सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 52, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 52

२६ प्रमाणवार्त्तिके
सत्तोपकारिणी यस्य नित्यं तदनुबन्धतः ।
स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ॥ ५१ ॥
अस्तूपकारको वापि कदाचिच्चित्तसन्ततेः ।
वह्नयादिवद् घटादीनां विनिवृत्तिर्न तावता ॥ ५२ ॥
अनिवृत्तिप्रसङ्गश्च देहे तिष्ठति चेतसः ।
तद्भावभावाद् वश्यत्वात् प्राणापानौ ततो न तत् ॥ ५३ ॥
अप्येकसामग्र्यधीनत्वात् सहस्थितिमन्तः । ननु यो यद्विकारेण विक्रियते स तदा-
श्रितः, यथा चक्षुरादिविकारेण विक्रियमाणं तज्ज्ञानं चक्षुराद्याश्रितम् ; विषश्लेष्मा-
दिना कायविकारे च विक्रियते मनोविज्ञानम्, अतस्तदाश्रितम् ? इत्याह—
“तज्ज्ञानेरुपकार्यत्वात्” इत्यादिनोक्तमपि अर्थद्वारेण विक्रिया आलम्ब्यमाना
हि शस्त्रप्रहारादयो विकारयन्ति मानसम्, न त्वाश्रयत्वेन ॥ ५० ॥
न चोपकारक इत्येवाश्रयः, किन्तु निर्वर्त्तकः; तदाह—यस्य सत्ता
निर्वर्त्त्यस्य उपकारिणी स हेतुः, स एवाश्रयः । कथमुपकारिणी ? नित्यं तस्य
निर्वर्त्त्यस्यानुबन्धतोऽनुवर्त्तनात्। यस्य तु कदाचिदुपकारकत्वम्, असौ विशेषस्यैव
हेतुर्न धर्मिणः; तदभावेऽपि तद्भावात् । चित्तमात्रप्रतिबद्धं च चित्तम्; तद्विशेषस्तु
कायादिहेतुकः । अतो नायं हेतुः । न च तन्निवृत्त्या निवृत्तिश्चित्तस्य । नित्या-
नुबन्धितया हेतुत्वमभिप्रेत्य चास्मिन् सतीदं भवतीति सप्तम्युच्यते, तस्मादिति
च पञ्चमी, तद्धेत्वनुबद्धां कार्यतां चाभिप्रेत्योत्पादादिति चोच्यते ॥ ५१ ॥
ननु हेतुरुपकारकः, कथञ्चिदुपकुर्वन् दृश्यते च कदाचिद् देहश्चित्तम् ?
अत आह—अस्तूपकारको वापि कदाचिच्चित्तसन्ततेर्देहो वह्नयादिवद्
घटादीनाम्, न च तावतोपकारकनिवृत्त्या उपकार्यस्य निवृत्तिः । न हि
वह्निर्घटस्यापाकमुपकारं कुर्वन्नपि स्वनिवृत्त्या निवर्त्तकः ॥ ५२ ॥
किञ्च—अनिवृत्तिप्रसंगश्च देहे तिष्ठति चेतसः । स्वजातिनिरपेक्षस्य
देहमात्रहेतुकस्याविकलहेतोरनुत्पत्त्ययोगात् । ततो यावद्देहस्तावन्न मरणं भवेत् ।
प्राणापानावपि चित्तकारणम्, तयोर्वैकल्यान्मरणभावस्थायां न चित्तोत्पाद इति
चेत् ? आह—तस्य चित्तस्य भावे भावात् प्राणापानौ ततो भवतः । चित्त-