प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 65, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः ३९
अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥ ९३ ॥
शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा ।
गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ॥ ९४ ॥
मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धनः ।
स एव सर्वभावेषु हेतुः किं नेष्यते तयोः ॥ ९५ ॥
उपचारो न सर्वत्र यदि भिन्नविशेषणम् ।
मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् ! ॥ ९६ ॥
द्रव्यस्वभावाद् भेदेनाभिलापाच्च संख्यासंयोग इत्यादिकात् बुद्धौ द्रव्यग्राहिण्यां
रूपं न भासते अभासमानं च दृश्यानुपलब्ध्या बाधितम् ॥ ९३ ॥
यदि संख्यादयो न सन्ति, कथमेको घटः संयुक्तो महान् पततीत्यादि
व्यपदिश्यते, अर्थभेदाभावे पर्यायता प्राप्नोति ? इत्याह—शब्दज्ञाने एको घट
इत्यादिके कल्प्यार्थे कल्पितार्थे विकल्पेन । कीदृशेन ? वस्तुभेदानुसारिणा
वस्तुनो भेदः = विजातीयाद् व्यावृत्तिः, तां विषयत्वेनानुसरता गुणादिष्विव,
यथा—पङ्क्त्यादौ एका महती गच्छतीत्यादिशब्दज्ञाने । न हि तत्र संख्यादयः
सन्ति; निर्गुणत्वाद् शब्दज्ञानवत् गुणानाम् । नष्टाजातेषु वा यथा । एको द्वौ
बहवो नष्टा भविष्यन्ति वेति शब्दज्ञानवत् । नष्टमजातं च स्वयमेव नास्ति, किं
पुनस्तत्र संख्यादयो भविष्यन्ति ! ॥ ९४ ॥
मतो यद्युपचारोऽत्र गुणादिषु संख्यादिव्यपदेशस्य स उपचार
इष्टो यन्निबन्धनो¹ गुणादिषु संख्याद्युपचारस्य हेतुर्यः स एव सर्वभावेषु
हेतुः किन्नेष्यते तयोः शब्दज्ञानयोः, येन संख्यादयः कल्प्यन्ते प्रमाण-
बाधिताः ॥ ९५ ॥
उपचारो न सर्वत्र यदि । मुख्ये सत्युपचारो भवति न तु सर्वत्रैवासौ ।
भिन्नविशेषणं मुख्यम् । यत्र भिन्नं विशेषणमस्ति तन्मुख्यम् , अन्यत्रोपचारः ।
भिन्नविशेषणं मुख्यमित्येतदेव च कुतो निश्चितम् अभिन्ने भिन्नार्थतेति
चेत् ॥ ९६ ॥
१. लोकव्यवहारनिबन्धन इत्यर्थः ।