थः ।
३. एकगिरौ स्वसमुदायापेक्ष इत्यर्थः ।
४. द्विधा रूपादीनां शक्तिः—सामान्या, प्रतिनियता च । सामान्या यथा—घटा-
देरुदकाहरणादि, प्रतिनियता च चक्षुर्विज्ञानादिजनिका ।
५. सामान्यादिविचारावसरे ( प्र० वा० ३.५५ ) ।
६. कर्णादिछेदादिनेत्यर्थः ।
प्रमाणसिद्धिः ४३
नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ ।
एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः ॥ १०६ ॥
नानेकहेतुरिति चेन्नाविशेषात् क्रमादपि ।
नैकप्राणेऽप्यनेकार्थग्रहणान्नियमस्ततः ॥ १०७ ॥
एकयाऽनेकविज्ञाने बुद्ध्याऽस्तु सकृदेव तत् ।
अविरोधात्; क्रमेणापि मा भूत् तदविशेषतः ॥ १०८ ॥
बहवः क्षणिकाः प्राणा अस्वजातीयकालिकाः ।
तादृशामेव चित्तानां कल्प्यते यदि कारणम् ॥ १०९ ॥
क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना ।
योरप्यनेकत्वस्य तुल्यत्वात् । तेषां प्रत्येकमभिव्यञ्जकत्वे युगपदनेकाभिव्यक्ति-
प्रसङ्गादेकज्ञानाभिव्यक्तौ प्राणापानौ नियामकौ न युक्तौ । एकत्वेऽपि
प्राणस्य, अपानस्य च बहूनां नानाकालभाविनां ज्ञानानां युगपदभिव्यक्तिः
स्यात् । तस्याभिव्यक्तेर्हेतोः प्राणादेर्नित्यं सन्निधेः ॥ १०६ ॥
युगपन्नानेकस्याभिव्यक्तिहेतुः प्राणादिरिति चेत्, न स्याद्धेतुः; अवि-
शेषात् क्रमादपि ।
किञ्च—एकस्मिन्नपि प्राणेऽनेकेषामर्थानां ग्रहणादनेकाभिर्बुद्धिभिः ‘एकः
प्राणः एकां बुद्धिमभिव्यनक्ति’ इति, नायं तत एकप्राणान्नियमः ॥ १०७॥
एकया¹ बुद्ध्याऽनेकविज्ञाने च स्वीक्रियमाणेऽस्तु सकृदेव तत् यावद्
ग्रहीतव्यग्रहणमविरोधात् । यद्येकस्या अनेकग्रहणं विरुध्यते, कतिचित्पदार्थग्रहण-
मप्येकदा न स्यात् । न विरुध्यते चेत्, यावद्ग्रहीतव्यं गृह्णीयात्; अन्यथा
क्रमेणापि मा भूदनेकग्रहणम्; तदविशेषतो बुद्धेर्विशेषाभावात् ॥ १०८ ॥
बहवः क्षणिकाः प्राणा अस्वजातीयकालिका असहभाविनः, तादृशा-
मेकक्षणिकानां बहूनामसहभाविनां चित्तानां कल्प्यन्ते यदि कारणम् ?
तदा क्रमवन्तः कथं ते प्राणाः स्युः क्रमवद्धेतुना विना ! शरीरं तेषां
१. ‘आसर्गप्रलयादेरैकैव बुद्धिः’—इति सिद्धान्तात् ।
४४ प्रमाणवार्त्तिके
पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भवः ॥ ११० ॥
तद्धेतुस्तादृशो नास्ति सति वाऽनेकता ध्रुवम् ।
प्राणानां भिन्नदेशत्वात् सकृज्जन्म धियामतः ॥ १११ ॥
यद्येककालिकोऽनेकोऽप्येकचैतन्यकारणम् ।
एकस्यापि न वैकल्ये स्यान्मन्दश्वसितादिषु ॥ ११२ ॥
अथ हेतुर्यथाभावं ज्ञानेऽपि स्याद् विशिष्टता ।
न हि तत् तस्य कार्यं यद् यस्य¹ भेदान्न भिद्यते ॥ ११३ ॥
विज्ञानं शक्तिनियमादेकमेकस्य कारणम् ।
हेतुः, तच्चाक्रमम् । न चाक्रमात् क्रमिकार्यं युक्तम् । पूर्वस्वजातिहेतुत्वे न
स्यादाद्यस्य प्राणस्य सम्भवः ॥ १०९-११० ॥
न हि परलोकागतः प्राणोऽस्ति, य आद्यस्य शरीरसम्बन्धिनो हेतुः स्यात् ।
एतदेवाह—तद्धेतुस्तादृशो नास्ति । सति च तद्धेतावनेकता ध्रुवं प्राणानां
भिन्नदेशत्वात् । देशभेदात् प्राणाः प्रतिदेशं भिन्नाः, अतोऽनेकत्वात् प्राणानां
प्रत्येकं समर्थानां तेभ्यो व्यञ्जकोऽनेकत्वात्। अतो धियां जन्म सकृत् स्यादिति
प्रसङ्गः ॥ १११ ॥
यद्येककालिकोऽनेकः प्राण एकचैतन्यकारणमिष्यते², तदैकस्यापि
प्राणस्य मन्दश्वसितादिषु वैकल्ये सति न स्याच्चैतन्यम्; कारणानाम-
समग्रत्वात् ॥ ११२ ॥
अथ हेतुर्यथाभावं यथासम्भवं प्राणानां हेतुत्वं स्यात् ? तदा ज्ञानेऽपि
स्याद् विशिष्टता प्राणानामुपचयापचयाभ्यां ज्ञानमपि तादृशं स्यात् । न हि
तत्तस्य कार्यं युक्तम्, यद्यस्य भेदान्न भिद्यते ॥ ११३ ॥
तन्मतेऽपि धियां सकृज्जन्म कस्मान्न भवति ? इत्याह—विज्ञानं
शक्तिनियमादेकविज्ञानमेकम्; शक्तेः स्वकारणकृताया नियमादेकस्य
विज्ञानस्य कारणमिति न सकृद् धियां जन्म ।
१. तस्य--रा० ।
२. युगपद् बहुसम्भवनिरासार्थमिति शेषः ।
प्रमाणसिद्धिः ४५
अन्यार्थासक्तिविगुणे ज्ञाने नार्थान्तराग्रहात् ॥ ११४ ॥
कर्मसिद्धिः
शरीरात् सकृदुत्पन्ना धीः स्वजात्या नियम्यते ।
परतश्चेत् समर्थस्य देहस्य विरतिः कुतः ॥ ११५ ॥
अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः ।
केवलस्येति चेच्चित्तसन्तानस्थितिकारणम् ॥ ११६ ॥
तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति ।
हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥ ११७ ॥
तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम् ।
कुत एतत् ? इति चेदाह—अन्यस्मिन्नर्थे आसक्त्या पुनः पुनः प्रवृत्त्या-
त्मिकया विगुणे विषयान्तरसञ्चारिज्ञानोत्पादविरोधिनि ज्ञाने पूर्वके सति विष-
यान्तरस्याग्रहणात् , अविगुणे तु ग्रहणात् । तस्मात् ज्ञानकार्यं ज्ञानम्; तदन्वय-
व्यतिरेकानुविधानात् ॥ ११४ ॥
अथ शरीरात् सकृत् प्रथममुत्पन्ना धीः स्वजात्या नियम्यते, परत
एकस्या बुद्धेरेका बुद्धिर्भवतीति न सकृज्जन्मप्रसङ्गः । ननु बुद्धिजनने प्रथमं समर्थस्य
देहस्य पश्चाद् विरतिः कुतः, येन बुद्धिर्नियामिका स्यात् परतः ! ॥ ११५ ॥
ननु यदि बुद्धेर्न देह आश्रयः, तदाऽनाश्रयादाश्रयाभावात् निवृत्ते शरीरे
केवलस्य चेतसः स्थितिः स्यादिति चेत् , स्यादेतत् ; शरीरेण सह चित्त-
सन्तानस्य स्थितिकारणं दृष्टं सहायं यत्कर्म ॥ ११६ ॥
तद्यदि तस्य पारलौकिकस्य देहस्य हेतुरैहिकमन्त्यं पञ्चायतनं तस्य वृत्तिः
पारलौकिकदेहजननाद्याभिमुख्यम् , तस्य लाभाय प्राप्तयेऽङ्गतां सहकारितां न
गच्छति । तदा केवलं चित्तं तिष्ठति; यथा—विरूपे धातौ ।
कः पुनरामुष्मिकदेहहेतुः, यस्य चित्तं सहकारि ? इत्याह—हेतुर्देहान्त-
रोत्पत्तौ पञ्चायतनं पञ्चेन्द्रियाणि ऐहिकमिदंजन्मभवम् ॥ ११७ ॥
यच्च तयोः कर्म ऐहिकपञ्चायतनयोर्यथाक्रममङ्गभावहेतुत्वयोः सहका-
रितोपादानत्वयोर्निषेधे कर्त्तव्ये अनुपम्भनं परैरुच्यते, तदनिश्चयकरमनैका-
४६ प्रमाणवार्त्तिके
अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत् ॥ ११८ ॥
दृष्टा च शक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु ।
विकारदर्शनात् सिद्धमपरापरजन्म च ॥ ११९ ॥
शरीराद् यदि तज्जन्म प्रसङ्गः पूर्ववद् भवेत् ।
चित्ताच्चेत् तत एवास्तु जन्म देहान्तरस्य च ॥ १२० ॥
तस्मान्न हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम् ।
असन्धिरीदृशं तेन शेषवत् साधनं मतम् ॥ १२१ ॥
अभ्यासेन विशेषेऽपि लङ्घनोदकतापवत् ।
न्तिकम्; अदृश्यविषयत्वात् प्रोक्तम् । इन्द्रियाद्यपि शेषवत् यदपीन्द्रियादि
शरीरान्तरसम्बन्धीन्द्रियादि प्रतिसन्धातृ न भवतीन्द्रियत्वादिरिति शेषवदनैकान्तिकं
बोद्धव्यम् । आदिशब्दात् प्राणापानत्वादि, ज्ञानत्वादि च ॥ ११८ ॥
विरुद्धत्वमपि दर्शयति—दृष्टा च शक्तिः पूर्वेषामिन्द्रियाणां स्वजा-
तिषु कर्तव्येषु मध्यावस्थायां तत इन्द्रियादित्वात् । स्वजातिप्रतिसन्धातृत्वमेवैषां
युक्तम् । मध्यावस्थायाञ्च पूर्वावस्थातः पाटवादिविकारदर्शनात् सिद्धं प्रतिक्षण-
मपरापरजन्म चेन्द्रियादीनामिति नादृष्टान्तो हेतुः ॥ ११९ ॥
ननु शरीरादेवेन्द्रियादीनां जन्म ? इत्याह—शरीराद् यदि तेषामिन्द्रिया-
दीनां जन्म, तदा पूर्ववद् “हेतुत्वे च समस्तानाम्” ( प्र० वा० १.१०५ )
त्यादिनोक्तः प्रसङ्गो भवेत् । चित्ताच्चेदिन्द्रियचित्तादीनां जन्म शरीराजन्मनि
दोषदर्शनादिष्यते, तदा अन्यावस्थायामप्यविकलत्वाच्चित्तस्य तत एवास्तु जन्म
देहान्तरस्य पञ्चायतनरूपस्यानागतस्य ( च ) ॥ १२० ॥
यतश्चित्तमेव चित्तस्य हेतुः, तृष्णाकर्मसहायं च पञ्चायतनस्य, तस्मान्न
हेतुवैकल्यात् सर्वेषामन्त्यचेतसामसन्धिः चित्तस्य पञ्चायतनस्य च हेत्व-
वैकल्यात् कार्योत्पादस्यावश्यम्भावित्वात् । तेनेदृशमन्त्यचित्तत्वादि शेषवदनैका-
न्तिकं साधनं मतम् ॥ १२१ ॥
तदेवं चित्तमात्रप्रतिबद्धत्वाच्चित्तजन्मनो देहनिवृत्तावपि जन्मपरम्परासम्भवे
युक्तः कृपाभ्यास इति “अभ्यासात् सा” ( प्र० वा० १.२१ ) इति समर्थितम् ।
स्वभावातिक्रमो मा भूदिति चेद्;
आहितः स चेत् ॥ १२२ ॥
पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिराश्रयः ।
विशेषो नैव वर्धेत स्वभावश्च न तादृशः ॥ १२३ ॥
तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति ।
साधनानामसामर्थ्यान्नित्यं चानाश्रयस्थितेः ॥ १२४ ॥
विशेषस्यास्वभावत्वाद् वृद्धावप्याहितो¹ यदा ।
नापेक्षेत पुनर्यत्नं यत्नोऽन्यः स्याद् विशेषकृत् ॥ १२५ ॥
नन्वभ्यासेन विशेषेऽपि सत्यल्पीयसि स्वभावस्य कृपादेस्तद्विपक्षसङ्की-
र्णत्वस्यातिक्रमो विपक्षाव्यवकीर्णस्वरसप्रवृत्तकृपादिमयता सात्मीभावो मा भूत्
लङ्घनोदकतापवत् । न हि पुरुषोऽत्यर्थं लङ्घने कृताभ्यासो योजनमर्धयोजनं वा
लङ्घयति, नाप्युदकमेकान्तं ताप्यमानं दहनीभवति; किन्तु प्रकृतिसिद्धात् लङ्घनात्
स्पर्शाच्च विशेषमात्रं भवति यथा, तथोत्कर्षमात्रं स्यात् कृपया, न तु सात्मीभाव
इति चेत् ?
अत्राह—आहितः स चेत् विशेषः, आधायकनिवृत्तावात्मलाभाय पुन-
र्यत्नमपेक्षेत न स्वरसवाही स्यात् । लङ्घनं यथाभ्यस्तमपि पुनर्यत्नापेक्षयैव
प्रवर्त्तते, न स्वरसवाहि । यदि स्याच्चास्थिराश्रय उदकतापवत् । क्वाथ्यमानं
ह्युदकं क्षीयत एव इत्यस्थिराश्रय उदकतापः पुनर्यत्नापेक्षी च; स्वरसवाहित्वाभावात् ।
तदा विशेषो नैव वर्धेत प्रकर्षनिष्ठां न गच्छेत् । तादृशश्च विशेषो नैव स्वभावः
प्रकृतिः; विशेषवद्धेतुसन्निधानव्यवधानसापेक्षत्वात् प्रवृत्तिनिवृत्त्योः ॥१२२-२३॥
तथा च—तत्र पूर्वदृष्ट एव विशेषे उपयुक्तशक्तीनां साधनानां
यत्नादीनां पुनरपि विशेषानुत्तरान् प्रत्यसामर्थ्यात् नित्यं चानाश्रय-
स्थितेः आश्रयस्थित्यभावात् तादृशस्य विशेषस्यास्वभावत्वात् वृद्धावपि व्यव-
स्थितोत्कर्षतैव पुनर्यत्नापेक्षित्वेनास्थिराश्रयत्वेन व्यवस्थितोत्कर्षता व्याप्तेत्यर्थः ।
यदा तु विशेष आहितो नापेक्षेत पुनर्यत्नं प्रागुत्पन्नस्यात्मनो लाभाय, अपि तु
१. ॰वप्याहिता—रा० ।
४८ प्रमाणवार्त्तिके
काष्ठपारदहेमादेरग्न्यादेरिव चेतसः ।
अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः ॥ १२६ ॥
तस्मात् स तेषामुत्पन्नः स्वभावो जायते गुणः ।
तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ॥ १२७ ॥
यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धयः ।
कृपादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः ! ॥ १२८ ॥
न चैवं लङ्घनादेव लङ्घनं बलयत्नयोः ।
तद्धेत्वोः स्थितशक्तित्वाल्लङ्घनस्य स्थितात्मता ॥ १२९ ॥
स्वरसवाही भवति, तदा यत्नोऽन्यः क्रियमाणो विशेषकृत् यथाभ्यासमुत्तरोत्तर-
विशेषाधायी भवति ॥ १२४-१२५ ॥
काष्ठ-पारद-हेमादेरग्न्यादेरिव । यथा—अग्निना हेमचारणजारणादिना
पुटपाकादिना यथाक्रमं काष्ठे पारदे हेम्नीव दरदाहः । रूप्यरञ्जनसामर्थ्यवर्णिका-
वृद्धय आहिताः स्वरसवाहिन्यः, न पुनर्यत्नसापेक्षाः । तेषु यदा पुनर्वह्न्यादयो
व्याप्रियन्ते तदा समधिकमङ्गारादिविशेषमादधति । तथा अभ्यासजाः कृपादयः
पुनर्यत्नानपेक्षित्वात् स्थिराश्रयत्वाच्च स्वरसेन प्रवर्त्तन्ते ॥ १२६ ॥
तस्मात् स्वरसवाहित्वात् स तेषामभ्यासवतां पुंसामुत्पन्नो गुणः कृपादिः
स्वभावो जायते मनसः प्रकृतिर्भवति । तदुत्तरोत्तरो यत्नः पूर्वपूर्वाभ्यासाद-
परापरः प्रयत्नः (विधायकः = ) विशेषकृद् भवति; पूर्वप्रयत्नकृतस्य विशेषस्य
सुस्थितत्वात् । आधिक्याधानमेवापरयत्नात् ॥ १२७ ॥
यस्माच्च कारणात् तुल्यजातीयात् पूर्वस्मात् बीजाद् वासनागर्भ-
समनन्तरप्रत्ययात् प्रवृद्धि रुत्कर्षो यासां तास्तथा कृपादिबुद्धयः, तासां
सत्यभ्यासे कुतः स्थितिर्व्यवस्थितोत्कर्षता ॥ १२८ ॥
न चैवं लंघनादेव लंघनं यथा कृपादिभ्य एव कृपादयः, तथा न लंघना-
देव लंघनम्; अपि तु बलयत्नाभ्याम्। बलयत्नयोस्तद्धेत्वोः स्थितशक्तित्वात्
सामर्थ्यनियमात् लंघनस्य स्थितात्मता व्यवस्थितोत्कर्षता भवति ॥ १२९ ॥
प्रमाणसिद्धिः ४९
तस्यादौ देहवैगुण्यात् पश्चाद्वदविलङ्घनम् ।
शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः ॥ १३० ॥
कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत् ।
विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम् ॥ १३१ ॥
तथा हि मूलमभ्यासः पूर्वः पूर्वः परस्य तु ।
कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे ॥ १३२ ॥
कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवत् ।
निष्पन्नः १ करुणोत्कर्षः परदुःखक्षमेरितः १ ॥ १३३ ॥
यदि बलयत्नाभ्यामेव लङ्घनम्, न स्वभावजातीयात्, तदाभ्यासात् प्रागपि
तावत् परिमाणं स्यादित्याह—तस्य लङ्घयितुरादौ अभ्यासात् पूर्वं देहवैगु-
ण्यात् श्लेष्मादिकृतगौरवात् पश्चाद्दृढभ्यासानन्तरमिव अविलङ्घनम् । शनै-
र्यत्नेन व्यायामादिना वैगुण्ये निरस्ते स्वबले स्थितिः शरीरस्य भवति ।
तेन पूर्वस्माल्लङ्घनं विशिष्यते, बलानुरूपस्थितिकञ्च ॥ १३० ॥
मनोगुणास्तु सत्यभ्यासे विपक्षानभ्यासे च प्रकर्षनिष्ठां गच्छन्ति,
तदाह—कृपा स्वबीजप्रभवा भूयोऽभ्यस्तस्वजातीयसंस्कारवत् समनन्तर-
प्रत्ययप्रसूतार्थबीजप्रभवैर्न चेत् विपक्षैर्द्वेषादिभिर्बाध्यते स्वोत्पत्त्या व्याह-
न्यते । चित्ते चित्तसन्ताने प्रयात्यत्यन्तसात्मतां विपक्षासङ्कीर्णसात्मतां
प्रकृतिताम् ॥ १३१ ॥
तथा हि मूलं कारणमभ्यासः पूर्वः पूर्वः परस्योत्तरस्य कृपा-
वैराग्यबोधादेश्चित्तधर्मस्य मनोगुणस्य पाटवे प्रकर्षे, न तूत्पत्तौ; तस्याः
सम्भवात् ॥ १३२ ॥
ततः—कृपात्मकत्वमभ्यासाद् भवति घृणावैराग्यरागवत् । यथा
अभ्यासात् घृणा, क्वचिद्विषये वैराग्यम्, रागश्च सात्मीभवति; तदेवमभ्यासात्
कृपा प्रकर्षविशेषवती निष्पद्यत इति समर्थितमियता च जगद्धितैषित्त्वं
च ॥ १३३ ॥ व्याख्यातं कृपायाः प्रामाण्यसाधनत्वम् ॥
१-१. निष्पन्नकरुणोत्कर्षपरदुःखक्षमेरितः—रा० ।
प्र० वा० ३४
५० प्रमाणवार्त्तिके
४. शास्तृत्वाच्च भगवान् प्रमाणम्
शास्तृत्वपदनिर्वचनम्
दयावान् दुःखहानार्थमुपायेष्वभियुज्यते ।
परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् ॥ १३४ ॥
दुःखहेतुपरीक्षा
युक्त्यागमाभ्यां विमृशन् दुःखहेतुं परीक्षते ।
तस्यानित्यादिरूपं च दुःखस्यैव विशेषणैः ॥ १३५ ॥
यतस्तथा स्थिते हेतौ निवृत्तिर्नेति पश्यति ।
फलस्य हेतोर्हानार्थं तद्विपक्षं परीक्षते ॥ १३६ ॥
साध्यते तद्विपक्षोऽपि हेतो रूपावबोधतः ।
आत्मात्मीयग्रहकृतः स्नेहः सँस्कारगोचरः ॥ १३७ ॥
शास्तृत्वव्याख्यानाय दयां दर्शयितुमाह—
दयावान् बोधिसत्त्वः परदुःखं शमयितुकामः दुःखहानार्थमात्मन उपा-
येषु दुःखशमनोपायेष्वभियुज्यते । कस्मात् पुनः परदुःखशमनोपायेषु युज्यते ?
इत्याह—परोक्ष उपेयो दुःखप्रशमः तद्धेतुश्च मार्गो यस्य तस्य तदाख्यानं
यस्माद् दुष्करम् ॥ १३४ ॥
तत्र साक्षात्कारणे परीक्षणमङ्गम्, तदाह—युक्त्यागमाभ्यामनुमानप्रवच-
नाभ्यां परस्परमविरुद्धाभ्यां विमृशन् विचारयन् दुःखस्य जन्मनो हेतुं परीक्षते
मुमुक्षुः । तस्य दुःखहेतोरनित्यादिरूपम्, आदिशब्दान्निवर्तनयोग्यतादिकं च,
परीक्षते । कथम् ? इत्याह—दुःखस्यैव विशेषणैः कादाचित्कत्वादिभिः ॥१३५॥
कस्मात् पुनर्दुःखस्य हेतोरनित्यत्वादि परीक्षणीयम् ? इत्याह--यतस्तथा
स्थिते हेतौ नित्यत्वात् सदास्थिते हेतौ फलस्य दुःखस्य निवृत्तिर्नेति पश्यति
जानाति, तस्मात् दुःखस्य हेतोर्हानार्थं च तस्य विपक्षं परीक्षते दुःखहेतु-
विरुद्धम्, यस्याभ्यासाद् दुःखहेतुरपैति ॥ १३६ ॥
साध्यते निश्चीयते तद्विपक्षोऽपि हेतो रूपावबोधतः । ज्ञाते हि हेतौ
तद्विरोधी बोद्धुं शक्यः । आत्मात्मीयग्रहाभ्यां कृतः स्नेहः सँस्कार-
प्रमाणसिद्धिः ५१
हेतुविरोधि नैरात्म्यदर्शनं तस्य बाधकम् ।
बहुशो बहुधोपायं कालेन बहुनास्य च ॥ १३८ ॥
गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम् ।
बुद्धेश्च पाटवाद्धेतोर्वासनातः प्रहीयते ॥ १३९ ॥
प्रत्येकबुद्धादिभ्यो बुद्धस्य वैशिष्ट्यम्
परार्थवृत्तेः खड्गादेर्विशेषोऽयं महामुनेः ।
उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम् ॥ १४० ॥
निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् ।
गोचरः ॥ १३७ ॥
अध्यात्मस्कन्धेषु तदुपकारकेषु च बाह्येषु स्नेहोऽस्य हेतुः; दुःखस्यात्मा-
त्मीयग्रहवतः स्निग्धस्य तृष्णया जन्मपरिग्रहात् । तस्य नैरात्म्यदर्शनं विरोधि
विपरीतालम्बनाकारत्वात् बाधकं विपक्षः । एतं दुःखहेतुं तद्विपक्षञ्चागमादुप-
श्रुत्य अनुमानान्निश्चित्य बहुशः अनेकशो बहुधोपायमनेकप्रकारं कालेन च
बहुनास्य बोधिसत्त्वस्य अभ्यस्यतो भावयतः तत्र दुःखहेतौ तद्विपक्षे च
गुणदोषा यथायोगं प्रकाशतां गच्छन्ति । अभ्यासाधीनो हि भाव्यमान-
बुद्ध्याकारविशदीभावः । अतोऽभ्यासाद् बुद्धेश्च पाटवाद्धेतोरात्मग्रहस्य तृष्णा-
याश्च वासना, कायवाग्बुद्धिवैगुण्यहेतुतः शक्तिलेशः प्रहीयते निःशेषमपैति ॥
१३८–१३९ ॥
अयमेव वासनाहानिलक्षणः खड्गः प्रत्येकबुद्ध आदिर्यस्य श्रावकस्य
तस्मात् सकाशात् महामुनेः सम्यक्सम्बुद्धस्य विशेषः स्वार्थसम्पत्तेः ।
नन्वेवमुपायाभ्यासो दर्शितः, न शास्तृत्वम्, तस्योपदेष्टृत्वात् ? इत्याह—
उपायाभ्यास एवायं शासनं मतं तादर्थ्यात् शासनार्थत्वात् । कारणे
कार्योपचारात् ॥ १४० ॥
सुगतत्वस्य फलस्य निष्पत्तेः प्रथमं भावात् तावदेतद् द्वयं हि हितै-
षित्वं शास्तृत्वं हेतुरुक्तम् ; हेत्ववस्थाया अभिधानात् ।
५२ प्रमाणवार्त्तिके
५. सुगतत्वाद् भगवान् प्रमाणम्
त्रिगुणं सुगतत्वम्
हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिःश्रयात् ॥ १४१ ॥
दुःखस्य शस्तं नैरात्म्यदृष्टेश्च १ युक्तितोऽपि १ वा ।
पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥ १४२ ॥
आत्मदर्शनबीजस्य हानादपुनरागमः ।
तद्भूतभिन्नात्मतया शेषमक्लेशनिज्वरम् ॥ १४३ ॥
कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा ।
सुगतत्वं व्याचिख्यासुराह—हेतोः समुदयस्य प्रहाणं निरोधः सुगतत्वम्,
तच्च त्रिगुणं गुणत्रययुक्तम् । सुशब्दस्य त्रिविधोऽर्थः—१. प्रशस्तता सुरूपवत्,
२. अपुनरावृत्तिः सुनष्टज्वरवत् २, ३. निःशेषता च सुपूर्णघटवत् ३ ।
तत्र ‘प्रशस्तं भगवान् ज्ञातवान् = सुगतः’ इति प्रशस्तार्थमाह—अनिः-
श्रयाद् अनाश्रयणाद् दुःखस्य शस्तं सुगतत्वम् । तत् पुनर्दुःखानाश्रयणं
नैरात्म्यदृष्टेः । आत्मदर्शी ह्यात्मनि स्निह्यन् तद्दुःखसुखपरिहारप्राप्तीच्छया
जन्म दुःखरूपमादत्ते, प्रहीणात्मदर्शनस्तु नैतादृश इति प्रहीणदुःखोपायो
युक्तितोऽपि वा युक्तिपरिदृष्टेनोपायेन वा गमनात् तत्सुगतत्वं प्रशस्तम् ।
अथ वा—अपुनरावृत्त्या गमनं सुगतत्वम्, तदाख्यातुमाह—जन्मनो
रागादेश्च दोषस्य समुद्भवौ पुनः पुनः पुनरावर्तनात् पुनरावृत्तिरित्युक्तौ ॥
१४१–१४२ ॥
नैरात्म्यभावनासात्म्ये तु आत्मदर्शनस्य जन्मप्रबन्धबीजस्य हानादपुनरा-
गमोऽपुनरावृत्तिः । तत् पुनरात्मदर्शनबीजस्य हानं भूतात् सत्यात् नैरात्म्याद्
भिन्नात्मतयाऽन्यत्वात् । न हि सात्मीभूतप्रतिपक्षस्य विपक्षबीजसम्भवः ॥ १४३॥
निःशेषं वागमनात् सुगतत्वम् । तदाह—कायवैण्यम् अचापलेऽप्युत्प्लुत्य
गमनादि, वाग्वैगुण्यं मानाभावेऽपि वृषलीवादादि, बुद्धिवैगुण्यं नित्यासमाधा-
नादव्याकृतचित्तावस्थानम्—एतत् त्रयं शेषम् । सकलक्लेशोपक्लेशप्रशमाद-
१-१. दृष्टेस्तद्युक्ति०-पाठा० । २. अनष्टज्वरवत्-रा० । ३. अपूर्णघटवत्-रा० ।
प्रमाणसिद्धिः ५३
अशेषहानमभ्यासाद्;
सर्वज्ञबाधने जैमिनीयमतम्
उक्त्यादेर्दोषसंक्षयः ॥ १४४ ॥
नेत्येके;
तत्प्रतिवचनम्
व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यतः ।
अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः ॥ १४५ ॥
उपायस्यापरिज्ञानादपि^१ वा परिकल्पयेत् ।
हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासतः क्षयात् ॥ १४६ ॥
हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते ।
क्लेशम् । निर्ज्वरं चादोषमूलत्वात् । मार्गस्य क्षणिकनैरात्म्यभावनादेरुक्ता-
वपटुतापि वा शेषम्, तत्परित्यागादशेषहानमभ्यासादिति निःशेषगमनात्
सुगतत्वम् ॥ दर्शितं त्रिगुणं सुगतत्वम् ॥
तदेवं सर्वज्ञस्य सम्भवानुमानं प्रतिपाद्य तद्बाधकं दूषयितुमाह—एके
जैमिनीयाः 'उक्त्यादेर्हेतो रथ्यापुरुषवत् रागादिदोषसंक्षयः कस्यचिन्नास्ति'
इत्याहुः । व्यतिरेको विपक्षाद् व्यावृत्तिः अस्य वक्तृत्वादिहेतोः सन्दिग्धः,
अतो व्यभिचार्यनैकान्तिकोऽयमिति विस्तरतो विपञ्चयिष्यते ।
किञ्च—अक्षयित्वं दोषाणां यो मन्यते, स नित्यत्वाद्वाऽकाशवत्,
अनुपायत उपायाभावाद् वा, नष्टस्य पुनरुन्मज्जनवत् ॥ १४४-१४५ ॥
उपायस्यापरिज्ञानाद् वा मूर्खस्य शब्दज्ञानवत् परिकल्पयेत् ।
एषां त्रयाणामपि हेतूनामसिद्धत्वं दर्शयति—हेतुमत्त्वाद् विरुद्धस्य
हेतुमत्त्वाद् दोषाणामनित्यत्वम्, ततोऽसिद्धं नित्यत्वं दोषाणाम् । हेतोरात्मदर्श-
नस्य विरुद्धस्य नैरात्म्यस्याभ्यासतः क्षयादुपायाभावोऽप्यसिद्धः ॥ १४६ ॥
हेतोरात्मदर्शनस्य स्वभावज्ञानेन तत् ज्ञानमपि तन्निवृत्त्युपायस्य तद्वि-
१. ॰परिज्ञानादिति—पाठा० ।
५४ प्रमाणवार्त्तिके
६. तायित्वाद् भगवान् प्रमाणम्
तायः स्वदृष्टमार्गोक्तिः, वैफल्याद् वक्ति नानृतम् ॥ १४७ ॥
दयालुत्वात् परार्थञ्च सर्व्वारम्भाभियोगतः ।
तस्मात्¹ प्रमाणम्;
तायो वा चतुःसत्यप्रकाशनम् ॥ १४८ ॥
चतुरार्यसत्यनिरूपणम्
१. दुःखसत्यम्
दुःखं संसारिणः स्कन्धाः;
पर्ययरूपस्य ज्ञानञ्च साध्यते । यथा दाने ज्ञाते तद्विपर्यरूपत्वान्मात्सर्यस्य
तद्विपक्षतावसीयत इति तृतीयोऽप्यसिद्धः ॥ प्रत्युक्तं सर्वज्ञस्य बाधनम् ॥
तायित्वं व्याख्यातुमाह—दुःखहेतुनिवर्त्तकत्वेन स्वयं दृष्टस्य मार्गस्यो-
क्तिर्देशना² = तायः, कारणे कार्योपचारात् । तया हि सत्त्वान् तायते, तद्योगात्
तायित्वम् । स च वैफल्याद् वक्ति नानृतम् । आत्मसुखाद्यभिलाषादिना
कश्चिदसत्यं वदति, अज्ञानाद्वा; प्रहीणात्मदर्शनस्य साक्षात्कृततत्तत्त्वस्य तदुभयं
नास्ति ॥ १४७ ॥
विशेषतः सत्याभिधानहेतुरेव कृपाऽस्तीत्याह—दयालुत्वाच्च परार्थञ्च
सर्वस्य मार्गाभ्यासादेरारम्भेऽभियोगतः परार्थमेवोद्दिश्य भगवानभिसम्बुद्धः,
कथं तस्य मिथ्याभिधानेन सत्त्ववञ्चनाशङ्कापि ! तस्मात् तायित्वात् प्रमाणं
भगवान् । यथादृष्टार्थप्रवक्तृत्वं हि संवादित्वमेवेति प्रथमप्रमाणलक्षणयोगात्
प्रामाण्यमनेनोक्तम् ।
द्वितीयलक्षणयोगमप्याह—तायो वा चतुःसत्यप्रकाशनम् । परैरज्ञातस्य
सत्यचतुष्टयस्य प्रकाशनं वा तायः । तद्योगात् तायी प्रमाणं भगवानुक्तः ॥
१४८ ॥
आर्यसत्येषु दुःखमाह—रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः पञ्च स्कन्धाः ।
जन्ममरणप्रबन्धः संसारः, तद्वन्तः; दुःखं तिसृभिर्दुःखताभिः ।
१. ततः—पाठा० । २. मार्गस्योक्तेर्देशना—रा० ।
प्रमाणसिद्धिः ५५
रागादेः पाटवेक्षणात् ।
अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधतः ॥ १४९ ॥
व्यभिचारान्न वातादिधर्मः प्रकृतिसङ्करात् ।
अदोषश्च तदन्योऽपि धर्मः किं तस्य नेष्यते ॥ १५० ॥
न सर्वधर्मः सर्वेषां समरागप्रसङ्गतः ।
रूपादिवददोषश्चेत् तुल्यं तत्रापि चोदनम् ॥ १५१ ॥
आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् ।
ननु यदि स्कन्धा एव प्रतीत्यसमुत्पन्नाः, न तु कश्चित् सत्त्वो यः संसरति,
तदा रागादयो यादृच्छिका अहेतवः स्युः ? इत्याह—अभ्यासाद् रागादेः पाट-
वस्ये क्षणात् । अभ्यासादेव ते भवन्ति, न तु यदृच्छातः । न ह्यकारणाद्
विशेषसम्भवः । नाप्यहेतुका रागादयोऽहेतोर्हेतुरहितस्य जन्मविरोधतः ।
न ह्याकाशं कदाचिज्जायते ॥ १४९ ॥
स्यादेतत्—वातप्रकृतिर्मोहवान्, पित्तप्रकृतिर्द्वेषवान्, श्लेष्मप्रकृती राग-
वानिति वातादिधर्मो दोषगणः ? इत्याह—न व्यभिचाराद् वातादिधर्मो
रागादिः । वातप्रकृतिरपि न मोहबहुलः, पित्तप्रकृतिरपि न पटुद्वेषः, श्लेष्म-
प्रकृतिश्च नोद्भूतरागविशेषः कश्चिद् दृश्यते—इति वातादिव्यभिचारिणो मोहा-
दयो न तद्धेतवः । प्रकृतिसंकराददोषश्चेत् संकीर्णप्रकृतयो हि पुरुषाः; प्रत्येकं
वातपित्तश्लेष्मणां सत्त्वात्, अतो दोषाणां न कारणव्यभिचारः ? यद्येवम्,
तस्याद्वेषादेरन्यो धर्मः खरत्वादि तस्य वातादेः किं नेष्यते ॥ १५० ॥
अथ प्रत्येकं सर्वेषां रागादिधर्मः, ततो न व्यभिचारः ? इत्याह—न सर्वधर्मः
सर्वेषाम्; समस्य रागस्य प्रसङ्गात् नानाप्रकृतिकत्वेऽपि रागादिहेतोः समान-
त्वात् । रूपादिवददोषश्चेत् यथा भूतमात्रहेतुकत्वेऽपि रूपादय उत्कृष्यन्ते,
अपकृष्यन्ते च क्वचित्, तथा रागादयोऽपीति चेत् ? तुल्यं तत्र रूपादावपि
चोदनं समत्वस्य ॥ १५१ ॥
आधिपत्यं विशिष्टानां कर्मणां श्रुताश्रुतलक्षणानाम् । यदि तत्र रूपादौ
कार्ये नेष्यते भूतसहकारिणां कर्मणां वैशिष्ट्यात् रूपादिविशेष इत्यर्थः ।
५६ प्रमाणवार्त्तिके
विशेषेऽपि च दोषाणामविशेषाद्;
असिद्धता ॥ १५२ ॥
न विकाराद् विकारेण सर्वेषाम्, न च सर्वजाः ।
कारणे वर्धमाने च कार्यहानिर्न युज्यते ॥ १५३ ॥
तापादिष्विव;
रागादेर्विकारोऽपि सुखादिजः ।
वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ॥ १५४ ॥
वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः ।
स्यादेतत्—न दोषमात्राद् रागादयः, अपि तु तेषां परिणामविशेषात्, यथा
व्याधयः, ततो न समरागतादिप्रसङ्गः ? इत्याह—विशेषेऽपि च दोषाणां
प्रकोपादिनाऽविशेषात् रागादीनां न दोषपरिणामहेतुता ॥ १५२ ॥
ननु 'अविशेषात्' इत्यसिद्धो हेतुः, कफाद्युत्कर्षे रागाद्युत्कर्षदृष्टेः ? इत्याह—
नासिद्धताऽविशेषस्य । तथा हि—सर्वेषां कफादीनां विकारेणोत्कर्षेण
पीडया विकारात् द्वेषो भवति, न रागादयः । सर्वजत्वाददोष इति चेत् ? न च
सर्वजाः समरागतादिप्रसङ्गादित्युकैः ॥
किञ्च—सन्निपातावस्थायां कारणे कफादिके वर्धमाने कार्यस्य रागादे-
र्हानिर्न युज्यते, तापादिष्विव तापादीनामिव पित्तादिवृद्धौ ।
स्यादेतद्—दोषाणां साम्ये रागादयो भवन्ति, वैषम्ये तु द्वेषादयः, ततो
विशेषेऽपि दोषाणां न विशिष्यन्ते रागादय इत्यसिद्धो हेतुः ? इत्याह—रागादे-
र्दोषसाम्यावस्थायां विकारोऽपि वृद्धिलक्षणो यः स सुखादिजः; आन्तरधातु-
साम्यस्पर्शप्रभवेण सुखादिना वर्धन्ते रागादयः ।
वैषम्यजेन दुःखेन द्वेषस्योत्पादनात् तद्विरुद्धस्य रागस्यानुद्भवो यदि
मतः, तदा वाच्यं केन हेतुना रागस्योद्भवः । साम्याद् दोषाणां मदस्य
शुक्रस्य वृद्धिः, स्मरो रागः ।
प्रमाणसिद्धिः ५७
रागी विषमदोषोऽपि दृष्टः साम्येऽपि नापरः ॥ १५५ ॥
क्षयादसृक्स्रुतोऽप्यन्ये;
नैकस्त्रीनियतो मदः ।
तेनैकस्यां न तीव्रः स्याद्, अङ्गं रूपाद्यपीति चेत् ॥ १५६ ॥
न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् ।
अगुणग्राहिणोऽपि स्यात्; अङ्गं सोऽपि गुणग्रहः ॥ १५७ ॥
यदि सर्वो गुणग्राही स्याद्, हेतोरविशेषतः ।
यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः ॥ १५८ ॥
शुक्रवृद्धेर्यदीष्टमेतदप्ययुक्तम्; यतः रागी विषमदोषोऽपि रागचरितः कश्चिद्
दृष्टः, साम्येऽपि नापरः प्रतिसंख्यानबली मन्दरागप्रकृतिर्वा दृष्टः ॥ १५३-१५५ ॥
क्षयाच्छुक्रस्यासृक्स्रुतो रक्तं क्षरन्तोऽप्यन्ये रागबहुला दृष्टा इति
शुक्रमपि न रागहेतुः ।
किञ्च—नैकस्त्रीनियतो मदः । न ह्येकां स्त्रियमपेक्ष्य शुक्रं शुक्रीभवति,
अपि तु सर्वाः । तेन साधारणत्वेन शुक्रस्य तज्जन्यो राग एकस्यां स्त्रियां न
तीव्रः स्यात्, किन्तु साधारणः । अङ्गं रूपाद्यपीति चेत् रूपयौवनोपचारादि
च सहकारि रागवृद्धेरिति चेत् ? न युक्तमेतत्; सर्वेषां रूपादीनामनेकान्तत्वात्
रूपादिरहितेष्वपि रागोत्कर्षदृष्टेः । किञ्च—यदि शुक्रं रूपादि च स्त्रियाः
कारणं रागस्य, तदा न चाप्यनियतोऽविषयीकृतस्त्रीविशेषः साधारणो रागो न
भवेत् ; रूपादि सहकारिणोऽव्यापारात् । तथा रूपवत्या अगुणमशुभभावनाभावितं
गृह्णतोऽपि रागः स्यात् ; शुक्ररूपयोस्तद्धेत्वोः सद्भावात् । अङ्गं निमित्तं
सोऽपि गुणग्रहः, ततोऽशुभां भावयतो न स्याद् रागः ॥ १५६–१५७ ॥
यदि सर्वः शुभाशुभभावको गुणग्राही स्यात् ; गुणग्रहस्य हेतो रूपादेः
सर्वान् प्रत्यविशेषतः ।
किञ्च—यदवस्थः श्लेष्मप्रकृतिस्थः पुरुषो रागी मतः, तदवस्थो न
द्वेषी स्यात् ॥ १५८ ॥