सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

१० प्रमाणवार्त्तिके
वस्तुसङ्गतेः १ ।
ज्ञेयानित्यतया तस्या अध्रौव्यात्;
क्रमजन्मनाम् ॥ १० ॥
नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगतः ।
कथञ्चिन्नोपकार्यत्वात्;
अनित्येऽप्यप्रामाण्यम्
अनित्येऽप्यप्रमाणता ॥ ११ ॥
ज्ञेयस्य वस्तुनोऽर्थक्रियाकारित्वेनानित्यत्वात् तस्या वस्तुसङ्गतेरपि तज्ज-
न्याया अध्रौव्यादनित्यत्वात् ।
स्यादेतद्—अनित्यविषयमनित्यमेव ज्ञानं केवलम्, यस्य तत् ज्ञानं स
ज्ञाता नित्यो भविष्यति ? इत्याह—ज्ञानस्य नित्यात् ज्ञातुरुत्पत्तेर्विश्लेषात् २ ।
नित्यं हि सदैकरूपं यदि क्रमजन्मनां ज्ञानानामर्जनसमर्थम्, सकृदेव तानि
कुर्यात् ॥ १० ॥
अथ समर्थमपि नित्यं क्रमसहकार्यपेक्षया क्रमेण करोति ? तदयुक्तम्;
अपेक्षाया अयोगात् ।
कस्मात् सहकार्यापेक्षा न युक्ता ? इत्याह—नित्यस्य सर्वदाऽविशिष्ट-
स्वभावस्य परैः सहकारिभिः कथञ्चिन्नोपकार्यत्वात् क तदपेक्षा ! ततः सर्व-
ज्ञानानि सकृदेव कुर्यादित्यवार्यः प्रसङ्गः ॥
स्यादेतत्—सन्तानविशेषात्निसर्गसिद्धपरावरक्षणात्मकं साधनापेक्षाशून्यम-
नित्यमेव प्रमाणं भविष्यति ? इत्याह—अनित्येऽपि, अपिशब्दान्नित्येऽपि,
अप्रमाणता, साधनाभाव इत्यर्थः ॥ ११ ॥
ननु सन्त्येव साधनानि, यथा—स्थित्वाप्रवृत्तेः, संस्थानविशेषाद्, अर्थक्रिया-
साधनत्वात्, कार्यत्वादेश्च विमत्यधिकरणानि तनुभुवनकरणादीन्युपादानाद्यभिज्ञबुद्धि-
मत्पूर्वकाणि तुर्यादिवत् प्रासादादिवत् वास्यादिवत् घटादिवच्च—इत्येवमादीनि;
स्थित्वाप्रवृत्त्यादयः तुरीतन्त्वादिषूपादानाद्यभिज्ञबुद्धिमत्पूर्वकत्वमात्रेणोपलब्धव्याप्त-
१. वस्तुसङ्गतेः—रा० । २. अयोगादित्यर्थः ।

प्रमाणसिद्धिः ११
ईश्वरसाधनदूषणम्
१. नैयायिकमतखण्डनम्
स्थित्वा प्रवृत्तिःसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिः;
योऽधिकरणसिद्धान्तन्यायेन१ नित्यव्यापिसर्वज्ञनित्यबुद्ध्याश्रयात्मविशेषविशिष्टमेव
पक्षे साध्यमुपनयन्ति धूम इव पर्वतवर्त्तिनं दहनम् । न ह्यनित्येन, अव्यापिना वा
नानादेशकालकार्यजातं शक्यक्रियम्, नापि सर्वस्य कार्यस्योपादानकारणान्यसर्व-
विद् वेदयितुं समर्थः; नाप्यनित्यया बुद्ध्याऽतीतानागतकालवर्त्ति वस्तुजातं ज्ञातुं
शक्यम्, तद्वेदनाच्च सर्ववित् । न चैते हेतवोऽसिद्धाः; धर्मिणि सत्त्वनिश्चयात् ।
न च विरुद्धः, सपक्षे सत्त्वात् । नानैकान्तिकाः, साध्यसाधनयोर्व्याप्तिनिश्च-
यात् । न च कालात्ययापदिष्टाः, साध्यसाधनबाधनाभावात् । नापि प्रकरणसमाः,
विपर्ययसाधकहेत्वभावादिति ?
अत्राह—स्थित्वाप्रवृत्तिः२संस्थानविशेषार्थक्रियादिषु साधनेषूपादाना-
द्यभिज्ञबुद्धिमत्पूर्वकत्वे साध्ये इष्टसिद्धिरस्माकम् । वयमपि साधारणासाधारणचेतना-
लक्षणकर्मनिर्मितं जगद्विचित्रमिच्छामः, तत्साधयता च परेण साहायकमनुष्ठितम् ।
येन साध्यगतेन विशेषेण विना धर्मिणि लिङ्गमनुपपन्नम्, तस्यैवाधिकरणसिद्धान्तेन
प्रतीतिः, यथा—पर्वतवर्त्तिनो धूमाद् वन्हेः पर्वतवर्त्तित्वस्य । न ह्यन्यदेशस्थेनाग्निना
जन्यमानस्य धूमस्य पर्वतवर्त्तित्वमुपपद्यते । न त्वेवं नित्यत्वसर्वज्ञत्वव्यापित्वादि
विना चेतनस्य तनुभुवनादिगतं स्थित्वाप्रवृत्त्यादिकमनुपपन्नम् ; नित्यत्वादिविपर्यय-
योगिना चेतनेन क्रियमाणं तद् घटत एव ।
ननूक्तमेव “अनित्याव्यापिनः सर्वदेशकालवर्त्ति कार्यमकार्यम्, असर्वविदश्च
सर्वोपादानाद्यभिज्ञता नास्ति” ( ) इत्यादिना ? सत्यमु-
क्तम्, अयुक्तं तूक्तम्; कर्तुरेकत्वासिद्धेः । एकस्य कर्तुरनेकदेशकालं कार्यं
१. यत्प्रसिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः”—न्या० द० १. १. ३० ।
२. उपदर्शितमर्थं प्राप्तुकामा कायवाग्व्यापारसहाया बुद्धिः=प्रवृत्तिरिति भावः ।

१२ प्रमाणवार्त्तिके
असिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥ १२ ॥
कुर्वाणस्य तदुपादानादिकं जानानस्य नित्यत्वादिकमन्तरेण स्थित्वाप्रवृत्त्यादि
नोपपद्यत इति स्यादपि तादृशस्याधिकरणसिद्धान्तेन प्रतिपत्तिः । अनेकेनापि तु
नानादेशकालवर्त्तिना स्वस्वकार्यस्योपादानादि जानता क्रियमाणं स्थित्वाप्रवृत्त्यादि
सङ्गतमेव । अत एवैकत्वस्यापि तत एव सिद्धिरयुक्ता; अनेकस्यापि हेतुत्व-
योगात् । पक्षायोगव्यवच्छेद एव तु साध्यस्याधिकरणसिद्धान्तेन सिध्यतु, न तु
तदधिकः; वह्नेरिव चान्दनत्वादिः ॥
नन्वनेक एव ते चेतनावन्तोऽभिमताः¹, न चोपादानादिकं तन्त्वादीनां ते
जानन्ति, नापि तत्कर्तृत्वमात्मनो मन्यन्ते, तत्कथममी कर्त्तारः ? अथाधिपत्यमात्रे-
णैषां कर्तृत्वम्, न तूपकरणाद्यायोजनेन व्यापारेण, यथा—चन्द्रस्य चन्द्र-
कान्तद्रुतौ, तेनोपादानाद्यभिज्ञता कर्तृत्वाभिमानश्च नैषाम् ? एवं तर्ह्युपादानाद्य-
भिज्ञचेतनपूर्वकत्वे साध्ये नेष्टसिद्धिर्वक्तव्या । यद्येवं भवत एव सूक्ष्मेक्षिका,
तदा चेतनापूर्वकत्वमात्रं साध्य, दृष्टान्ते च कुम्भकारत्ववत् सदप्युपादानाद्य-
भिज्ञत्वमप्रयोजकं मन्यस्व² ! ॥
सत्कथं परिहर्त्तव्यमिति चेत् ? तत्किं ³कुम्भकारत्वमपरिहार्यम् । अप्रयोज-
कत्वाद् त्यज्यत इति चेत् ? उपादानाद्यभिज्ञत्वेऽपि समानमेतत् । उपादानादि-
कमजानतोऽपि बुद्धिमतोऽनेकस्याधिष्ठानमात्रेणापि कार्याणामुत्पत्तियोगात् ।
अथ नित्यत्वादिविशिष्टपुरुषपूर्वकत्वमेव साध्यम् ? तदाऽसिद्धिर्दृष्टान्ते ।
साध्यशून्यो दृष्टान्त इत्यर्थः । न हि क्वचिद् दृष्टान्ते तादृशं साध्यमुपलब्धम्,
येन व्याप्तिः प्रतीयेत । असिद्धव्याप्तिकश्च हेतुरनैकान्तिक एव । स्थित्वाप्रवृत्तेः,
अर्थक्रियासमर्थत्वादिति हेत्वोः संशयोऽथ वा अनैकान्तिकत्वम्, तेनैव त्वभिमत-
रूपेण । न ह्यसौ स्थित्वाप्रवर्तमानः कार्येष्वर्थक्रियाकारी वा तथा पुरुषाधिष्ठितः;
अनवस्थाप्रसङ्गात् ॥ १२ ॥
१. बौद्धेनेति शेषः ।
२. बौद्धः प्राह इति शेषः ।
३. साध्ये इति शेषः ।

प्रमाणसिद्धिः १३
सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि;
तद्युक्तं तस्माद् यदनुमीयते ॥ १३ ॥
वस्तुभेदे¹ प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिव² हुताशने ॥ १४ ॥
अथ वा—यादृशबुद्धिमत्पूर्वकं सन्निवेशादि दृष्टान्ते दृष्टं तस्य धर्मिण्य-
सिद्धिः ? इत्याह—घटे दृष्टान्तधर्मिणि सन्निवेशादि यादृशं पृथुबुध्नोदरादि
दृष्टैकव्यक्तिजात्या विशेषितमधिष्ठातुः पुंसोऽन्वयव्यतिरेकानुविधानवत् व्यवहार-
प्रगल्भपुरुषाणां तत्सिद्धान्तानुरोधरहितानां प्रत्यक्षबलेनानुरूपनिश्चयोत्पादात् सिद्धं
निश्चितम् ॥
तस्मात् सन्निवेशादपरत्रानुपलब्धपुरुषजन्मनि घटे यद् बुद्धिमदधिष्ठान-
मनुमीयते तद् युक्तम्; तस्यैव पुरुषकार्यत्वेन निश्चयात् ॥ असन्निवेशव्यावृत्तं
सन्निवेशमात्रं तु सदपि न तत्कार्यतया प्रत्यक्षमुपस्थापयति । प्रत्यक्षव्यापारवि-
वादे च पटुप्रचारा व्यवहारिणः शरणम् । न हि कश्चिद् व्यवहारी घटं पुरुष-
कृतं पश्यन् शरावादि पर्वतादिकं वा तत्कृतमवधारयति । यदा तु शरावादी-
नपि तत उदयमासादयतः पश्यति तदा तानपि तत्कृतानवैति । अतः सन्निवेश-
विशेषं पुरुषकार्यं दृष्टवतः सन्निवेशमात्रात् तदनुमानमयुक्तम् ॥ १३ ॥
एतदेवाह—वस्तुभेदे घटे प्रसिद्धस्य पुरुषपूर्वकत्वस्य सन्निवेश इति शब्द-
साम्यादभेदिनः सन्निवेशमात्रात् पर्वतादौ न युक्तानुमितिः पाण्डुद्रव्यादिव²
हुताशने । यथा पाण्डुविशेषस्य धूमस्य कारणत्वेन दृष्टे वह्नौ पाण्डुशब्द-
साम्यादभेदिनो यतः कुतश्चिद् पाण्डुद्रव्याद् धूमादेरनुमानमनुचितम् , अतो यत्तद्
बुद्धिमद्व्याप्तं सन्निवेशादि तद्धर्मिणि नास्तीत्यसिद्धिर्हेतूनाम् ॥ १४ ॥
ननु सन्निवेशादिसामान्यादसन्निवेशादिव्यावृत्त्या हेतवो भविष्यन्ति ? इत्यत
१. वस्तुविशेष इत्यर्थः ।
२-२. पाण्डुद्रव्यादिवद्—रा० । एवमेव टीकायामपि ।

१४ प्रमाणवार्त्तिके
अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।
घटादेःकरणात् सिध्येद् वल्मीकस्यापि तत्कृतिः ॥ १५ ॥
साध्येनानुगमात् कार्ये सामान्येनापि साधने ।
सम्बन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ॥ १६ ॥
जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् ।
न युक्तं साधनं गोत्वाद् वागादीनां विषाणिवत् ॥ १७ ॥
विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ।
आह—अन्यथा यदि साध्यव्याप्तं विशेषं त्यक्त्वा सामान्यं लिङ्गं क्रियते, तदा
कुम्भकारेण कस्यचिद् घटादेर्मृद्विकारस्य करणाद् वल्मीकस्यापि
मृद्विकारत्वात् तेन कुम्भकारेण कृतिः करणं सिध्येत् ॥ १५ ॥
स्यादेतत् । न मृद्विकारत्वं कुम्भकारव्याप्तम्, तमन्तरेणापि वल्मीकस्योत्पत्तेः ।
यद्येवम्, बुद्धिमन्तरेणैतत् तन्वादि जायत इति तदपि पक्षो न

प्रमाणसिद्धिः १५
तद्भावादर्थसिद्धौ¹ तु सर्वं सर्वस्य सिध्यति ॥ १८ ॥
२. साङ्ख्यमतखण्डनम्
एतेन कापिलादीनामचैतन्यादि चिन्तितम् ।
अनित्यादेश्च चैतन्यं मरणात् त्वगपोहतः ॥ १९ ॥
वस्तुस्वरूपेऽसिद्धेऽयं न्यायः सिद्धे विशेषणम् ।
अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः ॥ २० ॥
तस्य शब्दस्य भावात् । अर्थसिद्धौ सत्यां सर्वं यथासमीहितं साध्यं सर्वस्य
सिध्यति ॥ १८ ॥ उक्तमीश्वर साधनस्य दूषणम् ॥
अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह—एतेन शब्दसामान्यमात्रस्यार्थशून्यस्या-
हेतुत्वकथनेन यत् कापिलादेर्बुद्धिसुखादीनामनित्यत्वोत्पत्तिमत्त्वादिहेतुतोऽचेत-
नत्वमिष्टम् ; तथा दिगम्बराणां चैतन्यं तरूणां सर्वस्याः त्वचोऽपोहतोऽपगते-
र्मरणादभिमतम् , तच्चिन्तितं वेदितव्यम् । यथा ह्यप्रच्युतप्राच्यरूपस्य तिरोधा-
नमनित्यत्वं साङ्ख्यस्येष्टम् , बौद्धस्य तु निरन्वयविनाशित्वम् । तस्य यथाक्रम-
मुपादाने प्रतिवाद्यसिद्धता वाद्यसिद्धता च। न² तूभयासिद्धमनित्यत्वमस्ति² किञ्चदृते
शब्दसाम्याद् । तथा विज्ञानेन्द्रियायुर्निरोधलक्षणं मरणमिष्टं बौद्धसिद्धान्ते ।
तस्य च तरुष्वसिद्धिः, चेतनत्वस्यैव साध्यत्वात् । न ह्यसिद्धेषु तन्निरोधो युक्तः ।
शोषमात्रं तु तरुषु मरणमुपचारादुच्यते । यदि च मरणवाच्यत्वमात्रं हेतुः,
तदा तैलादिष्वपि तत्सत्त्वात् साधारणानैकान्तिकता ॥ १९ ॥
नन्वेवं कृतकत्वादिकमपि हेतुर्न स्याद् , आकाशगुणशब्दस्य धर्मो बौद्धस्या-
सिद्धः, अन्यथा चान्यस्य ? इत्यत आह—वस्तुस्वरूपेऽसिद्धेऽयं न्यायः
यथोक्तासिद्धिचोदनालक्षणः । वस्तुस्वरूपे तु धर्मिणि हेतौ सिद्धे विशेषणम-
सिद्धावप्यबाधकम् । किमिव ? आकाशाश्रयवद् ध्वनेः । यथा शब्दस्या-
काशगुणत्वं विशेषणमपि न बाधकम् , धर्मितायाः कृतकत्वादिहेतोर्वा विशेषणा-
सिद्धावपि हि शब्दो धर्मी प्रत्यक्षसिद्धः, कृतकत्वादि चानुमानसिद्धम् । तावतैव
च साध्यसाधनभावो निर्विरोधः ॥ २० ॥
१. तदभावाद्; अर्थ०—रा० । २-२. ननू०—रा० ।

१६ प्रमाणवार्त्तिके
असिद्धावपि शब्दस्य सिद्धे वस्तुनि सिद्ध्यति ।
औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्त्यादिसाधनम् ॥ २१ ॥
तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि ।
दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ २२ ॥
ईश्वरवाधकं प्रमाणम्
यथा तत् कारणं वस्तु तथैव तदकारणम् ।
यदा तत् कारणं केन मतं नेष्टमकारणम् ॥ २३ ॥
शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे ।
यत्र शब्दोऽप्यसिद्धः, वस्तु तु सिद्धम्, तत्र कथम् ? इत्याह—असिद्धा-
वपि शब्दस्य, सिद्धे वस्तुनि साधनाभिमते सिद्ध्यति साध्योऽर्थः । यथा
औलूक्यस्य वैशेषिकस्य परमाणूनामनित्यत्वसाधनार्थं बौद्धेन मूर्त्त्यादिसाधन-
मुक्तं शब्दासिद्धावपि सिद्ध्यति । तथा हि वैशेषिकस्यासर्वगतं १ द्रव्यपरिमाणं
मूर्त्तिरिष्टा, बौद्धस्य स्पर्शवति सा प्रसिद्धा २ । ततो नोभयसम्प्रतिपन्ना मूर्त्तिशब्द-
वृत्तिः, वाच्यभेदात् ।
शब्दस्यासिद्धावपि च स्पर्शवत्त्वलक्षणोऽर्थो द्वयोरपि सिद्धः, स एव हेतु-
त्वेनाभिप्रेत इति भवति साधनम्, अतश्च--तस्यैवार्थस्य व्यभिचारादौ, आदि-
शब्दादसिद्धत्वे विपर्ययव्याप्तौ च, शब्देऽप्यव्यभिचारिणि दोषवत् साधनं
ज्ञेयम् । कस्मात् ? वस्तुनो हेतोर्वस्तुनः साध्यस्य सिद्धितः । एवं साध्य-
व्याप्तार्थशून्यशब्दमात्रकाणीश्वरसाधनानि दोषवन्ति बोद्धव्यानि ॥ २१–२२ ॥
ननु किं पुनरीश्वरस्य बाधकं प्रमाणम् ? इत्याह—यथा सदृशेन स्वभावेन
तद् ईश्वराख्यं वस्तु कारणमिष्टं सर्गावस्थायाम्, तथैव तेनैव स्वभावेन
सर्गात् प्राक् तन्न कारणं केन विशेषेण मतम् । न तु अकारणमिष्टम् ।
कारणत्वं हि ३ कारकावस्थाविशिष्टत्वेन व्याप्तम् ; तदभावात् कारणत्वाभावः ॥२३॥
यदि पुनरकारकावस्थाविशिष्टोऽपीश्वरः कारणमुच्यते, तदा—चैत्रस्य
१. तन्मते द्विविधं द्रव्यम्—सर्वगतं पृथिव्यादि, असर्वगतं घटादि ।
२. न हि बौद्धमते परिमाणं नाम किञ्चिदस्ति । ३. ह्यकारक०—रा० ।

प्रमाणसिद्धिः १७
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ २४ ॥
स्वभावभेदेन विना व्यापारोऽपि न युज्यते ।
नित्यस्याव्यतिरेकित्वात् सामर्थ्यं च दुरन्वयम् ॥ २५ ॥
येषु सत्सु भवत्येव यत् तेभ्योऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥ २६ ॥
स्वभावपरिणामेन हेतुरंकुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ २७ ॥
शस्त्रौषधयोः सम्बन्धाद् व्रणे व्रणरोहणे च वृत्तेऽसम्बद्धस्य व्यापारद्वारेणाप्र-
त्यासन्नस्य स्थाणोः किं कारणत्वं न कल्प्यते; निमित्तस्य समानत्वात् ॥ २४॥
नन्वकारणावस्थातो व्यापारसमावेशादस्ति विशेषः कारणावस्थायाम् ?
इत्याह—स्वभावभेदेन विना न केवलं कारकत्वम् । व्यापारोऽपि निर्व्या-
पारस्य नित्यस्य न युज्यते ।
किञ्च—नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं दुरवगमम् । न
ह्यस्तीति कारणम्, अपि तु यद्भावात् कार्याभावः स तत्कारणम्; अन्यथाऽऽ-
काशादीनामपि हेतुत्वप्रसङ्गः ॥ २५ ॥
अपि च—येषु कारणेषु सत्सु यत्कार्यं भवत्येव तेभ्यः कारणेभ्योऽन्यस्य
पदार्थस्य तत्कार्यहेतुत्वेन कल्पने सर्वत्र कार्यहेतूनामनवस्थितिः प्राप्नोति,
अपरापरकल्पनया । तस्माद् दृष्टसामर्थ्या एव क्षितिबीजादयः कारणमङ्कुरस्य,
नेश्वरादिरदृष्टसामर्थ्यः ॥ २६ ॥
ननु क्षित्यादिरप्यकारकावस्थातो न विशिष्टस्वभावः कारणावस्थायामङ्कुरस्य ?
इत्याह—उपसर्पणप्रत्ययाद्दृष्टसहकारिणः प्राप्तकार्योत्पादानुगुणातिशयो¹ भूम्यादिः
स्वभावपरिणामेन ²कार्यानुगुणातिशयतारतम्ययुक्तापरापरक्षणलक्षणेनान्त्यावस्था-
प्राप्तोऽङ्कुरजन्मनि हेतुर्भवति, न³ तु पूर्वपरैकरूपः; क्रमाक्रमयोरर्थक्रिया-
विरोधात् । कुत एतदिति चेत् ? तस्य भूम्यादेः कर्षणपांसुप्रक्षेपादिना संस्कारे
तस्याङ्कुरस्य पुष्टतरादिविशेषस्य दर्शनात् ॥ २७ ॥
१. ०तिशया--रा० । २. ०तम्यमुक्ता०--रा० । ३. स--रा० ।
प्र० वा० : २

१८ प्रमाणवार्त्तिके
यथा विशेषेण विना विषयेन्द्रियसंहतिः ।
बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः ॥ २८ ॥
पृथक् पृथगशक्तानां स्वभावातिशयेऽसति ।
संहतावप्यसामर्थ्यं स्यात् सिद्धोऽतिशयस्ततः ॥ २९ ॥
तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः ।
संहतौ हेतुता तेषां नेश्वरादेरभेदतः ॥ ३० ॥
१. ज्ञानवत्त्वाद् भगवान् प्रमाणम्
मीमांसकमतखण्डनम्
प्रामाण्यञ्च परोक्षार्थज्ञानं तत्साधनस्य च ।
अभावाद् नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥ ३१ ॥
ननु यथा विशेषेण विना विषयेन्द्रियसंहतिरपेक्षक्रियाधर्मिणी बुद्धे-
र्हेतुर्भवति, तथेदमीश्वरादि वस्तुविशेषं विना सहकारिसन्निधानेन कार्यं करोतीति
चेत् ? न; तत्रापि विषयेन्द्रियादिसंहतौ प्रागवस्थावत ' उपसर्पणप्रत्ययजनिताद् '
विज्ञानजननशक्तक्षणप्रज्ञालक्षणाद् विशेषात् ॥ २८ ॥
अन्यथा—पृथक् पृथगशक्तानां विषयेन्द्रियाणां स्वभावातिशयेऽसति
संहतावप्यसामर्थ्यं स्यात् ज्ञानार्जनं प्रति; स्वरूपाभेदात् । उत्पद्यते च ज्ञानम्,
सिद्धोऽतिशयस्ततो ज्ञानोत्पादात् ॥ २९ ॥
तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः स्वरूपान्तरोत्पादलक्षणः २
संहतौ हेतुता तेषां क्षणिकानाम्, नेश्वरादेरभेदतः ईश्वरप्रधानपुरुषादेरकारका-
भिन्नस्वरूपत्वान्न हेतुत्वमित्युपसंहारः ॥ ३० ॥ उक्तमीश्वरादिदूषणम् ॥
भगवतोऽपि साधनाभावादप्रामाण्यं परमतेनाशङ्क्यते—प्रामाण्यञ्च
परोक्षार्थज्ञानम्, न सर्वस्येप्यते; तत्साधनस्याभावात् अनुष्ठानं
कस्यचिन्नास्तीति कथं तथाविधप्रमाणोपपत्तिः ?—इति केचित् जैमिनीयाः
प्रचक्षते ॥ ३१ ॥
१-१. प्रागवस्थावदुप०--रा० । २. ०लक्षणं--रा० ।

प्रमाणसिद्धिः १९
ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ ३२ ॥
तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ! ॥ ३३ ॥
२. हेयोपादेयवेदकत्वादेव भगवान् प्रमाणम्
हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ ३४ ॥
दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ।
प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ! ॥ ३५ ॥
अत्राह—न खलु व्यसनितया प्रमाणमन्विष्यते प्रेक्षावद्भिः, अपि तु स्वर्गा-
पवर्गप्रधानपुरुषार्थप्रेप्सुभिः तद्विषयज्ञानवान् कश्चित् ( मृग्यते ) अन्विष्यते
तदुक्तस्योपायस्य प्रतिपत्तयेऽनुष्ठानार्थम् अज्ञोपदेशकरणे विप्रलम्भन-
शङ्किभिः विसंवादं सम्भावयद्भिः ॥ ३२ ॥
दुःखोपशमोपायोपदेष्टुर्ज्ञानं मृग्यते, यतस्तस्मादनुष्ठेयगतं संसारदुःख-
प्रशमोपायं ज्ञानमस्य प्रमाणपुरुषस्य विचार्यताम् । अनुपयोगि कीटसंख्या-
परिज्ञानं तस्योपदेष्टुर्नाऽस्माकं न क्वचित् पुरुषार्थे उपयुज्यते इति न
तद्विचार्यमिति प्रतिज्ञा, प्रत्युपकारापेक्षाक्षमं १ सर्वसत्त्वेषु । तस्माद् यदेवं प्रेक्षावता-
मनुष्ठेयं तद्विषयमुपदेष्टुं ज्ञानमुपयुक्तम्, नान्यविषयम् ॥ ३३ ॥
तस्माद्धेयतत्त्वस्य दुःखसत्यस्य साभ्युपायस्य समुदयसत्यान्वितस्योपा-
देयतत्त्वस्य निरोधसत्यस्य साभ्युपायस्य मार्गसत्यसहितस्य प्रमाणपरिशुद्धस्य
यो वेदकः असौ प्रमाणमिष्टः, न तु सर्वस्य यस्य कस्यचिद्धि वेदकः । न
खलु सकलज्ञानादार्यसत्यचतुष्टयदेशना, अपि तु तज्ज्ञानवत्त्वात् २, तदुपदेष्टृतयैव
च प्रामाण्यमिष्यते ॥ ३४ ॥
तदेवाह—दूरं पश्यतु वा, मा वा द्राक्षीत् , तत्त्वमिष्टं तु आर्यसत्यचतुष्टयं
पश्यतु, तावतैव भगवान् प्रमाणम् । अन्यथाऽतत्त्वदर्शपि प्रमाणं दूरदर्शी
१. ०कारापेक्षासमं—रा०। २. तज्ज्ञानत्वात्—रा०।

२० प्रमाणवार्त्तिके
३. कारुणिकत्वादपि भगवान् प्रमाणम्
चार्वाकमतनिरसनपूर्वकं परलोकसाधनम्
साधनं करुणाभ्यासात् सा;
बुद्धेर्देहसंश्रयात् ।
असिद्धोऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥ ३६ ॥
प्राणापानेन्द्रियधियां देहादेव न केवलात् ।
सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥ ३७ ॥
चेदिष्यते, एतागच्छत मुमुक्षवो गृध्रानुपास्महे दूरदर्शिनः, दीर्घश्रुतींश्च
वराहानित्युपहसति ॥ ३५ ॥ उक्तमभिमतं प्रामाण्यम् ॥
नन्वीदृशस्य प्रमाणस्य किं साधनम् ? इत्याह—साधनं करुणा । दुःखाद् १,
दुःखहेतोश्च १ समुद्धरणकामता करुणा । सा भगवतः प्रामाण्यस्य साधनम् ।
सैव करुणा ( कथं जायते ? ) इत्यत आह—अभ्यासात् सा । गोत्रविशेषात्
कल्याणमित्रसंसर्गादनुशयदर्शनाच्च कश्चिन्महासत्त्वः कृपायामुपजातस्पृहः सादर-
निरन्तरानेकजन्मपरम्पराप्रभवाभ्यासेन सात्मीभूतकृपया प्रेर्यमाणः सर्वसत्त्वानां
समुदयहान्या दुःखहानाय मार्गभावनया निरोधप्रापणाय च देशनां कर्तुकामः
स्वयमसाक्षात्कृतस्य देशनायां विप्रलम्भसम्भावनाच्चतुरार्यसत्यानि साक्षात् करोतीति
भगवति साधनं कृपा प्रामाण्यस्य ।
बुद्धेर्देहसंश्रयादसिद्धोऽभ्यास इति चेत् “बुद्धिर्देहमाश्रिता; कार्यत्वात् ,
प्रदीपमिव प्रभा”, “शक्तिरूपत्वाद्वा, मद्यमिव मदशक्तिः”, “गुणत्वाद्वा, पटमिव
शुक्लता”—त्रेधाप्याश्रयविनाशे तस्य नाशात् कुतो जन्मान्तराणि, कथं वा तेष्व-
भ्यासः कृपादेः ? इति चार्वाकाः । तदेतन्न युक्तम् ; आश्रयप्रतिषेधतो बुद्धेः ।
बुद्धिरहितः कायो नाश्रयः, कारणत्वात् , गुणित्वात् , शक्तिमत्त्वाद्वा ॥ ३६ ॥
तत्र कारणत्वं प्रतिषेद्धुमाह—प्राणो वायुरूर्ध्वगः, तद्विपरीतोऽपानः,
इन्द्रियाणि चक्षुरादीनि, धीर्बुद्धिः, तासां सजातिनिरपेक्षाणां कारणभूतपूर्वसजा-
तिप्राणादिपुञ्जनिरपेक्षाणां देहादेव केवलान्न जन्म भवति । कुतः ? इत्याह—
१-१. दुःखाद्दुःखहेतोश्च—रा० ।

प्रमाणसिद्धिः २१
अतिप्रसङ्गात्;
यद् दृष्टं प्रतिसन्धानशक्तिमत् ।
किमासीत् तस्य यन्नास्ति पश्चाद् येन न सन्धिमत् ॥ ३८ ॥
न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तवः ।
संस्वेदजाद्या जायन्ते सर्वं बीजात्मकं ततः ॥ ३९ ॥
जन्मपरिग्रहेऽतिप्रसङ्गात् । यदि महाभूतेभ्य एव केवलेभ्यः प्राणादीनां
जन्मग्रहः, तदा सर्वस्माद् भवेयुरिति सर्वं प्राणिमयं जगत् स्यात् ; न चास्त्ये-
तत्, तस्मात् पूर्वसजातिसापेक्षाणामेवाक्षादीनां देहाज्जन्मेति पूर्वजन्मप्रतिबन्ध-
सिद्धिः ॥ ३७ ॥
भाविजन्मपरम्परासिद्ध्यर्थमप्याह—यत् प्राणापानादिमध्यावस्थायां प्राणा-
दीनामुत्पादशक्तियुक्तं दृष्टं तस्य किमासीत् प्रतिसन्धानकालेऽधिकं यत्
पश्चान्मरणकाले नास्ति येन तद्वैकल्यात् तदा न सन्धिमत् समग्राप्रतिबद्ध-
कारणत्वात् प्रतिसन्धानं प्राप्तमित्यर्थः ॥ ३८ ॥
स्यादेतत्—पूर्वसजातिहेतुकमिन्द्रियादि न भवति, किन्तु देहहेतुकमेवेदम्,
न चातिप्रसङ्गः; केषाञ्चिदेव भूतपरिणामानां देहात्मकानां तद्धेतुत्वात्, अन्येषाञ्च
तद्विरुद्धस्वभावानामहेतुत्वात्, सुवर्णबीजाबीजपाषाणवत् ? अत्राह---न स कश्चित्
पृथिव्यादेरंशः प्रदेशो यत्र जन्तवः संस्वेदजाद्याः, आद्यशब्दाज्जरायुजाण्डज-
प्रभृतयः, न जायन्ते, ततः सर्वं भूतपरिणतिजातं प्राणादिजनने बीजात्मक-
मिति नास्ति बीजविरुद्धस्वभावता कस्यचित् । सुवर्णासुवर्णबीजत्वं तु पाषाणा-
दीनां सुवर्णपरमाणूनामेव सदसत्त्वाभ्यामिति विषमो दृष्टान्तः ॥ ३९ ॥
ननु भूतमात्रहेतुकत्वाविशेषेऽपि परिणामस्य यथा विशेषः सुवर्णपरमाणु-
मयत्वेतराभ्याम्, तथा प्राणादिहेतुत्वाभ्यामपि स्यात् ? उक्तमेवात्र सर्वत्र प्राणिनां
दृष्टे सर्वं तद्बीजात्मकमिति नास्त्येवाबीजात्मकता कस्यचित् परिणामस्य । अत्रापि
वा तुल्यः प्रसङ्गः—यदि भूतमात्रहेतुकोऽयं बीजपरिणामः, सर्वस्तथा स्यात्;
हेत्वविशेषे कार्यविशेषायोगात् ।

३२ प्रमाणवार्त्तिके
तत् सजात्यनपेक्षाणामक्षादीनां¹ समुद्भवे ।
परिणामो यथैकस्य स्यात् सर्वस्याविशेषतः ॥ ४० ॥
प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमतेः ।
उपघातोऽस्ति;
भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते ॥ ४१ ॥
तस्मात् स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः ।
ननु भूतान्यप्यवान्तरानेकविविधविशेषभाञ्जि विचित्राः परिणतीर्जनयन्तीति न
समानताप्रसङ्गः ? न तावत् सविशेषो भूतमात्रात्; सर्वत्र प्रसङ्गात् । न चान्यतः;
अन्यस्याभावात् । अस्माकं तु कर्मापि सहकारि सम्मतम्, तद्वैचित्र्यात् विचित्रं
कार्यजातमुचितम् ।
शक्तिपक्षं निषेद्धुमाह—तत् तस्माद् भूतमात्रहेतुत्वात् सजात्यनपेक्षाणा-
मक्षादीनां¹ समुद्भवे स्वीक्रियमाणे परिणामो यथैकस्य देहस्यातद्भूतप्राणा-
पानेन्द्रियचैतन्यशक्तितया, तथा सर्वस्य लोष्टादेरपि स्याद् हेतोरविशेषतः ।
अत एव हि प्रसङ्गाद् गुणपक्षोऽपि प्रतिक्षिप्तो बोद्धव्यः । तस्मादाश्रयत्वमपि
नास्ति; अनिन्द्रियस्य कायस्य कारणत्व-शक्तिमत्त्व-गुणवत्त्वानामयोगतः² ॥४०॥
सेन्द्रियोऽपि कायो बुद्धेराश्रयो न युक्त इति वक्तुमाह—इन्द्रियाणां
प्रत्येकं यथास्वं प्रत्ययैः उपघातेऽपि सति मनोमतेर्विकल्पबुद्धेः उपघातः
पटुमन्दतादिलक्षणो नास्ति । यद्धि यदाश्रितं तत् तद्विकारे विक्रियते, यथा—
घटस्य दाहादौ तच्छुक्लत्वादि । तस्मान्न तदाश्रिता बुद्धिः ।
विपर्ययमेवाख्यातुमाह—भयशोकादिभिरस्या मनोबुद्धेर्भङ्गे³ विकारे (वा)
सति तेषामिन्द्रियाणां भङ्गो विकारश्च दृश्यते । हर्षादिना च परिपुष्टिरिति
विकल्पबुद्धिविकारविकारित्वादिन्द्रियाण्येव तदाश्रितानि ॥ ४१ ॥
तस्माद् बुद्धेः स्थिराश्रयः समानजातीयः कश्चिन्न सेन्द्रियः कायः ।
१. स्वजात्य०--रा० । २. कारणत्वशक्तिमत्त्वे गुणत्वा०—रा० ।
३. नाशे इत्यर्थः ।

प्रमाणसिद्धिः ३३
कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः ॥ ४२ ॥
यादृश्याक्षेपिका साऽसीत् पश्चादप्यस्तु तादृशी ।
तज्ज्ञानैरुपकार्यत्वाद्युक्तं कायाश्रितं मनः ॥ ४३ ॥
यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना ।
तथाप्यन्योऽन्यहेतुत्वं ततोऽप्यन्योऽन्यहेतुके ॥ ४४ ॥
विज्ञानसिद्धिः
नाक्रमात् क्रमिणो भावो नाप्यपेक्षाऽविशेषिणः ।
स तर्हि तदाश्रितो भविष्यति ? न; स च बुद्धिमेव समाश्रितः, निमित्त-
श्चाक्षाणाम् । तस्मादक्षाणि बुद्धितः, न बुद्धिस्तेभ्यः ॥ ४२ ॥
ततो जन्मादौ यादृशी दृष्टात्मग्रहयोगिनी बुद्धिराक्षेपिका बुद्धीन्द्रियादी-
नामासीत् , पश्चादपि मरणावस्थायामपि तादृश्याक्षेपिका भवतु । जन्मान्तरस्य
शरीरान्तरसम्बद्धबुद्धीन्द्रियाद्युत्पादनलक्षणस्येति पूर्वोक्तनिगमनम् ।
ननु कायाश्रितत्वं मनसोऽप्युक्तं भगवता—“अन्योऽन्यानुविधायित्वं काय-
मनसोः” ( ) इति वदता, तत्कथम् ? इत्याह—तज्ज्ञानैः कायविषयैर्ज्ञानै
रूपादिग्राहिभिरुपकार्यत्वात् मनसः सुखोत्साहादिरूपेणोक्तं भगवता कायाश्रितं
मनोविज्ञानम् , न साक्षात्तदुत्पत्तेः ॥ ४३ ॥
नन्विन्द्रियाणि विना न बुद्धिरिति युक्तमाश्रयत्वमेषाम् ? इत्याह—यद्य-
प्यक्षैर्विना बुद्धिर्न भवति, तान्यप्यक्षाणि तया विना न भवन्ति; भूतमात्रा-
दुत्पत्तेः सर्वस्मादुत्पत्तिप्रसङ्गादित्युक्तेः । तथाप्यन्योऽन्यहेतुत्वमुक्तं भवति ।
ततोऽप्यन्योऽन्यहेतुके कायमनसी मध्यावस्थावत् अनादितादृक्प्रवाहवती—
इति सिद्धः परलोकः ॥ ४४ ॥
किञ्च—नाक्रमात् क्रमिणः १ कार्यस्य भावः; क्रमरहितत्वात् कारणस्य ।
तन्निष्पाद्यानि कार्याणि २ सकृज्जायेरन् । क्रमवतः सहकारिणोऽपेक्ष्य क्रमाज्जन-
यिष्यतीति चेत् ? नाप्यविशेषिणः स्थिरेकरूपस्य परैरनाधेयविशेषस्य परेषां
१. क्षणिकस्येति भावः ।
२. इन्द्रियविज्ञानादीनीति शेषः ।

२४ प्रमाणवार्त्तिके
क्रमाद् भवन्ती धीः कायात् क्रमन्तस्यापि 'शंसति ॥ ४५ ॥
प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् ।
तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा ॥ ४६ ॥
चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतसः ।
तद्वदप्यर्हतश्चित्तमसन्धानं कुतो मतम् ॥ ४७ ॥
असिद्धार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते ।
सहकारिणामपेक्षाऽस्ति । तस्मात् क्रमाद् भवन्ती धीः कायात् क्रमन्तस्यापि
कायस्य शंसति२ ॥ ४५ ॥
ततश्च—प्रतिक्षणमपूर्वस्य बुद्धीन्द्रियकायसमुदायस्य कार्यस्य पूर्वः पूर्वः
क्षणस्तादृशो हेतुर्भवेत्, अतः कारणादनन्तरस्य बुद्धीन्द्रियादेर्हेतुर्मध्यावस्थावद् दृष्ट
एव बुद्धीन्द्रियादिकलापः सर्वदा ऐहिकजन्मादौ वामुत्रिकजन्मादौ चास्तु ॥४६॥
ननु यदि सविज्ञानकायत्वात् तथाभूतजननानुमानेन परलोकसिद्धिः, तदा
'मरणचित्तत्वाच्चित्तान्तराप्रतिसन्धानमर्हच्चरमचित्तवत्' इति कस्मान्नानुमीयते ?
इत्याह—चित्तान्तरस्य सन्धाने को विरोधोऽन्यचेतसो मरणचित्तस्य ! न
कश्चित् । तथा हि—न तावन्मरणचित्तेन चित्तान्तरसन्धानस्य सहानवस्थानलक्षणो
विरोधः; निवर्त्यनिवर्तकत्वाभावात् । नापि परस्परपरिहारस्थितिलक्षणः; अमरण-
चित्तव्यवच्छेदेन मरणचित्तस्यावस्थानात् । तद्वदप्यर्हतश्चित्तमसन्धानं कुतः
प्रमाणात् मतं येन दृष्टान्तः स्यात् । न ह्यर्हन् भवतां३ सिद्धः; तद्धाधनाय
यत्नात् ॥ ४७ ॥
अथाभ्युपगम्यते, तदा तस्य क्लेशविसंयोगकृतमसन्धानम्, नान्यथा । स
च न पृथग्जनानामिति कथं तेषां मरणचित्तमसन्धानम् । क्लेशविसंयोगो हि
प्रतिसन्धानविरोधी लक्ष्यते, न मरणचित्तम् ।
स्यादेतद्—भवत्सिद्धान्तसिद्धमर्हच्चित्तमसन्धानम्, तत एव दृष्टान्त-
सिद्धिः ? अत्राह—असिद्धार्थोऽनिश्चितार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते;
१. क्रमं तस्यापि--रा० । २. अनुमापयतीत्यर्थः ।
३. चार्वाकाणामित्यर्थः ।

प्रमाणसिद्धिः २५
हेतोर्वैकल्यतस्तच्चेत् किं तदेवाऽत्र नोदितम् ॥ ४८ ॥
तद्धीवन्न ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् ।
ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि ॥ ४९ ॥
अचेतनत्वान्नान्यस्माद्;
हेत्वभेदात् सहस्थितिः ।
अक्षवद् रूपरसवद् अर्थद्वारेण विक्रिया ॥ ५० ॥
तदनुरोधेन परलोकस्याभ्युपगमप्रसङ्गात् । अथ हेतोराश्वासप्रश्वासेन्द्रियपाटवादे-
र्वैकल्यतो मरणचित्तस्य तदप्रतिसन्धानमिति चेत् ? किं तदेव हेतुवैकल्यमत्रा-
प्रतिसन्धाने साधनत्वे नोदितम् ! दृष्टान्तविकलं तु मरणचित्तमुक्तम् । आश्वा-
सादिहेतुत्वनिषेधं च वक्ष्यति ॥ ४८ ॥
कायश्च हेतुर्भवन् सेन्द्रियो वा स्याद् ? अनिन्द्रियो वा ? सेन्द्रियोऽपि प्रत्येक-
मिन्द्रियैः सहितः ? समस्तैर्वा ? तत्र प्रथमपक्षे तस्या इन्द्रियधिय इव विकल्प्य-
मानेषु रूपादिषु स्पष्टतरस्य ग्रहणस्य प्राप्तेः । मनोज्ञानं न सेन्द्रियात्
कायात् ; इन्द्रियजन्यस्य स्पष्टतयाऽन्तज्ञानादिषु व्याप्तिदृष्टेः । द्वितीयपक्षेऽ-
प्याह—प्रत्येकमिन्द्रियाणां रूपादिग्रहणप्रतिनियतज्ञानोत्पादनसामर्थ्यभेदात्
दृष्टात् न सकलादपीन्द्रियकलापात् प्रतिनियतविषयाग्राहिणो मनोविज्ञानस्य
सम्भवः । एकेन्द्रियवैकल्येऽप्यनुत्पादप्रसङ्गाच्च ॥ ४९ ॥
नाप्यनिन्द्रियो हेतुरित्याह—अचेतनत्वान्नान्यस्मादनिन्द्रियात् केशनखा-
देरिव मनोज्ञानम् ।
नन्वचेतनत्वं किमिन्द्रियज्ञानरहितत्वम् ? उत मनोज्ञानविमुक्तत्वम् ? तत्राद्य-
मिष्टमेव, इन्द्रियस्याभावे तज्ज्ञानाभावात् ; अन्त्ये साध्याविशिष्टत्वं हेतोः, मनो-
ज्ञानस्यैव साध्यत्वात् ? उच्यते; यथा स्पर्शादयः स्पर्शज्ञानेन चेत्यन्ते, न तथा
नखकेशादय इत्यचेतनाः । चेतनाप्रतिबद्धं च मनोविज्ञानं तदभावे न स्यात् ।
ननु यदि न काय आश्रयः कथं सहस्थितिः ? इत्यत आह—हेतोः
कर्मसंज्ञितस्याभेदात् । एकसामग्रीप्रतिबद्धत्वात् सहस्थितिः, न त्वाश्रयाश्रयिभा-
वात् । अक्षवद्, रूपरसवत् । यथाऽक्षाणि रूपरसादयश्च परस्परमनाश्रयाश्रयिभूता

२६ प्रमाणवार्त्तिके
सत्तोपकारिणी यस्य नित्यं तदनुबन्धतः ।
स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ॥ ५१ ॥
अस्तूपकारको वापि कदाचिच्चित्तसन्ततेः ।
वह्नयादिवद् घटादीनां विनिवृत्तिर्न तावता ॥ ५२ ॥
अनिवृत्तिप्रसङ्गश्च देहे तिष्ठति चेतसः ।
तद्भावभावाद् वश्यत्वात् प्राणापानौ ततो न तत् ॥ ५३ ॥
अप्येकसामग्र्यधीनत्वात् सहस्थितिमन्तः । ननु यो यद्विकारेण विक्रियते स तदा-
श्रितः, यथा चक्षुरादिविकारेण विक्रियमाणं तज्ज्ञानं चक्षुराद्याश्रितम् ; विषश्लेष्मा-
दिना कायविकारे च विक्रियते मनोविज्ञानम्, अतस्तदाश्रितम् ? इत्याह—
“तज्ज्ञानेरुपकार्यत्वात्” इत्यादिनोक्तमपि अर्थद्वारेण विक्रिया आलम्ब्यमाना
हि शस्त्रप्रहारादयो विकारयन्ति मानसम्, न त्वाश्रयत्वेन ॥ ५० ॥
न चोपकारक इत्येवाश्रयः, किन्तु निर्वर्त्तकः; तदाह—यस्य सत्ता
निर्वर्त्त्यस्य उपकारिणी स हेतुः, स एवाश्रयः । कथमुपकारिणी ? नित्यं तस्य
निर्वर्त्त्यस्यानुबन्धतोऽनुवर्त्तनात्। यस्य तु कदाचिदुपकारकत्वम्, असौ विशेषस्यैव
हेतुर्न धर्मिणः; तदभावेऽपि तद्भावात् । चित्तमात्रप्रतिबद्धं च चित्तम्; तद्विशेषस्तु
कायादिहेतुकः । अतो नायं हेतुः । न च तन्निवृत्त्या निवृत्तिश्चित्तस्य । नित्या-
नुबन्धितया हेतुत्वमभिप्रेत्य चास्मिन् सतीदं भवतीति सप्तम्युच्यते, तस्मादिति
च पञ्चमी, तद्धेत्वनुबद्धां कार्यतां चाभिप्रेत्योत्पादादिति चोच्यते ॥ ५१ ॥
ननु हेतुरुपकारकः, कथञ्चिदुपकुर्वन् दृश्यते च कदाचिद् देहश्चित्तम् ?
अत आह—अस्तूपकारको वापि कदाचिच्चित्तसन्ततेर्देहो वह्नयादिवद्
घटादीनाम्, न च तावतोपकारकनिवृत्त्या उपकार्यस्य निवृत्तिः । न हि
वह्निर्घटस्यापाकमुपकारं कुर्वन्नपि स्वनिवृत्त्या निवर्त्तकः ॥ ५२ ॥
किञ्च—अनिवृत्तिप्रसंगश्च देहे तिष्ठति चेतसः । स्वजातिनिरपेक्षस्य
देहमात्रहेतुकस्याविकलहेतोरनुत्पत्त्ययोगात् । ततो यावद्देहस्तावन्न मरणं भवेत् ।
प्राणापानावपि चित्तकारणम्, तयोर्वैकल्यान्मरणभावस्थायां न चित्तोत्पाद इति
चेत् ? आह—तस्य चित्तस्य भावे भावात् प्राणापानौ ततो भवतः । चित्त-

प्रमाणसिद्धिः २७
प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः ।
निर्ह्रासातिशयापत्तिर्निर्ह्रासातिशयात् तयोः ॥ ५४ ॥
तुल्यः प्रसङ्गोऽपि तयोः;
न तुल्यं चित्तकारणे ।
स्थित्यावेधकमन्यच्च यतः कारणमिष्यते ॥ ५५ ॥
न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद् यदि ।
मृते शमीकृते दोषे पुनरुज्जीवनं भवेत् ॥ ५६ ॥
वश्यत्वाच्च तत एव तौ, न तु ताभ्यां तच्चित्तम् ; विपर्ययात् ॥ ५३ ॥
एतद्धेतुद्वयसिद्ध्यर्थमाह—बहिरन्तश्च प्रेरणाकर्षणे वायोर्यथाक्रमं प्राणा-
पानौ पुरुषस्य बुद्धिलक्षणं प्रयत्नेन विना कुतः सम्भवतः ! तस्मात् तदधीनौ ।
किञ्च—यदि प्राणापानहेतुकं चित्तम्, तदा चित्तस्य निर्ह्रासातिशयापत्ति-
रपकर्षोत्कर्षापत्तिः । निर्ह्रासातिशयात् तयोः प्राणापानयोः; कारणविशेषानुका-
रित्वात् कार्यविशेषस्य ॥ ५४ ॥
अपि च—तयोरपि प्राणापानयोर्देहे तिष्ठत्यनिवृत्तिप्रसङ्गस्तुल्यः, तद्धेतु-
त्वात् तयोः । ततो मरणकाले प्राणापानवैकल्याभावाच्चित्तानिवृत्तिप्रसङ्गस्तदवस्थः ।
स्यादेतत्—चित्तकारणेऽपि चित्ते स्वीक्रियमाणे मरणसमये चित्तानपायात्
चित्तोत्पत्तौ यावद्देहेऽनिवृत्तिप्रसङ्गः ? इत्याह¹—न तुल्यं चित्तकारणे चैतन्ये
प्रसञ्जनम् । न खल्वनुवर्तकमेव कारणमिष्टं येन नित्यं तस्मिन्नाश्रये स्यात्, किं
तर्हि ? स्थित्यावेधकमन्यच्च कर्माख्यं कारणं यत इष्यते, तस्मात् तेन
कर्मणा यावत्कालं तद्देहे स्थितिरक्षिप्ता । तत ऊर्ध्वं हेत्वपायान्न प्रवर्तते, देहान्तरे
तु वर्तत इत्यसमानत्वम् ॥ ५५ ॥
दोषैर्वातादिभिर्विगुणीकृतो देहो न हेतुश्चैतन्यस्य प्राणापानादेश्च, वर्त्त्या-
दिवद् यदि यथा विगुणीकृतो वर्त्त्यादिर्न दीपस्य हेतुः । तदा मृते शरीरे चैतन्या-
दिनाशान्मृतस्य शमीभवन्ति दोषा इति शमीकृते दोषे विकारविकारिण्यारोग्य-
लाभाद्धेतोर्देहस्य पुनरुज्जीवनं प्राणापानं चैतन्योत्पत्तिलक्षणं भवेत् ॥ ५६ ॥
१. सिद्धान्तवादीति शेषः ।

२८ प्रमाणवार्त्तिके
निवृत्तेऽप्यनले काष्ठविकाराविनिवृत्तिवत् ।
तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगतः ॥ ५७ ॥
अपुनर्भावतः किञ्चिद् विकारजननं क्वचित् ।
किञ्चिद् विपर्ययादग्निर्यथा काष्ठसुवर्णयोः ॥ ५८ ॥
आद्यस्याल्पोऽप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः ।
विकारः स्यात् पुनर्भाविः तस्य हेम्नि खरत्ववत् ॥ ५९ ॥
दुर्लभत्वात् समाधातुरसाध्यं किञ्चिदीरितम् ।
आयुःक्षयाद् वा; दोषे तु केवले नास्त्यसाध्यता ॥ ६० ॥
निवृत्तेऽप्यनले हेतौ काष्ठविकारस्याङ्गारादेरविनिवृत्तिवत् । तस्य
चैतन्यादिनिरोधस्यानिवृत्तिर्निवृत्तिर्न भवति तद्दोषे मृतशरीरान्निवृत्तेऽपीति चेत् ?
न; चिकित्साप्रयोगतः ॥ ५७ ॥
स्यादेतद्—यद्यनिवर्त्या दोषाणां विकाराः स्युः; दृश्यन्ते च चिकित्स्यमाना
दोषविकारा ज्वरादयः ? एतदेवाह—किञ्चिद् वस्तु क्वचिद् विकार्ये विकारस्य
जननं जनकमपुनर्भावतो यथा विकारस्यापुनर्भावो निर्विकारत्वं पुनर्न भवति,
यथा—अग्निः काष्ठे । किञ्चिदेव तद्विपर्ययात्, यथा—अग्निः सुवर्णे ॥ ५८ ॥
तत्राद्यस्य विकारस्याल्पोऽपि विकारः श्यामतादिकोऽसंहार्योऽनिवर्त-
नीयः । प्रत्यानेयो निवर्तनीयस्तु यत्कृतो विकारस्तस्य विकार्यस्य पुनर्भावः
स्यात् विकारनिवृत्त्या पूर्वावस्थापत्तिः । वह्निकृते द्रवत्वे निवृत्ते हेम्नि खरत्ववत्
दृढत्वमिव ॥ ५९ ॥
ननु यदि निवर्तनीयो दोषविकारः, तदा न कश्चिदसाध्यो व्याधिः स्यात् ?
इत्याह¹—यत्किञ्चिदसाध्यं व्याधिजातमुक्तं तत् समाधातुः सद्यो दोषशमनौ-
षधरसायनादेर्दुर्लभत्वात् कर्माक्षिप्तस्यायुषस्तच्छरीरसहचरचैतन्यादिस्थितिहेतोर्वा
क्षयात् । भूतमात्रवादिनः—केवले दोषे तु स्वीक्रियमाणे नास्त्यसाध्यता
कस्यचिद् व्याधेः; भूतमात्रारब्धस्य दोषस्य चिकित्सादृष्टेः । विशेषकारिणश्च
हेतोरभावात् ॥ ६० ॥
१. सिद्धान्तवादीति शेषः ।

प्रमाणसिद्धिः २९
मृते विषादिसंहारात् तद्दंशच्छेदतोऽपि वा ।
विकारहेतोर्विगमे स नोच्छ्वसिति किं पुनः ॥ ६१ ॥
उपादानाविकारेण नोपादेयस्य विक्रिया ।
कर्तुं शक्याऽविकारेण मृदः कुण्डादिनो यथा ॥ ६२ ॥
अविकृत्य हि यद् वस्तु यः पदार्थो विकार्यते ।
उपादानं न तत् तस्य युक्तं गोगवयादिवत् ॥ ६३ ॥
चेतःशरीरयोरेवम्,
तद्धेतोः कार्यजन्मनः ।
सहकारात् सहस्थानमग्निताम्रद्रवत्ववत् ॥ ६४ ॥
तथा—विषादिना मृते प्राणिनि सति दंशस्थाने विषादेः संहारात्
संगणनात् तस्य दंशस्थानस्य च्छेदतोऽपि वा विकारहेतोर्मरणहेतोर्विषादेर्विग-
मात् स मृतः पुनः किं नोच्छ्वसिति ! कस्मात् ? चैतन्यहेतोर्देहस्य विकार-
त्वात् युक्तमुच्छ्वसितुम् ॥ ६१ ॥
किञ्च—यद्युपादानं देहश्चित्तस्य तदोपादानस्य देहस्याविकारेण विकारं
विनोपादेयस्य चित्तस्य विक्रिया न कर्तुं शक्या स्यात् । यथा कुण्डाद्युपा-
दानभूताया मृदो विकारेण विना कुण्डादिनो विकारः कर्तुमशक्यः ॥ ६२ ॥
कस्मादेवम् ? इत्याह—हि यस्मात् अविकृत्य यद्वस्तु किञ्चिद् यः पदार्थो
विकार्यते उपादानं न तत्तस्य पदार्थस्य युक्तम्, गोगवयादिवत् गोग-
वययोरिव नोपादानोपादेयभावः; एकस्याविकारेणापरस्य विकारात् ॥ ६३ ॥
चेतःशरीरयोरेवं शरीरमविकृत्यैव भयशोकादिना समनन्तरप्रत्ययविकार-
मात्रेण चेतसो विकारोत्पत्तेः नोपादानोपादेयभावः; यदि नाम देहोऽपि कथ-
ञ्चिदुपकारकश्चित्तस्यावस्थाविशेषहेतुत्वात् , तथापि सन्तानहेतुत्वाभावान् नोपादानम् ।
अतस्तन्निवृत्त्या न चैतन्यनिवृत्तिः, अवस्थाविशेष एव निवर्तेत ।
कथं तर्हि सहावस्थानं चेतःशरीरयोः ? इत्याह— ( सहकारादित्यादि ) ।
तस्य चेतः शरीरस्य च हेतोः पूर्वचित्तक्षणस्य कललादेश्च सहकारात् सह-