प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 49, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः ३३
कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः ॥ ४२ ॥
यादृश्याक्षेपिका साऽसीत् पश्चादप्यस्तु तादृशी ।
तज्ज्ञानैरुपकार्यत्वाद्युक्तं कायाश्रितं मनः ॥ ४३ ॥
यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना ।
तथाप्यन्योऽन्यहेतुत्वं ततोऽप्यन्योऽन्यहेतुके ॥ ४४ ॥
विज्ञानसिद्धिः
नाक्रमात् क्रमिणो भावो नाप्यपेक्षाऽविशेषिणः ।
स तर्हि तदाश्रितो भविष्यति ? न; स च बुद्धिमेव समाश्रितः, निमित्त-
श्चाक्षाणाम् । तस्मादक्षाणि बुद्धितः, न बुद्धिस्तेभ्यः ॥ ४२ ॥
ततो जन्मादौ यादृशी दृष्टात्मग्रहयोगिनी बुद्धिराक्षेपिका बुद्धीन्द्रियादी-
नामासीत् , पश्चादपि मरणावस्थायामपि तादृश्याक्षेपिका भवतु । जन्मान्तरस्य
शरीरान्तरसम्बद्धबुद्धीन्द्रियाद्युत्पादनलक्षणस्येति पूर्वोक्तनिगमनम् ।
ननु कायाश्रितत्वं मनसोऽप्युक्तं भगवता—“अन्योऽन्यानुविधायित्वं काय-
मनसोः” ( ) इति वदता, तत्कथम् ? इत्याह—तज्ज्ञानैः कायविषयैर्ज्ञानै
रूपादिग्राहिभिरुपकार्यत्वात् मनसः सुखोत्साहादिरूपेणोक्तं भगवता कायाश्रितं
मनोविज्ञानम् , न साक्षात्तदुत्पत्तेः ॥ ४३ ॥
नन्विन्द्रियाणि विना न बुद्धिरिति युक्तमाश्रयत्वमेषाम् ? इत्याह—यद्य-
प्यक्षैर्विना बुद्धिर्न भवति, तान्यप्यक्षाणि तया विना न भवन्ति; भूतमात्रा-
दुत्पत्तेः सर्वस्मादुत्पत्तिप्रसङ्गादित्युक्तेः । तथाप्यन्योऽन्यहेतुत्वमुक्तं भवति ।
ततोऽप्यन्योऽन्यहेतुके कायमनसी मध्यावस्थावत् अनादितादृक्प्रवाहवती—
इति सिद्धः परलोकः ॥ ४४ ॥
किञ्च—नाक्रमात् क्रमिणः १ कार्यस्य भावः; क्रमरहितत्वात् कारणस्य ।
तन्निष्पाद्यानि कार्याणि २ सकृज्जायेरन् । क्रमवतः सहकारिणोऽपेक्ष्य क्रमाज्जन-
यिष्यतीति चेत् ? नाप्यविशेषिणः स्थिरेकरूपस्य परैरनाधेयविशेषस्य परेषां
१. क्षणिकस्येति भावः ।
२. इन्द्रियविज्ञानादीनीति शेषः ।