सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 80, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 80

५४ प्रमाणवार्त्तिके
६. तायित्वाद् भगवान् प्रमाणम्
तायः स्वदृष्टमार्गोक्तिः, वैफल्याद् वक्ति नानृतम् ॥ १४७ ॥
दयालुत्वात् परार्थञ्च सर्व्वारम्भाभियोगतः ।
तस्मात्¹ प्रमाणम्;
तायो वा चतुःसत्यप्रकाशनम् ॥ १४८ ॥
चतुरार्यसत्यनिरूपणम्
१. दुःखसत्यम्
दुःखं संसारिणः स्कन्धाः;
पर्ययरूपस्य ज्ञानञ्च साध्यते । यथा दाने ज्ञाते तद्विपर्यरूपत्वान्मात्सर्यस्य
तद्विपक्षतावसीयत इति तृतीयोऽप्यसिद्धः ॥ प्रत्युक्तं सर्वज्ञस्य बाधनम् ॥
तायित्वं व्याख्यातुमाह—दुःखहेतुनिवर्त्तकत्वेन स्वयं दृष्टस्य मार्गस्यो-
क्तिर्देशना² = तायः, कारणे कार्योपचारात् । तया हि सत्त्वान् तायते, तद्योगात्
तायित्वम् । स च वैफल्याद् वक्ति नानृतम् । आत्मसुखाद्यभिलाषादिना
कश्चिदसत्यं वदति, अज्ञानाद्वा; प्रहीणात्मदर्शनस्य साक्षात्कृततत्तत्त्वस्य तदुभयं
नास्ति ॥ १४७ ॥
विशेषतः सत्याभिधानहेतुरेव कृपाऽस्तीत्याह—दयालुत्वाच्च परार्थञ्च
सर्वस्य मार्गाभ्यासादेरारम्भेऽभियोगतः परार्थमेवोद्दिश्य भगवानभिसम्बुद्धः,
कथं तस्य मिथ्याभिधानेन सत्त्ववञ्चनाशङ्कापि ! तस्मात् तायित्वात् प्रमाणं
भगवान् । यथादृष्टार्थप्रवक्तृत्वं हि संवादित्वमेवेति प्रथमप्रमाणलक्षणयोगात्
प्रामाण्यमनेनोक्तम् ।
द्वितीयलक्षणयोगमप्याह—तायो वा चतुःसत्यप्रकाशनम् । परैरज्ञातस्य
सत्यचतुष्टयस्य प्रकाशनं वा तायः । तद्योगात् तायी प्रमाणं भगवानुक्तः ॥
१४८ ॥
आर्यसत्येषु दुःखमाह—रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः पञ्च स्कन्धाः ।
जन्ममरणप्रबन्धः संसारः, तद्वन्तः; दुःखं तिसृभिर्दुःखताभिः ।
१. ततः—पाठा० । २. मार्गस्योक्तेर्देशना—रा० ।