प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 45, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः १९
ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ ३२ ॥
तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ! ॥ ३३ ॥
२. हेयोपादेयवेदकत्वादेव भगवान् प्रमाणम्
हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ ३४ ॥
दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ।
प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ! ॥ ३५ ॥
अत्राह—न खलु व्यसनितया प्रमाणमन्विष्यते प्रेक्षावद्भिः, अपि तु स्वर्गा-
पवर्गप्रधानपुरुषार्थप्रेप्सुभिः तद्विषयज्ञानवान् कश्चित् ( मृग्यते ) अन्विष्यते
तदुक्तस्योपायस्य प्रतिपत्तयेऽनुष्ठानार्थम् अज्ञोपदेशकरणे विप्रलम्भन-
शङ्किभिः विसंवादं सम्भावयद्भिः ॥ ३२ ॥
दुःखोपशमोपायोपदेष्टुर्ज्ञानं मृग्यते, यतस्तस्मादनुष्ठेयगतं संसारदुःख-
प्रशमोपायं ज्ञानमस्य प्रमाणपुरुषस्य विचार्यताम् । अनुपयोगि कीटसंख्या-
परिज्ञानं तस्योपदेष्टुर्नाऽस्माकं न क्वचित् पुरुषार्थे उपयुज्यते इति न
तद्विचार्यमिति प्रतिज्ञा, प्रत्युपकारापेक्षाक्षमं १ सर्वसत्त्वेषु । तस्माद् यदेवं प्रेक्षावता-
मनुष्ठेयं तद्विषयमुपदेष्टुं ज्ञानमुपयुक्तम्, नान्यविषयम् ॥ ३३ ॥
तस्माद्धेयतत्त्वस्य दुःखसत्यस्य साभ्युपायस्य समुदयसत्यान्वितस्योपा-
देयतत्त्वस्य निरोधसत्यस्य साभ्युपायस्य मार्गसत्यसहितस्य प्रमाणपरिशुद्धस्य
यो वेदकः असौ प्रमाणमिष्टः, न तु सर्वस्य यस्य कस्यचिद्धि वेदकः । न
खलु सकलज्ञानादार्यसत्यचतुष्टयदेशना, अपि तु तज्ज्ञानवत्त्वात् २, तदुपदेष्टृतयैव
च प्रामाण्यमिष्यते ॥ ३४ ॥
तदेवाह—दूरं पश्यतु वा, मा वा द्राक्षीत् , तत्त्वमिष्टं तु आर्यसत्यचतुष्टयं
पश्यतु, तावतैव भगवान् प्रमाणम् । अन्यथाऽतत्त्वदर्शपि प्रमाणं दूरदर्शी
१. ०कारापेक्षासमं—रा०। २. तज्ज्ञानत्वात्—रा०।