प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 69, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः ४३
नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ ।
एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः ॥ १०६ ॥
नानेकहेतुरिति चेन्नाविशेषात् क्रमादपि ।
नैकप्राणेऽप्यनेकार्थग्रहणान्नियमस्ततः ॥ १०७ ॥
एकयाऽनेकविज्ञाने बुद्ध्याऽस्तु सकृदेव तत् ।
अविरोधात्; क्रमेणापि मा भूत् तदविशेषतः ॥ १०८ ॥
बहवः क्षणिकाः प्राणा अस्वजातीयकालिकाः ।
तादृशामेव चित्तानां कल्प्यते यदि कारणम् ॥ १०९ ॥
क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना ।
योरप्यनेकत्वस्य तुल्यत्वात् । तेषां प्रत्येकमभिव्यञ्जकत्वे युगपदनेकाभिव्यक्ति-
प्रसङ्गादेकज्ञानाभिव्यक्तौ प्राणापानौ नियामकौ न युक्तौ । एकत्वेऽपि
प्राणस्य, अपानस्य च बहूनां नानाकालभाविनां ज्ञानानां युगपदभिव्यक्तिः
स्यात् । तस्याभिव्यक्तेर्हेतोः प्राणादेर्नित्यं सन्निधेः ॥ १०६ ॥
युगपन्नानेकस्याभिव्यक्तिहेतुः प्राणादिरिति चेत्, न स्याद्धेतुः; अवि-
शेषात् क्रमादपि ।
किञ्च—एकस्मिन्नपि प्राणेऽनेकेषामर्थानां ग्रहणादनेकाभिर्बुद्धिभिः ‘एकः
प्राणः एकां बुद्धिमभिव्यनक्ति’ इति, नायं तत एकप्राणान्नियमः ॥ १०७॥
एकया¹ बुद्ध्याऽनेकविज्ञाने च स्वीक्रियमाणेऽस्तु सकृदेव तत् यावद्
ग्रहीतव्यग्रहणमविरोधात् । यद्येकस्या अनेकग्रहणं विरुध्यते, कतिचित्पदार्थग्रहण-
मप्येकदा न स्यात् । न विरुध्यते चेत्, यावद्ग्रहीतव्यं गृह्णीयात्; अन्यथा
क्रमेणापि मा भूदनेकग्रहणम्; तदविशेषतो बुद्धेर्विशेषाभावात् ॥ १०८ ॥
बहवः क्षणिकाः प्राणा अस्वजातीयकालिका असहभाविनः, तादृशा-
मेकक्षणिकानां बहूनामसहभाविनां चित्तानां कल्प्यन्ते यदि कारणम् ?
तदा क्रमवन्तः कथं ते प्राणाः स्युः क्रमवद्धेतुना विना ! शरीरं तेषां
१. ‘आसर्गप्रलयादेरैकैव बुद्धिः’—इति सिद्धान्तात् ।