सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 71, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 71

प्रमाणसिद्धिः ४५
अन्यार्थासक्तिविगुणे ज्ञाने नार्थान्तराग्रहात् ॥ ११४ ॥
कर्मसिद्धिः
शरीरात् सकृदुत्पन्ना धीः स्वजात्या नियम्यते ।
परतश्चेत् समर्थस्य देहस्य विरतिः कुतः ॥ ११५ ॥
अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः ।
केवलस्येति चेच्चित्तसन्तानस्थितिकारणम् ॥ ११६ ॥
तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति ।
हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥ ११७ ॥
तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम् ।
कुत एतत् ? इति चेदाह—अन्यस्मिन्नर्थे आसक्त्या पुनः पुनः प्रवृत्त्या-
त्मिकया विगुणे विषयान्तरसञ्चारिज्ञानोत्पादविरोधिनि ज्ञाने पूर्वके सति विष-
यान्तरस्याग्रहणात् , अविगुणे तु ग्रहणात् । तस्मात् ज्ञानकार्यं ज्ञानम्; तदन्वय-
व्यतिरेकानुविधानात् ॥ ११४ ॥
अथ शरीरात् सकृत् प्रथममुत्पन्ना धीः स्वजात्या नियम्यते, परत
एकस्या बुद्धेरेका बुद्धिर्भवतीति न सकृज्जन्मप्रसङ्गः । ननु बुद्धिजनने प्रथमं समर्थस्य
देहस्य पश्चाद् विरतिः कुतः, येन बुद्धिर्नियामिका स्यात् परतः ! ॥ ११५ ॥
ननु यदि बुद्धेर्न देह आश्रयः, तदाऽनाश्रयादाश्रयाभावात् निवृत्ते शरीरे
केवलस्य चेतसः स्थितिः स्यादिति चेत् , स्यादेतत् ; शरीरेण सह चित्त-
सन्तानस्य स्थितिकारणं दृष्टं सहायं यत्कर्म ॥ ११६ ॥
तद्यदि तस्य पारलौकिकस्य देहस्य हेतुरैहिकमन्त्यं पञ्चायतनं तस्य वृत्तिः
पारलौकिकदेहजननाद्याभिमुख्यम् , तस्य लाभाय प्राप्तयेऽङ्गतां सहकारितां न
गच्छति । तदा केवलं चित्तं तिष्ठति; यथा—विरूपे धातौ ।
कः पुनरामुष्मिकदेहहेतुः, यस्य चित्तं सहकारि ? इत्याह—हेतुर्देहान्त-
रोत्पत्तौ पञ्चायतनं पञ्चेन्द्रियाणि ऐहिकमिदंजन्मभवम् ॥ ११७ ॥
यच्च तयोः कर्म ऐहिकपञ्चायतनयोर्यथाक्रममङ्गभावहेतुत्वयोः सहका-
रितोपादानत्वयोर्निषेधे कर्त्तव्ये अनुपम्भनं परैरुच्यते, तदनिश्चयकरमनैका-