सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 41, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 41

प्रमाणसिद्धिः १५
तद्भावादर्थसिद्धौ¹ तु सर्वं सर्वस्य सिध्यति ॥ १८ ॥
२. साङ्ख्यमतखण्डनम्
एतेन कापिलादीनामचैतन्यादि चिन्तितम् ।
अनित्यादेश्च चैतन्यं मरणात् त्वगपोहतः ॥ १९ ॥
वस्तुस्वरूपेऽसिद्धेऽयं न्यायः सिद्धे विशेषणम् ।
अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः ॥ २० ॥
तस्य शब्दस्य भावात् । अर्थसिद्धौ सत्यां सर्वं यथासमीहितं साध्यं सर्वस्य
सिध्यति ॥ १८ ॥ उक्तमीश्वर साधनस्य दूषणम् ॥
अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह—एतेन शब्दसामान्यमात्रस्यार्थशून्यस्या-
हेतुत्वकथनेन यत् कापिलादेर्बुद्धिसुखादीनामनित्यत्वोत्पत्तिमत्त्वादिहेतुतोऽचेत-
नत्वमिष्टम् ; तथा दिगम्बराणां चैतन्यं तरूणां सर्वस्याः त्वचोऽपोहतोऽपगते-
र्मरणादभिमतम् , तच्चिन्तितं वेदितव्यम् । यथा ह्यप्रच्युतप्राच्यरूपस्य तिरोधा-
नमनित्यत्वं साङ्ख्यस्येष्टम् , बौद्धस्य तु निरन्वयविनाशित्वम् । तस्य यथाक्रम-
मुपादाने प्रतिवाद्यसिद्धता वाद्यसिद्धता च। न² तूभयासिद्धमनित्यत्वमस्ति² किञ्चदृते
शब्दसाम्याद् । तथा विज्ञानेन्द्रियायुर्निरोधलक्षणं मरणमिष्टं बौद्धसिद्धान्ते ।
तस्य च तरुष्वसिद्धिः, चेतनत्वस्यैव साध्यत्वात् । न ह्यसिद्धेषु तन्निरोधो युक्तः ।
शोषमात्रं तु तरुषु मरणमुपचारादुच्यते । यदि च मरणवाच्यत्वमात्रं हेतुः,
तदा तैलादिष्वपि तत्सत्त्वात् साधारणानैकान्तिकता ॥ १९ ॥
नन्वेवं कृतकत्वादिकमपि हेतुर्न स्याद् , आकाशगुणशब्दस्य धर्मो बौद्धस्या-
सिद्धः, अन्यथा चान्यस्य ? इत्यत आह—वस्तुस्वरूपेऽसिद्धेऽयं न्यायः
यथोक्तासिद्धिचोदनालक्षणः । वस्तुस्वरूपे तु धर्मिणि हेतौ सिद्धे विशेषणम-
सिद्धावप्यबाधकम् । किमिव ? आकाशाश्रयवद् ध्वनेः । यथा शब्दस्या-
काशगुणत्वं विशेषणमपि न बाधकम् , धर्मितायाः कृतकत्वादिहेतोर्वा विशेषणा-
सिद्धावपि हि शब्दो धर्मी प्रत्यक्षसिद्धः, कृतकत्वादि चानुमानसिद्धम् । तावतैव
च साध्यसाधनभावो निर्विरोधः ॥ २० ॥
१. तदभावाद्; अर्थ०—रा० । २-२. ननू०—रा० ।