सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 66, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 66

४० प्रमाणवार्त्तिके
अनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिषु ।
संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि ॥ ९७ ॥
गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेदतः ।
स्यादनर्थान्तराथैत्वेऽप्यकर्माद्रव्यशब्दवत् ॥ ९८ ॥
व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः ।
संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम् ॥ ९९ ॥
श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा ।
यदि संख्यादि भिन्नं नास्ति तदा घट एकः संयुक्तो महान् गच्छतीति
शब्दानां पर्यायता स्यात्, न चास्ति ॥
नन्वनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिगुणेषु संख्यादियोगिनः
शब्दा दृश्यन्ते । तत्राप्यर्थान्तरं यदि सितादौ संख्यादि तिष्ठति; ततस्त-
च्छब्दानामपर्यायतापत्तिः ॥ ९७ ॥
एवं च सति गुणानां द्रव्याणां चाविशेषः स्यात् ; संकीर्णलक्षणत्वात् ।
'क्रियावत् गुणवत् समवायिकारणं द्रव्यम्' इति लक्षणस्य द्वयोरपि भावात् ।
कथं पुनरभिन्नार्थत्वेऽप्यपर्यायत्वम् ? इत्याह—विजातीयेभ्योऽनेकासंयुक्तादिभ्यो
व्यावृत्तेर्भेदात् भिन्नः प्रत्ययश्चैको घटः, संयुक्तो घट इत्यादि । अकर्म द्रव्यम्,
अद्रव्यं कर्मेति शब्दाविव भिन्नो व्यतिरिक्ताथभावेऽपि । न हि तन्मतेऽप्यकर्म-
द्रव्यशब्दयोरर्थो द्रव्यकर्मभ्यां भिन्नो वस्तुभूतोऽस्ति ॥ ९८ ॥
यदि न सन्ति संख्यादयः, कथं घटस्यैकत्वं संयोगो वा इत्यादि व्यपदेशः ?
इत्याह—व्यतिरेकीव भेदवदिव यच्चापि संख्यादितद्वतो द्रव्याद् भाववा-
चिभिः द्रव्याभिधायिभिः शब्दैः सूच्यते घटस्यैकत्वमित्यादि । तत् सूच्यमानमेक-
त्वादिधर्मान्तरस्य शुक्लत्वादेः भेदकम् । यद्यपि घटान्नैकत्वादयो भिन्ना वस्तुतः,
तथाप्येकत्वशुक्लत्वादयो घटात् परस्परं चानुवृत्त्यननुवृत्तिभ्यां कल्पितभेदाः ॥९९॥
तेषु यदैको धर्मः प्रतिपित्सितः, तदा भेदेन निर्दिष्टः स धर्मान्तरप्रतिक्षेपको
भवति—घटस्यैकत्वमित्यादि, तदा तन्मात्रस्यैकधर्ममात्रप्रतिपित्सोः प्रतिपाद्यस्यानु-
रोधेन च तथा संकेतवशात् प्रयुक्ता श्रुतिः, अनाक्षिप्तोऽविषयीकृतोऽपरो-