प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 39, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः १३
सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि;
तद्युक्तं तस्माद् यदनुमीयते ॥ १३ ॥
वस्तुभेदे¹ प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिव² हुताशने ॥ १४ ॥
अथ वा—यादृशबुद्धिमत्पूर्वकं सन्निवेशादि दृष्टान्ते दृष्टं तस्य धर्मिण्य-
सिद्धिः ? इत्याह—घटे दृष्टान्तधर्मिणि सन्निवेशादि यादृशं पृथुबुध्नोदरादि
दृष्टैकव्यक्तिजात्या विशेषितमधिष्ठातुः पुंसोऽन्वयव्यतिरेकानुविधानवत् व्यवहार-
प्रगल्भपुरुषाणां तत्सिद्धान्तानुरोधरहितानां प्रत्यक्षबलेनानुरूपनिश्चयोत्पादात् सिद्धं
निश्चितम् ॥
तस्मात् सन्निवेशादपरत्रानुपलब्धपुरुषजन्मनि घटे यद् बुद्धिमदधिष्ठान-
मनुमीयते तद् युक्तम्; तस्यैव पुरुषकार्यत्वेन निश्चयात् ॥ असन्निवेशव्यावृत्तं
सन्निवेशमात्रं तु सदपि न तत्कार्यतया प्रत्यक्षमुपस्थापयति । प्रत्यक्षव्यापारवि-
वादे च पटुप्रचारा व्यवहारिणः शरणम् । न हि कश्चिद् व्यवहारी घटं पुरुष-
कृतं पश्यन् शरावादि पर्वतादिकं वा तत्कृतमवधारयति । यदा तु शरावादी-
नपि तत उदयमासादयतः पश्यति तदा तानपि तत्कृतानवैति । अतः सन्निवेश-
विशेषं पुरुषकार्यं दृष्टवतः सन्निवेशमात्रात् तदनुमानमयुक्तम् ॥ १३ ॥
एतदेवाह—वस्तुभेदे घटे प्रसिद्धस्य पुरुषपूर्वकत्वस्य सन्निवेश इति शब्द-
साम्यादभेदिनः सन्निवेशमात्रात् पर्वतादौ न युक्तानुमितिः पाण्डुद्रव्यादिव²
हुताशने । यथा पाण्डुविशेषस्य धूमस्य कारणत्वेन दृष्टे वह्नौ पाण्डुशब्द-
साम्यादभेदिनो यतः कुतश्चिद् पाण्डुद्रव्याद् धूमादेरनुमानमनुचितम् , अतो यत्तद्
बुद्धिमद्व्याप्तं सन्निवेशादि तद्धर्मिणि नास्तीत्यसिद्धिर्हेतूनाम् ॥ १४ ॥
ननु सन्निवेशादिसामान्यादसन्निवेशादिव्यावृत्त्या हेतवो भविष्यन्ति ? इत्यत
१. वस्तुविशेष इत्यर्थः ।
२-२. पाण्डुद्रव्यादिवद्—रा० । एवमेव टीकायामपि ।