प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 74, कुल 532 में से
संदर्भ में पढ़ें४८ प्रमाणवार्त्तिके
काष्ठपारदहेमादेरग्न्यादेरिव चेतसः ।
अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः ॥ १२६ ॥
तस्मात् स तेषामुत्पन्नः स्वभावो जायते गुणः ।
तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ॥ १२७ ॥
यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धयः ।
कृपादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः ! ॥ १२८ ॥
न चैवं लङ्घनादेव लङ्घनं बलयत्नयोः ।
तद्धेत्वोः स्थितशक्तित्वाल्लङ्घनस्य स्थितात्मता ॥ १२९ ॥
स्वरसवाही भवति, तदा यत्नोऽन्यः क्रियमाणो विशेषकृत् यथाभ्यासमुत्तरोत्तर-
विशेषाधायी भवति ॥ १२४-१२५ ॥
काष्ठ-पारद-हेमादेरग्न्यादेरिव । यथा—अग्निना हेमचारणजारणादिना
पुटपाकादिना यथाक्रमं काष्ठे पारदे हेम्नीव दरदाहः । रूप्यरञ्जनसामर्थ्यवर्णिका-
वृद्धय आहिताः स्वरसवाहिन्यः, न पुनर्यत्नसापेक्षाः । तेषु यदा पुनर्वह्न्यादयो
व्याप्रियन्ते तदा समधिकमङ्गारादिविशेषमादधति । तथा अभ्यासजाः कृपादयः
पुनर्यत्नानपेक्षित्वात् स्थिराश्रयत्वाच्च स्वरसेन प्रवर्त्तन्ते ॥ १२६ ॥
तस्मात् स्वरसवाहित्वात् स तेषामभ्यासवतां पुंसामुत्पन्नो गुणः कृपादिः
स्वभावो जायते मनसः प्रकृतिर्भवति । तदुत्तरोत्तरो यत्नः पूर्वपूर्वाभ्यासाद-
परापरः प्रयत्नः (विधायकः = ) विशेषकृद् भवति; पूर्वप्रयत्नकृतस्य विशेषस्य
सुस्थितत्वात् । आधिक्याधानमेवापरयत्नात् ॥ १२७ ॥
यस्माच्च कारणात् तुल्यजातीयात् पूर्वस्मात् बीजाद् वासनागर्भ-
समनन्तरप्रत्ययात् प्रवृद्धि रुत्कर्षो यासां तास्तथा कृपादिबुद्धयः, तासां
सत्यभ्यासे कुतः स्थितिर्व्यवस्थितोत्कर्षता ॥ १२८ ॥
न चैवं लंघनादेव लंघनं यथा कृपादिभ्य एव कृपादयः, तथा न लंघना-
देव लंघनम्; अपि तु बलयत्नाभ्याम्। बलयत्नयोस्तद्धेत्वोः स्थितशक्तित्वात्
सामर्थ्यनियमात् लंघनस्य स्थितात्मता व्यवस्थितोत्कर्षता भवति ॥ १२९ ॥